Sri Dattatreya Dwadasha Nama Stotram in sanskrit
with lyrics, PDF, meaning, devotional benefits,
chanting guide and complete spiritual content.
sri dattatreya dwadasha nama stotram in sanskrit
अस्य श्रीदत्तात्रेय द्वादशनाम स्तोत्रमन्त्रस्य परमहंस ऋषिः श्रीदत्तात्रेय परमात्मा देवता अनुष्टुप्छन्दः सकलकामनासिद्ध्यर्थे जपे विनियोगः ।
प्रथमस्तु महायोगी द्वितीयः प्रभुरीश्वरः ।
तृतीयश्च त्रिमूर्तिश्च चतुर्थो ज्ञानसागरः ॥ 1 ॥
पञ्चमो ज्ञानविज्ञानं षष्ठस्यात् सर्वमङ्गलम् ।
सप्तमो पुण्डरीकाक्षो अष्टमो देववल्लभः ॥ 2 ॥
नवमो नन्ददेवेशो दशमो नन्ददायकः ।
एकादशो महारुद्रो द्वादशो करुणाकरः ॥ 3 ॥
एतानि द्वादशनामानि दत्तात्रेय महात्मनः ।
मन्त्रराजेति विख्यातं दत्तात्रेय हरः परः ॥ 4 ॥
क्षयोपस्मार कुष्ठादि तापज्वरनिवारणम् ।
राजद्वारे पदे घोरे सङ्ग्रामेषु जलान्तरे ॥ 5 ॥
गिरे गुहान्तरेऽरण्ये व्याघ्रचोरभयादिषु ।
आवर्तने सहस्रेषु लभते वाञ्छितं फलम् ॥ 6 ॥
त्रिकाले यः पठेन्नित्यं मोक्षसिद्धिमवाप्नुयात् ।
दत्तात्रेय सदा रक्षेत् यदा सत्यं न संशयः ॥ 7 ॥
विद्यार्थी लभते विद्यां रोगी रोगात् प्रमुच्यते ।
अपुत्रो लभते पुत्रं दरिद्रो लभते धनम् ॥ 8 ॥
अभार्यो लभते भार्यां सुखार्थी लभते सुखम् ।
मुच्यते सर्वपापेभ्यो सर्वत्र विजयी भवेत् ॥ 9 ॥
इति श्री दत्तात्रेय द्वादशनाम स्तोत्रम् ।
sri dattatreya dwadasha nama stotram in sanskrit
Leave a Comment