Search Results

Search from 23,000+ Stotrams, Mantras & Spiritual Posts

श्री काली प्रातः स्मरण स्तोत्रम्

Sri Kali Pratah Smarana Stotram in devanagari
with lyrics, PDF, meaning, devotional benefits,
chanting guide and complete spiritual content.

प्रातः स्मरामि मदिरारुणपूर्णनेत्रां
कालीं करालवदनां कमनीयमात्राम् ।
उद्यन्नितानतगतां विगतां स्वसंस्थान्
धात्रीं समस्त जगतां करुणार्द्रचित्ताम् ॥ १ ॥

प्रातर्भजामि भुजगाभरणामपर्णां
श्रीदक्षिणां ललितवाललतां सपर्णाम् ।
कारुण्यपूर्णनयनां नगराजकन्यां
धन्यां वराऽभयकरां परमार्तिहन्त्रीम् ॥ २ ॥

प्रातर्नमामि नगराजकुलोद्भवां तां
कान्तां शिवस्य करवालकपालहस्ताम् ।
त्रैलोक्यपालनपरां प्रणवादिमात्रां
नागेन्द्रहारकलितां ललितां त्रिनेत्राम् ॥ ३ ॥

श्लोकत्रयमिमं पुण्यं प्रातः प्रातः पठेन्नरः ।
तमोबुद्धिं समुत्तीर्य सपश्येत् कालिकापदम् ॥ ४ ॥

इति श्री काली प्रातः स्मरण स्तोत्रम् ।

Copy
Give Feedback