Search Results

Search from 23,000+ Stotrams, Mantras & Spiritual Posts

श्री रङ्गनाथ अष्टोत्तर शत नामावलि

Sri Ranganatha Ashtottara Sata Namavali in sanskrit
with lyrics, PDF, meaning, devotional benefits,
chanting guide and complete spiritual content.

sri ranganatha ashtottara sata namavali in sanskrit

ॐ श्रीरङ्गशायिने नमः ।
ॐ श्रीकान्ताय नमः ।
ॐ श्रीप्रदाय नमः ।
ॐ श्रितवत्सलाय नमः ।
ॐ अनन्ताय नमः ।
ॐ माधवाय नमः ।
ॐ जेत्रे नमः ।
ॐ जगन्नाथाय नमः ।
ॐ जगद्गुरवे नमः ।
ॐ सुरवर्याय नमः । 10 ।

ॐ सुराराध्याय नमः ।
ॐ सुरराजानुजाय नमः ।
ॐ प्रभवे नमः ।
ॐ हरये नमः ।
ॐ हतारये नमः ।
ॐ विश्वेशाय नमः ।
ॐ शाश्वताय नमः ।
ॐ शम्भवे नमः ।
ॐ अव्ययाय नमः ।
ॐ भक्तार्तिभञ्जनाय नमः । 20 ।

ॐ वाग्मिने नमः ।
ॐ वीराय नमः ।
ॐ विख्यातकीर्तिमते नमः ।
ॐ भास्कराय नमः ।
ॐ शास्त्रतत्त्वज्ञाय नमः ।
ॐ दैत्यशास्त्रे नमः ।
ॐ अमरेश्वराय नमः ।
ॐ नारायणाय नमः ।
ॐ नरहरये नमः ।
ॐ नीरजाक्षाय नमः । 30 ।

ॐ नरप्रियाय नमः ।
ॐ ब्रह्मण्याय नमः ।
ॐ ब्रह्मकृते नमः ।
ॐ ब्रह्मणे नमः ।
ॐ ब्रह्माङ्गाय नमः ।
ॐ ब्रह्मपूजिताय नमः ।
ॐ कृष्णाय नमः ।
ॐ कृतज्ञाय नमः ।
ॐ गोविन्दाय नमः ।
ॐ हृषीकेशाय नमः । 40 ।

ॐ अघनाशनाय नमः ।
ॐ विष्णवे नमः ।
ॐ जिष्णवे नमः ।
ॐ जितारातये नमः ।
ॐ सज्जनप्रियाय नमः ।
ॐ ईश्वराय नमः ।
ॐ त्रिविक्रमाय नमः ।
ॐ त्रिलोकेशाय नमः ।
ॐ त्रय्यर्थाय नमः ।
ॐ त्रिगुणात्मकाय नमः । 50 ।

ॐ काकुत्स्थाय नमः ।
ॐ कमलाकान्ताय नमः ।
ॐ कालीयोरगमर्दनाय नमः ।
ॐ कालाम्बुदश्यामलाङ्गाय नमः ।
ॐ केशवाय नमः ।
ॐ क्लेशनाशनाय नमः ।
ॐ केशिप्रभञ्जनाय नमः ।
ॐ कान्ताय नमः ।
ॐ नन्दसूनवे नमः ।
ॐ अरिन्दमाय नमः । 60 ।

ॐ रुक्मिणीवल्लभाय नमः ।
ॐ शौरये नमः ।
ॐ बलभद्राय नमः ।
ॐ बलानुजाय नमः ।
ॐ दामोदराय नमः ।
ॐ हृषीकेशाय नमः ।
ॐ वामनाय नमः ।
ॐ मधुसूदनाय नमः ।
ॐ पूताय नमः ।
ॐ पुण्यजनध्वंसिने नमः । 70 ।

ॐ पुण्यश्लोकशिखामणये नमः ।
ॐ आदिमूर्तये नमः ।
ॐ दयामूर्तये नमः ।
ॐ शान्तमूर्तये नमः ।
ॐ अमूर्तिमते नमः ।
ॐ परस्मै ब्रह्मणे नमः ।
ॐ परस्मै धाम्ने नमः ।
ॐ पावनाय नमः ।
ॐ पवनाय नमः ।
ॐ विभवे नमः । 80 ।

ॐ चन्द्राय नमः ।
ॐ छन्दोमयाय नमः ।
ॐ रामाय नमः ।
ॐ संसाराम्बुधितारकाय नमः ।
ॐ आदितेयाय नमः ।
ॐ अच्युताय नमः ।
ॐ भानवे नमः ।
ॐ शङ्कराय नमः ।
ॐ शिवाय नमः ।
ॐ ऊर्जिताय नमः । 90 ।

ॐ महेश्वराय नमः ।
ॐ महायोगिने नमः ।
ॐ महाशक्तये नमः ।
ॐ महत्प्रियाय नमः ।
ॐ दुर्जनध्वंसकाय नमः ।
ॐ अशेषसज्जनोपास्तसत्फलाय नमः ।
ॐ पक्षीन्द्रवाहनाय नमः ।
ॐ अक्षोभ्याय नमः ।
ॐ क्षीराब्धिशयनाय नमः ।
ॐ विधवे नमः । 100 ।

ॐ जनार्दनाय नमः ।
ॐ जगद्धेतवे नमः ।
ॐ जितमन्मथविग्रहाय नमः ।
ॐ चक्रपाणये नमः ।
ॐ शङ्खधारिणे नमः ।
ॐ शार्ङ्गिणे नमः ।
ॐ खड्गिने नमः ।
ॐ गदाधराय नमः । 108 ।

sri ranganatha ashtottara sata namavali in sanskrit

Copy
Give Feedback