Search Results

Search from 23,000+ Stotrams, Mantras & Spiritual Posts

४ (त्रैलोक्यविजयम्)

Sri Bagalamukhi Kavacham 4 Trailokya Vijayam in devanagari
with lyrics, PDF, meaning, devotional benefits,
chanting guide and complete spiritual content.

श्रीभैरव उवाच ।
शृणु देवि प्रवक्ष्यामि स्वरहस्यं च कामदम् ।
श्रुत्वा गोप्यं गुप्ततमं कुरु गुप्तं सुरेश्वरि ॥ १ ॥

कवचं बगलामुख्याः सकलेष्टप्रदं कलौ ।
तत्सर्वस्वं परं गुह्यं गुप्तं च शरजन्मना ॥ २ ॥

त्रैलोक्यविजयं नाम कवचेशं मनोरमम् ।
मन्त्रगर्भं ब्रह्ममयं सर्वविद्याविनायकम् ॥ ३ ॥

रहस्यं परमं ज्ञेयं साक्षादमृतरूपकम् ।
ब्रह्मविद्यामयं वर्म दुर्लभं प्राणिनां कलौ ॥ ४ ॥

पूर्णमेकोनपञ्चाशद्वर्णैरुक्तं महेश्वरि ।
त्वद्भक्त्या वच्मि देवेशि गोपनीयं स्वयोनिवत् ॥ ५ ॥

श्रीदेव्युवाच ।
भगवन् करुणासार विश्वनाथ सुरेश्वर ।
कर्मणा मनसा वाचा न वदामि कदाचन ॥ १ ॥

श्रीभैरव उवाच ।
त्रैलोक्यविजयाख्यस्य कवचास्यास्य पार्वति ।
मनुगर्भस्य गुप्तस्य ऋषिर्देवोऽस्य भैरवः ॥ १ ॥

उष्णिक्छन्दः समाख्यातं देवी श्रीबगलामुखी ।
बीजं ह्लीं ओं शक्तिः स्यात् स्वाहा कीलकमुच्यते ॥ २ ॥

विनियोगः समाख्यातः त्रिवर्गफलप्राप्तये ।
देवि त्वं पठ वर्मैतन्मन्त्रगर्भं सुरेश्वरि ॥ ३ ॥

विना ध्यानम् कुतः सिद्धिः सत्यमेतच्च पार्वति ।
चन्द्रोद्भासितमूर्धजां रिपुरसां मुण्डाक्षमालाकराम् ॥ ४ ॥

बालांसत्स्रकचञ्चलां मधुमदां रक्तां जटाजूटिनीम् ।
शत्रुस्तम्भनकारिणीं शशिमुखीं पीताम्बरोद्भासिनीम् ॥ ५ ॥

प्रेतस्थां बगलामुखीं भगवतीं कारुण्यरूपां भजे ।
ओं ह्लीं मम शिरः पातु देवी श्रीबगलामुखी ॥ ६ ॥

ओं ऐं क्लीं पातु मे फालं देवी स्तम्भनकारिणी ।
ओं अं इं हं भ्रुवोर्देशं पातु मे क्लेशहारिणी ॥ ७ ॥

ओं हं पातु मे नेत्रे नारसिंही शुभङ्करी ।
ओं ह्लीं श्रीं पातु मे गण्डौ अं आं इं भुवनेश्वरी ॥ ८ ॥

ओं ऐं क्लीं सौः श्रुतौ पातु ईं उं ऊं च परेश्वरी ।
ओं ह्लीं ह्लूं ह्लीं सदाव्यान्मे नासां ऋं ॠं सरस्वती ॥ ९ ॥

ओं ह्रां ह्रीं मे मुखं पातु लुं एं ऐं छिन्नमस्तिका ।
ओं श्रीं वं मेऽधरौ पातु ओं औं दक्षिणकालिका ॥ १० ॥

ओं क्लीं श्रीं शिरसः पातु अं अः कं खं च सारिका ।
ओं ह्रीं ह्रूं भैरवी पातु गं घं ङं त्रिपुरेश्वरी ॥ ११ ॥

