Search Results

Search from 23,000+ Stotrams, Mantras & Spiritual Posts

अंगारक अष्टोत्तर शत नाम स्तोत्रम्

Angaraka Ashtottara Sata Nama Stotram in hindi
with lyrics, PDF, meaning, devotional benefits,
chanting guide and complete spiritual content.

angaraka ashtottara sata nama stotram in hindi

महीसुतो महाभागो मंगलो मंगलप्रदः ।
महावीरो महाशूरो महाबलपराक्रमः ॥ 1 ॥

महारौद्रो महाभद्रो माननीयो दयाकरः ।
मानदोऽमर्षणः क्रूरस्तापपापविवर्जितः ॥ 2 ॥

सुप्रतीपः सुताम्राक्षः सुब्रह्मण्यः सुखप्रदः ।
वक्रस्तंभादिगमनो वरेण्यो वरदः सुखी ॥ 3 ॥

वीरभद्रो विरूपाक्षो विदूरस्थो विभावसुः ।
नक्षत्रचक्रसंचारी क्षत्रपः क्षात्रवर्जितः ॥ 4 ॥

क्षयवृद्धिविनिर्मुक्तः क्षमायुक्तो विचक्षणः ।
अक्षीणफलदः चक्षुर्गोचरः शुभलक्षणः ॥ 5 ॥

वीतरागो वीतभयो विज्वरो विश्वकारणः ।
नक्षत्रराशिसंचारो नानाभयनिकृंतनः ॥ 6 ॥

कमनीयो दयासारः कनत्कनकभूषणः ।
भयघ्नो भव्यफलदो भक्ताभयवरप्रदः ॥ 7 ॥

शत्रुहंता शमोपेतः शरणागतपोषकः ।
साहसः सद्गुणाऽध्यक्षः साधुः समरदुर्जयः ॥ 8 ॥

दुष्टदूरः शिष्टपूज्यः सर्वकष्टनिवारकः ।
दुश्चेष्टवारको दुःखभंजनो दुर्धरो हरिः ॥ 9 ॥

दुःस्वप्नहंता दुर्धर्षो दुष्टगर्वविमोचकः ।
भरद्वाजकुलोद्भूतो भूसुतो भव्यभूषणः ॥ 10 ॥

रक्तांबरो रक्तवपुर्भक्तपालनतत्परः ।
चतुर्भुजो गदाधारी मेषवाहोऽमिताशनः ॥ 11 ॥

शक्तिशूलधरः शक्तः शस्त्रविद्याविशारदः ।
तार्किकस्तामसाधारस्तपस्वी ताम्रलोचनः ॥ 12 ॥

तप्तकांचनसंकाशो रक्तकिंजल्कसन्निभः ।
गोत्राधिदेवो गोमध्यचरो गुणविभूषणः ॥ 13 ॥

असृगंगारकोऽवंतीदेशाधीशो जनार्दनः ।
सूर्ययाम्यप्रदेशस्थो यौवनो याम्यदिङ्मुखः ॥ 14 ॥

त्रिकोणमंडलगतस्त्रिदशाधिपसन्नुतः ।
शुचिः शुचिकरः शूरो शुचिवश्यः शुभावहः ॥ 15 ॥

मेषवृश्चिकराशीशो मेधावी मितभाषणः ।
सुखप्रदः सुरूपाक्षः सर्वाभीष्टफलप्रदः ॥ 16 ॥

इति श्री अंगारकाष्टोत्तरशतनाम स्तोत्रम् ।

angaraka ashtottara sata nama stotram in hindi

Copy
Give Feedback