Search Results

Search from 23,000+ Stotrams, Mantras & Spiritual Posts

श्री वेङ्कटेश्वर वज्र कवच स्तोत्रम्

Sri Venkateswara Vajra Kavacha Stotram in sanskrit
with lyrics, PDF, meaning, devotional benefits,
chanting guide and complete spiritual content.

sri venkateswara vajra kavacha stotram in sanskrit

मार्कण्डेय उवाच ।

नारायणं परब्रह्म सर्व-कारण-कारणम् ।
प्रपद्ये वेङ्कटेशाख्यं तदेव कवचं मम ॥ 1 ॥

सहस्र-शीर्षा पुरुषो वेङ्कटेश-श्शिरोऽवतु ।
प्राणेशः प्राण-निलयः प्राणान् रक्षतु मे हरिः ॥ 2 ॥

आकाशरा-ट्सुतानाथ आत्मानं मे सदावतु ।
देवदेवोत्तमो पायाद्देहं मे वेङ्कटेश्वरः ॥ 3 ॥

सर्वत्र सर्वकालेषु मङ्गाम्बाजा-निरीश्वरः ।
पालयेन्मां सदा कर्म-साफल्यं नः प्रयच्छतु ॥ 4 ॥

य एत-द्वज्रकवच-मभेद्यं वेङ्कटेशितुः ।
सायं प्रातः पठेन्नित्यं मृत्युं तरति निर्भयः ॥ 5 ॥

इति मार्कण्डेय-कृतं श्री वेङ्कटेश्वर वज्रकवच-स्तोत्रं सम्पूर्णम् ॥

sri venkateswara vajra kavacha stotram in sanskrit

Copy
Give Feedback