Search Results

Search from 23,000+ Stotrams, Mantras & Spiritual Posts

श्री स्वर्ण आकर्षण भैरव स्तोत्रम्

Sri Swarna Akarshana Bhairava Stotram in sanskrit
with lyrics, PDF, meaning, devotional benefits,
chanting guide and complete spiritual content.

sri swarna akarshana bhairava stotram in sanskrit

ॐ अस्य श्री स्वर्णाकर्षण भैरव स्तोत्र महामन्त्रस्य ब्रह्म ऋषिः अनुष्टुप् छन्दः श्री स्वर्णाकर्षण भैरवो देवता ह्रीं बीजं क्लीं शक्तिः सः कीलकं मम दारिद्र्य नाशार्थे पाठे विनियोगः ॥

ऋष्यादि न्यासः ।
ब्रह्मर्षये नमः शिरसि ।
अनुष्टुप् छन्दसे नमः मुखे ।
स्वर्णाकर्षण भैरवाय नमः हृदि ।
ह्रीं बीजाय नमः गुह्ये ।
क्लीं शक्तये नमः पादयोः ।
सः कीलकाय नमः नाभौ ।
विनियॊगाय नमः सर्वाङ्गे ।
ह्रां ह्रीं ह्रूं इति कर षडङ्गन्यासः ॥

ध्यानम् ।
पारिजातद्रुम कान्तारे स्थिते माणिक्यमण्डपे ।
सिंहासनगतं वन्दे भैरवं स्वर्णदायकम् ॥

गाङ्गेय पात्रं डमरूं त्रिशूलं
वरं करः सन्दधतं त्रिनेत्रम् ।
देव्यायुतं तप्त सुवर्णवर्ण
स्वर्णाकर्षणभैरवमाश्रयामि ॥

मन्त्रः ।
ॐ ऐं ह्रीं श्रीं ऐं श्रीं आपदुद्धारणाय ह्रां ह्रीं ह्रूं अजामलवध्याय लोकेश्वराय स्वर्णाकर्षणभैरवाय मम दारिद्र्य विद्वेषणाय महाभैरवाय नमः श्रीं ह्रीं ऐम् ।

स्तोत्रम् ।
नमस्तेऽस्तु भैरवाय ब्रह्मविष्णुशिवात्मने ।
नमस्त्रैलोक्यवन्द्याय वरदाय परात्मने ॥ 1 ॥

रत्नसिंहासनस्थाय दिव्याभरणशोभिने ।
दिव्यमाल्यविभूषाय नमस्ते दिव्यमूर्तये ॥ 2 ॥

नमस्तेऽनेकहस्ताय ह्यनेकशिरसे नमः ।
नमस्तेऽनेकनेत्राय ह्यनेकविभवे नमः ॥ 3 ॥

नमस्तेऽनेककण्ठाय ह्यनेकांशाय ते नमः ।
नमोस्त्वनेकैश्वर्याय ह्यनेकदिव्यतेजसे ॥ 4 ॥

अनेकायुधयुक्ताय ह्यनेकसुरसेविने ।
अनेकगुणयुक्ताय महादेवाय ते नमः ॥ 5 ॥

नमो दारिद्र्यकालाय महासम्पत्प्रदायिने ।
श्रीभैरवीप्रयुक्ताय त्रिलोकेशाय ते नमः ॥ 6 ॥

दिगम्बर नमस्तुभ्यं दिगीशाय नमो नमः ।
नमोऽस्तु दैत्यकालाय पापकालाय ते नमः ॥ 7 ॥

सर्वज्ञाय नमस्तुभ्यं नमस्ते दिव्यचक्षुषे ।
अजिताय नमस्तुभ्यं जितामित्राय ते नमः ॥ 8 ॥

नमस्ते रुद्रपुत्राय गणनाथाय ते नमः ।
नमस्ते वीरवीराय महावीराय ते नमः ॥ 9 ॥

नमोऽस्त्वनन्तवीर्याय महाघोराय ते नमः ।
नमस्ते घोरघोराय विश्वघोराय ते नमः ॥ 10 ॥

नमः उग्राय शान्ताय भक्तेभ्यः शान्तिदायिने ।
गुरवे सर्वलोकानां नमः प्रणव रूपिणे ॥ 11 ॥

नमस्ते वाग्भवाख्याय दीर्घकामाय ते नमः ।
नमस्ते कामराजाय योषित्कामाय ते नमः ॥ 12 ॥

दीर्घमायास्वरूपाय महामायापते नमः ।
सृष्टिमायास्वरूपाय विसर्गाय सम्यायिने ॥ 13 ॥

रुद्रलोकेशपूज्याय ह्यापदुद्धारणाय च ।
नमोऽजामलबद्धाय सुवर्णाकर्षणाय ते ॥ 14 ॥

नमो नमो भैरवाय महादारिद्र्यनाशिने ।
उन्मूलनकर्मठाय ह्यलक्ष्म्या सर्वदा नमः ॥ 15 ॥

