Search Results

Search from 23,000+ Stotrams, Mantras & Spiritual Posts

चन्द्र अष्टोत्तर शत नाम स्तोत्रम्

Chitti Pannam in devanagari
with lyrics, PDF, meaning, devotional benefits,
chanting guide and complete spiritual content.

chitti pannam in devanagari

श्रीमान् शशधरश्चन्द्रो ताराधीशो निशाकरः ।
सुधानिधिः सदाराध्यः सत्पतिः साधुपूजितः ॥ 1 ॥

जितेन्द्रियो जगद्योनिः ज्योतिश्चक्रप्रवर्तकः ।
विकर्तनानुजो वीरो विश्वेशो विदुषां पतिः ॥ 2 ॥

दोषाकरो दुष्टदूरः पुष्टिमान् शिष्टपालकः ।
अष्टमूर्तिप्रियोऽनन्तकष्टदारुकुठारकः ॥ 3 ॥

स्वप्रकाशः प्रकाशात्मा द्युचरो देवभोजनः ।
कलाधरः कालहेतुः कामकृत्कामदायकः ॥ 4 ॥

मृत्युसंहारकोऽमर्त्यो नित्यानुष्ठानदायकः ।
क्षपाकरः क्षीणपापः क्षयवृद्धिसमन्वितः ॥ 5 ॥

जैवातृकः शुची शुभ्रो जयी जयफलप्रदः ।
सुधामयः सुरस्वामी भक्तनामिष्टदायकः ॥ 6 ॥

भुक्तिदो मुक्तिदो भद्रो भक्तदारिद्र्यभञ्जकः ।
सामगानप्रियः सर्वरक्षकः सागरोद्भवः ॥ 7 ॥

भयान्तकृद्भक्तिगम्यो भवबन्धविमोचकः ।
जगत्प्रकाशकिरणो जगदानन्दकारणः ॥ 8 ॥

निस्सपत्नो निराहारो निर्विकारो निरामयः ।
भूच्छायाऽऽच्छादितो भव्यो भुवनप्रतिपालकः ॥ 9 ॥

सकलार्तिहरः सौम्यजनकः साधुवन्दितः ।
सर्वागमज्ञः सर्वज्ञो सनकादिमुनिस्तुतः ॥ 10 ॥

सितच्छत्रध्वजोपेतः सिताङ्गो सितभूषणः ।
श्वेतमाल्याम्बरधरः श्वेतगन्धानुलेपनः ॥ 11 ॥

दशाश्वरथसंरूढो दण्डपाणिः धनुर्धरः ।
कुन्दपुष्पोज्ज्वलाकारो नयनाब्जसमुद्भवः ॥ 12 ॥

आत्रेयगोत्रजोऽत्यन्तविनयः प्रियदायकः ।
करुणारससम्पूर्णः कर्कटप्रभुरव्ययः ॥ 13 ॥

चतुरश्रासनारूढश्चतुरो दिव्यवाहनः ।
विवस्वन्मण्डलाग्नेयवासो वसुसमृद्धिदः ॥ 14 ॥

महेश्वरप्रियो दान्तः मेरुगोत्रप्रदक्षिणः ।
ग्रहमण्डलमध्यस्थो ग्रसितार्को ग्रहाधिपः ॥ 15 ॥

द्विजराजो द्युतिलको द्विभुजो द्विजपूजितः ।
औदुम्बरनगावास उदारो रोहिणीपतिः ॥ 16 ॥

नित्योदयो मुनिस्तुत्यो नित्यानन्दफलप्रदः ।
सकलाह्लादनकरः पलाशसमिधप्रियः ॥ 17 ॥

एवं नक्षत्रनाथस्य नाम्नामष्टोत्तरं शतम् ॥

इति श्री चन्द्र अष्टोत्तरशतनाम स्तोत्रम् ।

chitti pannam in devanagari

Copy
Give Feedback