ओं ऐं सौः मे हनुं पातु चं छं जं च मनोन्मनी ।
ओं श्रीं श्रीं मे गलं पातु झं ञं टं ठं गणेश्वरी ॥ १२ ॥

ओं स्कन्धौ मेऽव्याद् डं ढं णं हूं हूं चैव तु तोतला ।
ओं ह्रीं श्रीं मे भुजौ पातु तं थं दं वरवर्णिनी ॥ १३ ॥

ओं ऐं क्लीं सौः स्तनौ पातु धं नं पं परमेश्वरी ।
क्रों क्रों मे रक्षयेद् वक्षः फं बं भं भगवासिनी ॥ १४ ॥

ओं ह्रीं रां पातु कक्षि मे मं यं रं वह्निवल्लभा ।
ओं श्रीं ह्रूं पातु मे पार्श्वौ लं बं लम्बोदर प्रसूः ॥ १५ ॥

ओं श्रीं ह्रीं पातु मे नाभिं शं षं षण्मुखपालिनी ।
ओं ऐं सौः पातु मे पृष्ठं सं हं हाटकरूपिणी ॥ १६ ॥

ओं क्लीं ऐं कटि पातु पञ्चाशद्वर्णमालिका ।
ओं ऐं क्लीं पातु मे गुह्यं अं आं कं गुह्यकेश्वरी ॥ १७ ॥

ओं श्रीं ऊं ऋं सदाव्यान्मे इं ईं खं खां स्वरूपिणी ।
ओं जूं सः पातु मे जङ्घे रुं रूं धं अघहारिणी ॥ १८ ॥

ओं श्रीं ह्रीं पातु मे जानू उं ऊं णं गणवल्लभा ।
ओं श्रीं सः पातु मे गुल्फौ लिं लीं ऊं चं च चण्डिका ॥ १९ ॥

ओं ऐं ह्रीं पातु मे वाणी एं ऐं छं जं जगत्प्रिया ।
ओं श्रीं क्लीं पातु पादौ मे झं ञं टं ठं भगोदरी ॥ २० ॥

ओं ह्रीं सर्वं वपुः पातु अं अः त्रिपुरमालिनी ।
ओं ह्रीं पूर्वे सदाऽव्यान्मे झं झां डं ढं शिखामुखी ॥ २१ ॥

ओं सौः याम्यं सदाव्यान्मे इं ईं णं तं च तारिणी ।
ओं वारुण्यां च वाराही उं थं दं धं च कम्पिला ॥ २२ ॥

ओं श्रीं मां पातु चैशान्यां पातु ओं नं जनेश्वरी ।
ओं श्रीं मां पातु चाग्नेयां ऋं भं मं धं च योगिनी ॥ २३ ॥

ओं ऐं मां पातु नैरृत्यां लुं लं राजेश्वरी तथा ।
ओं श्रीं मां पातु वायव्यां लूं लं च वीतकेशिनी ॥ २४ ॥

ओं प्रभाते च मां पातु लीं लं वागीश्वरी सदा ।
ओं मध्याह्ने च मां पातु ऐं क्षं शङ्करवल्लभा ॥ २५ ॥

ओं श्रीं ह्रीं क्लीं पातु सायं ऐं आं शाकम्बरी सदा ।
ओं ह्रीं निशादौ मां पातु ओं सं सागरवासिनी ॥ २६ ॥

क्लीं निशीथे च मां पातु ओं हं हरिहरेश्वरी ।
ओं क्लीं ब्राह्मे मुहूर्तेऽव्याद् लं लां त्रिपुरसुन्दरी ॥ २७ ॥

विसर्गा तु यत् स्थानं वर्जितं कवचेन तु ।
क्लीं तन्मे सकलं पातु अं क्षं ह्रीं बगलामुखी ॥ २८ ॥

फलश्रुतिः –
इतीदं कवचं दिव्यं मन्त्राक्षरमयं परम् ।
त्रैलोक्यविजयं नाम सर्ववर्णमयं स्मृतम् ॥ २९ ॥