नमो लोकत्रयेशाय स्वानन्दनिहिताय ते ।
नमः श्रीबीजरूपाय सर्वकामप्रदायिने ॥ 16 ॥

नमो महाभैरवाय श्रीरूपाय नमो नमः ।
धनाध्यक्ष नमस्तुभ्यं शरण्याय नमो नमः ॥ 17 ॥

नमः प्रसन्नरूपाय ह्यादिदेवाय ते नमः ।
नमस्ते मन्त्ररूपाय नमस्ते रत्नरूपिणे ॥ 18 ॥

नमस्ते स्वर्णरूपाय सुवर्णाय नमो नमः ।
नमः सुवर्णवर्णाय महापुण्याय ते नमः ॥ 19 ॥

नमः शुद्धाय बुद्धाय नमः संसारतारिणे ।
नमो देवाय गुह्याय प्रबलाय नमो नमः ॥ 20 ॥

नमस्ते बलरूपाय परेषां बलनाशिने ।
नमस्ते स्वर्गसंस्थाय नमो भूर्लोकवासिने ॥ 21 ॥

नमः पातालवासाय निराधाराय ते नमः ।
नमो नमः स्वतन्त्राय ह्यनन्ताय नमो नमः ॥ 22 ॥

द्विभुजाय नमस्तुभ्यं भुजत्रयसुशोभिने ।
नमोऽणिमादिसिद्धाय स्वर्णहस्ताय ते नमः ॥ 23 ॥

पूर्णचन्द्रप्रतीकाशवदनाम्भोजशोभिने ।
नमस्ते स्वर्णरूपाय स्वर्णालङ्कारशोभिने ॥ 24 ॥

नमः स्वर्णाकर्षणाय स्वर्णाभाय च ते नमः ।
नमस्ते स्वर्णकण्ठाय स्वर्णालङ्कारधारिणे ॥ 25 ॥

स्वर्णसिंहासनस्थाय स्वर्णपादाय ते नमः ।
नमः स्वर्णाभपाराय स्वर्णकाञ्चीसुशोभिने ॥ 26 ॥

नमस्ते स्वर्णजङ्घाय भक्तकामदुघात्मने ।
नमस्ते स्वर्णभक्तानां कल्पवृक्षस्वरूपिणे ॥ 27 ॥

चिन्तामणिस्वरूपाय नमो ब्रह्मादिसेविने ।
कल्पद्रुमाधःसंस्थाय बहुस्वर्णप्रदायिने ॥ 28 ॥

नमो हेमादिकर्षाय भैरवाय नमो नमः ।
स्तवेनानेन सन्तुष्टो भव लोकेशभैरव ॥ 29 ॥

पश्य मां करुणाविष्ट शरणागतवत्सल ।
श्रीभैरव धनाध्यक्ष शरणं त्वां भजाम्यहम् ।
प्रसीद सकलान् कामान् प्रयच्छ मम सर्वदा ॥ 30 ॥

फलश्रुतिः
श्रीमहाभैरवस्येदं स्तोत्रसूक्तं सुदुर्लभम् ।
मन्त्रात्मकं महापुण्यं सर्वैश्वर्यप्रदायकम् ॥ 31 ॥

यः पठेन्नित्यमेकाग्रं पातकैः स विमुच्यते ।
लभते चामलालक्ष्मीमष्टैश्वर्यमवाप्नुयात् ॥ 32 ॥

चिन्तामणिमवाप्नोति धेनु कल्पतरुं धृवम् ।
स्वर्णराशिमवाप्नोति सिद्धिमेव स मानवः ॥ 33 ॥

सन्ध्यायां यः पठेत् स्तोत्रं दशावृत्या नरोत्तमैः ।
स्वप्ने श्रीभैरवस्तस्य साक्षाद्भूत्वा जगद्गुरुः ॥ 34 ॥

स्वर्णराशि ददात्येव तत्‍क्षणान्नास्ति संशयः ।
सर्वदा यः पठेत् स्तोत्रं भैरवस्य महात्मनः ॥ 35 ॥

लोकत्रयं वशीकुर्यादचलां श्रियमवाप्नुयात् ।
न भयं लभते क्वापि विघ्नभूतादिसम्भव ॥ 36 ॥

म्रियन्ते शत्रवोऽवश्यमलक्ष्मीनाशमाप्नुयात् ।
अक्षयं लभते सौख्यं सर्वदा मानवोत्तमः ॥ 37 ॥

अष्टपञ्चाशताणढ्यो मन्त्रराजः प्रकीर्तितः ।
दारिद्र्यदुःखशमनं स्वर्णाकर्षणकारकः ॥ 38 ॥

य येन सञ्जपेत् धीमान् स्तोत्रं वा प्रपठेत् सदा ।
महाभैरवसायुज्यं स्वान्तकाले भवेद्ध्रुवम् ॥ 39 ॥

इति रुद्रयामल तन्त्रे स्वर्णाकर्षण भैरव स्तोत्रम् ॥

sri swarna akarshana bhairava stotram in sanskrit

Copy
Give Feedback