Search Results

Search from 23,000+ Stotrams, Mantras & Spiritual Posts

धन्वन्तरी मन्त्र

Dhanvantari Mantra in devanagari
with lyrics, PDF, meaning, devotional benefits,
chanting guide and complete spiritual content.

dhanvantari mantra in devanagari

ध्यानं
अच्युतानन्त गोविन्द विष्णो नारायणाऽमृत
रोगान्मे नाशयाऽशेषानाशु धन्वन्तरे हरे ।
आरोग्यं दीर्घमायुष्यं बलं तेजो धियं श्रियं
स्वभक्तेभ्योऽनुगृह्णन्तं वन्दे धन्वन्तरिं हरिम् ॥

शङ्खं चक्रं जलौकां दधदमृतघटं चारुदोर्भिश्चतुर्भिः ।
सूक्ष्मस्वच्छातिहृद्यांशुक परिविलसन्मौलिमम्भोजनेत्रम् ।
कालाम्भोदोज्ज्वलाङ्गं कटितटविलसच्चारुपीताम्बराढ्यम् ।
वन्दे धन्वन्तरिं तं निखिलगदवनप्रौढदावाग्निलीलम् ॥

धन्वन्तरेरिमं श्लोकं भक्त्या नित्यं पठन्ति ये ।
अनारोग्यं न तेषां स्यात् सुखं जीवन्ति ते चिरम् ॥

मन्त्रं
ॐ नमो भगवते वासुदेवाय धन्वन्तरये अमृतकलशहस्ताय [वज्रजलौकहस्ताय] सर्वामयविनाशनाय त्रैलोक्यनाथाय श्रीमहाविष्णवे स्वाहा ।

[पाठान्तरः]
ॐ नमो भगवते महासुदर्शनाय वासुदेवाय धन्वन्तरये अमृतकलशहस्ताय सर्वभयविनाशाय सर्वरोगनिवारणाय त्रैलोक्यपतये त्रैलोक्यनिधये श्रीमहाविष्णुस्वरूप श्रीधन्वन्तरीस्वरूप श्री श्री श्री औषधचक्र नारायणाय स्वाहा ।

गायत्री मन्त्रम्
ॐ वासुदेवाय विद्महे सुधाहस्ताय धीमहि ।
तन्नो धन्वन्तरिः प्रचोदयात् ।

तारकमन्त्रम्
ॐ धं धन्वन्तरये नमः ।

dhanvantari mantra in devanagari

Copy
Give Feedback