अप्रकाश्यं सदा देवि श्रोतव्यं वा च वाचिकम् ।
दुर्जनायाकुलीनाय दीक्षाहीनाय पार्वति ॥ ३० ॥

न दातव्यं न दातव्यमित्याज्ञा परमेश्वरी ।
दीक्षाकार्यविहीनाय शक्तिभक्तिविरोधिने ॥ ३१ ॥

कवचस्यास्य पठनात् साधको दीक्षितो भवेत् ।
कवचेशमिदं गोप्यं सिद्धविद्यामयं परम् ॥ ३२ ॥

ब्रह्मविद्यामयं गोप्यं यथेष्टफलदं शिवे ।
न कस्य कथितं चैतद् त्रैलोक्यविजयेश्वरम् ॥ ३३ ॥

अस्य स्मरणमात्रेण देवी सद्यो वशी भवेत् ।
पठनाद्धारणादस्य कवचेशस्य साधकः ॥ ३४ ॥

कलौ विचरते वीरो यथा श्रीबगलामुखी ।
इदं वर्म स्मरेन्मन्त्री सङ्ग्रामे प्रविशेद्यदा ॥ ३५ ॥

युयुत्सुः पठन् कवचं साधको विजयी भवेत् ।
शत्रुं कालसमानं तु जित्वा स्वगृहमेति सः ॥ ३६ ॥

मूर्ध्नि धृत्वा यः कवचं मन्त्रगर्भं सुसाधकः ।
ब्रह्माद्यमरान् सर्वान् सहसा वशमानयेत् ॥ ३७ ॥

धृत्वा गले तु कवचं साधकस्य महेश्वरि ।
वशमायान्ति सहसा रम्भाद्यप्सरसां गणाः ॥ ३८ ॥

उत्पातेषु च घोरेषु भयेषु विविधेषु च ।
रोगेषु च कवचेशं मन्त्रगर्भं पठेन्नरः ॥ ३९ ॥

कर्मणा मनसा वाचा तद्भयं शान्तिमेष्यति ।
श्रीदेव्या बगलामुख्याः कवचेशं मयोदितम् ॥ ४० ॥

त्रैलोक्यविजयं नाम पुत्रपौत्रधनप्रदम् ।
ऋणं च हरते सम्यक् लक्ष्मीर्भोगविवर्धिनी ॥ ४१ ॥

वन्ध्या जनयते कुक्षौ पुत्ररत्नं न चान्यथा ।
मृतवत्सा च विभूयात् कवचं च गले सदा ॥ ४२ ॥

दीर्घायुर्व्याधिहीनश्च तत्पुत्रो वर्धतेऽनिशम् ।
इतीदं बगलामुख्याः कवचेशं सुदुर्लभम् ॥ ४३ ॥

त्रैलोक्यविजयं नाम न देयं यस्यकस्यचित् ।
अकुलीनाय मूढाय भक्तिहीनाय दम्भिने ॥ ४४ ॥

लोभयुक्ताय देवेशि न दातव्यं कदाचन ।
लोभदम्भविहीनाय कवचेशं प्रदीयताम् ॥ ४५ ॥

अभक्तेभ्यो अपुत्रेभ्यो दत्त्वा कुष्ठी भवेन्नरः ।
रवौ रात्रौ च सुस्नातः पूजागृहगतः सुधीः ॥ ४६ ॥

दीपमुज्ज्वाल्य मूलेन पठेद्धर्मेदमुत्तमम् ।
प्राप्तौ सत्यां त्रिरात्रौ हि राजा तद्गृहमेष्यति ।
मण्डलेशो महेशानि देवि सत्यं न संशयः ॥ ४७ ॥

इदं तु कवचेशं तु मया प्रोक्तं नगात्मजे ।
गोप्यं गुह्यतरं देवि गोपनीयं स्वयोनिवत् ॥ ४८ ॥

इति श्रीविश्वयामले त्रैलोक्यविजयं नाम श्री बगलामुखी कवचम् ॥

Copy
Give Feedback