Search Results

Search from 23,000+ Stotrams, Mantras & Spiritual Posts

द्वादश आदित्य ध्यान श्लोकाः

Dvadasha Aditya Dhyana Slokas in devanagari
with lyrics, PDF, meaning, devotional benefits,
chanting guide and complete spiritual content.

dvadasha aditya dhyana slokas in devanagari

1. धाता
धाता कृतस्थली हेतिर्वासुकी रथकृन्मुने ।
पुलस्त्यस्तुम्बुरुरिति मधुमासं नयन्त्यमी ॥

धाता शुभस्य मे दाता भूयो भूयोऽपि भूयसः ।
रश्मिजालसमाश्लिष्टः तमस्तोमविनाशनः ॥

2. अर्यम्
अर्यमा पुलहोऽथौजाः प्रहेति पुञ्जिकस्थली ।
नारदः कच्छनीरश्च नयन्त्येते स्म माधवम् ॥

मेरुशृङ्गान्तरचरः कमलाकरबान्धवः ।
अर्यमा तु सदा भूत्यै भूयस्यै प्रणतस्य मे ॥

3. मित्रः
मित्रोऽत्रिः पौरुषेयोऽथ तक्षको मेनका हहः ।
रथस्वन इति ह्येते शुक्रमासं नयन्त्यमी ॥

निशानिवारणपटुः उदयाद्रिकृताश्रयः ।
मित्रोऽस्तु मम मोदाय तमस्तोमविनाशनः ॥

4. वरुणः
वसिष्ठो ह्यरुणो रम्भा सहजन्यस्तथा हुहुः ।
शुक्रश्चित्रस्वनश्चैव शुचिमासं नयन्त्यमी ॥

सूर्यस्यन्दनमारूढ अर्चिर्माली प्रतापवान् ।
कालभूतः कामरूपो ह्यरुणः सेव्यते मया ॥

5. इन्द्रः
इन्द्रो विश्वावसुः श्रोता एलापत्रस्तथाऽङ्गिराः ।
प्रम्लोचा राक्षसोवर्यो नभोमासं नयन्त्यमी ॥

सहस्ररश्मिसंवीतं इन्द्रं वरदमाश्रये ।
शिरसा प्रणमाम्यद्य श्रेयो वृद्धिप्रदायकम् ॥

6. विवस्वान्
विवस्वानुग्रसेनश्च व्याघ्र आसारणो भृगुः ।
अनुम्लोचाः शङ्खपालो नभस्याख्यं नयन्त्यमी ॥

जगन्निर्माणकर्तारं सर्वदिग्व्याप्ततेजसम् ।
नभोग्रहमहादीपं विवस्वन्तं नमाम्यहम् ॥

7. त्वष्टा
त्वष्टा ऋचीकतनयः कम्बलाख्यस्तिलोत्तमा ।
ब्रह्मापेतोऽथ शतजित् धृतराष्ट्र इषम्भरा ॥

त्वष्टा शुभाय मे भूयात् शिष्टावलिनिषेवितः ।
नानाशिल्पकरो नानाधातुरूपः प्रभाकरः ।

8. विष्णुः
विष्णुरश्वतरो रम्भा सूर्यवर्चाश्च सत्यजित् ।
विश्वामित्रो मखापेत ऊर्जमासं नयन्त्यमी ॥

भानुमण्डलमध्यस्थं वेदत्रयनिषेवितम् ।
गायत्रीप्रतिपाद्यं तं विष्णुं भक्त्या नमाम्यहम् ॥

9. अंशुमान्
अथांशुः कश्यपस्तार्क्ष्य ऋतसेनस्तथोर्वशी ।
विद्युच्छत्रुर्महाशङ्खः सहोमासं नयन्त्यमी ॥

सदा विद्रावणरतो जगन्मङ्गलदीपकः ।
मुनीन्द्रनिवहस्तुत्यो भूतिदोऽंशुर्भवेन्मम ॥

10. भगः
भगः स्फूर्जोऽरिष्टनेमिः ऊर्ण आयुश्च पञ्चमः ।
कर्कोटकः पूर्वचित्तिः पौषमासं नयन्त्यमी ॥

तिथि मास ऋतूनां च वत्सराऽयनयोरपि ।
घटिकानां च यः कर्ता भगो भाग्यप्रदोऽस्तु मे ॥

11. पूष
पूषा धनञ्जयो वातः सुषेणः सुरुचिस्तथा ।
घृताची गौतमश्चेति तपोमासं नयन्त्यमी ।
पूषा तोषाय मे भूयात् सर्वपापाऽपनोदनात् ।
सहस्रकरसंवीतः समस्ताशान्तरान्तरः ॥

12. पर्जन्यः
क्रतुर्वार्चा भरद्वाजः पर्जन्यः सेनजित् तथा ।
विश्वश्चैरावतश्चैव तपस्याख्यं नयन्त्यमी ॥

प्रपञ्चं प्रतपन् भूयो वृष्टिभिर्मादयन् पुनः ।
जगदानन्दजनकः पर्जन्यः पूज्यते मया ॥

ध्यायेस्सदा सवितृमण्डलमध्यवर्ती
नारायणस्सरसिजासन सन्निविष्टः।
केयूरवान् मकरकुण्डलवान् किरीटी
हारी हिरण्मयवपुः धृतशङ्खचक्रः ॥

dvadasha aditya dhyana slokas in devanagari

Copy
Give Feedback