Search Results

Search from 23,000+ Stotrams, Mantras & Spiritual Posts

शिव षडक्षरी स्तोत्रम्

Shiva Shadakshari Stotram in sanskrit
with lyrics, PDF, meaning, devotional benefits,
chanting guide and complete spiritual content.

shiva shadakshari stotram in sanskrit

॥ॐ ॐ॥
ओङ्कारबिन्दु संयुक्तं नित्यं ध्यायन्ति योगिनः ।
कामदं मोक्षदं तस्मादोङ्काराय नमोनमः ॥ 1 ॥

॥ॐ नं॥
नमन्ति मुनयः सर्वे नमन्त्यप्सरसां गणाः ।
नराणामादिदेवाय नकाराय नमोनमः ॥ 2 ॥

॥ॐ मं॥
महातत्वं महादेव प्रियं ज्ञानप्रदं परम् ।
महापापहरं तस्मान्मकाराय नमोनमः ॥ 3 ॥

॥ॐ शिं॥
शिवं शान्तं शिवाकारं शिवानुग्रहकारणम् ।
महापापहरं तस्माच्छिकाराय नमोनमः ॥ 4 ॥

॥ॐ वां॥
वाहनं वृषभोयस्य वासुकिः कण्ठभूषणम् ।
वामे शक्तिधरं देवं वकाराय नमोनमः ॥ 5 ॥

॥ॐ यं॥
यकारे संस्थितो देवो यकारं परमं शुभम् ।
यं नित्यं परमानन्दं यकाराय नमोनमः ॥ 6 ॥

षडक्षरमिदं स्तोत्रं यः पठेच्छिव सन्निधौ ।
तस्य मृत्युभयं नास्ति ह्यपमृत्युभयं कुतः ॥

शिवशिवेति शिवेति शिवेति वा
भवभवेति भवेति भवेति वा ।
हरहरेति हरेति हरेति वा
भुजमनश्शिवमेव निरन्तरम् ॥

इति श्रीमत्परमहंस परिव्राजकाचार्य
श्रीमच्छङ्करभगवत्पादपूज्यकृत शिवषडक्षरीस्तोत्रं सम्पूर्णम् ।

shiva shadakshari stotram in sanskrit

Copy
Give Feedback