Search Results

Search from 23,000+ Stotrams, Mantras & Spiritual Posts

शान्ति मन्त्रम् (दश शान्तयः)

Shanti Mantram Dasha Shanti Mantram in sanskrit
with lyrics, PDF, meaning, devotional benefits,
chanting guide and complete spiritual content.

shanti mantram dasha shanti mantram in sanskrit

आपो॒ हिष्ठा म॑यो॒भुवः॒ । ता न॑ ऊ॒र्जे द॑धातन । म॒हेरणा॑य॒ चक्ष॑से । यो वः॑ शि॒वत॑मो॒ रस॒स्तस्य॑ भाजयते॒ ह नः॒ । उ॒ष॒तीरि॑व मा॒तरः॑ । तस्मा॒ अर॑ङ्गमामवो॒ यस्य॒ क्षया॑य॒ जि॑न्वथ । आपो॑ ज॒नय॑था च नः ।

पृ॒थि॒वी शा॒न्ता साग्निना॑ शा॒न्ता सामे॑ शा॒न्ता शुचग्ं॑ शमयतु ।
अ॒न्तरि॑क्षग्ं शा॒न्त-न्तद्वा॒युना॑ शा॒न्त-न्तन्मे॑ शा॒न्तग्ं शुचग्ं॑ शमयतु ।
द्यौश्शा॒न्ता॒ सादि॒त्येन॑ शा॒न्ता सा मे॑ शा॒न्ता शुचग्ं॑ शमयतु ।

पृ॒थि॒वी शान्ति॑र॒न्तरि॑क्ष॒ग्ं॒ शान्ति॒-
र्द्यौ-श्शान्ति॒र्-दिश॒-श्शान्ति॑-रवान्तरदि॒शा-श्शान्ति॑-
र॒ग्नि-श्शान्ति॑र्-वा॒यु-श्शान्ति॑-रादि॒त्य-
श्शान्ति॑-श्चन्द्र॒मा॒-श्शान्ति॒र्-नक्ष॑त्राणि॒-
श्शान्ति राप॒श्शान्ति॒-रोष॑धय॒-
श्शान्ति॒र्-वन॒स्पत॑य॒-श्शान्ति॒र्-गौ॑-
श्शान्ति॑-र॒जा-शान्ति-रश्व॒-श्शान्तिः॒ पुरु॑ष॒-
श्शान्ति॒-ब्रह्म॒-शान्ति॑र्-ब्राह्म॒ण-
श्शान्ति-शान्ति॑-रेव शान्ति-शान्ति॑-र्मे अस्तु॒ शान्तिः॑ ।

तया॒हग्ं शान्॒त्या॒ स॑र्वशा॒न्त्या॒
मह्य॑-न्द्वि॒पदे॒ चतु॑ष्पदे च॒
शान्ति॑-ङ्करोमि शान्ति॑र्मे अस्तु॒ शान्तिः॑ ॥

एह॒ श्रीश्च॒ ह्रीश्च॒ धृति॑श्च॒
तपो॑ मे॒धा प्र॑ति॒ष्ठा श्र॒द्धा स॒त्यं
धर्म॑श्चै॒तानि॒ मोत्ति॑ष्ठन्त॒-मनूत्ति॑ष्ठन्तु॒
मा मा॒ग्॒ श्रीश्च॒ ह्रीश्च॒ धृति॑श्च॒
तपो॑ मे॒धा प्र॑ति॒ष्ठा श्र॒द्धा स॒त्यं
धर्म॑श्चै॒तानि॑ मा॒ मा हा॑सिषुः ।

उदायु॑षा स्वा॒युषोदो॑षदीना॒ग्ं॒
रसे॒नोत्प॒र्जन्य॑स्य॒ शुष्मे॒णोदस्थाम॒मृता॒ग्ं॒ अनु॑ ।
तच्चक्षु॑र्-दे॒वहि॑त-म्पु॒रस्ता᳚च्चु॒क्रमु॒च्चर॑त् ।

पश्ये॑म श॒रद॑श्श॒त-ञ्जीवे॑म श॒रद॑श्श॒तं
नन्दा॑म श॒रद॑श्श॒त-म्मोदा॑म श॒रद॑श्श॒तं
भवा॑म श॒रद॑श्श॒तग्ं शृ॒णवा॑म श॒रद॑श्श॒तं
पब्र॑वाम श॒रद॑श्श॒तमजी॑तास्याम श॒रद॑श्श॒तं
जोक्च॒ सूर्य॑-न्दृ॒शे ।

य उद॑गान्मह॒तो-ऽर्णवा᳚-द्वि॒भ्राज॑मानस्सरि॒रस्य॒ मध्या॒थ्समा॑ वृष॒भो लो॑हिता॒क्षसूर्यो॑ विप॒श्चिन्मन॑सा पुनातु ॥

ब्रह्म॑ण॒श्चोत॒न्यसि॒ ब्रह्म॑ण आ॒णीस्थो॒ ब्राह्म॑ण आ॒वप॑नमसि धारि॒तेय-म्पृ॑थि॒वी ब्रह्म॑णा म॒ही दा॑रि॒तमे॑नेन म॒हदन्॒तरि॑क्ष॒-न्दिव॑-न्दाधार पृथि॒वीग्ं सदेवां॒-यँद॒हं-वेँद॒ तद॒ह-न्धा॑रयाणि॒ मामद्वेदो-ऽथि॒ विस्र॑सत् ।

मे॒धा॒म॒नी॒षे मावि॒शताग्ं स॒मीची॑ भू॒तस्य॒ भव्य॒स्याव॑रुध्यै॒ सर्व॒मायु॑रयाणि॒ सर्व॒मायु॑रयाणि ।

आ॒भिर्गी॒र्भि-र्यदतो॑न ऊ॒नमाप्या॑यय हरिवो॒ वर्ध॑मानः ।
य॒दा स्तो॒तृभ्यो॒ महि॑ गो॒त्रा रु॒जासि॑ भूयिष्ठ॒भाजो॒ अध॑ ते स्याम ।
ब्रह्म॒ प्रावा॑दिष्म॒ तन्नो॒ मा हा॑सीत् ॥
ॐ शान्ति॒-श्शान्ति॒-श्शान्तिः॑ ॥

ॐ स-न्त्वा॑ सिञ्चामि॒ यजु॑षा प्र॒जामायु॒र्धन॑-ञ्च ॥
ॐ शान्ति॒-श्शान्ति॒-श्शान्तिः॑ ॥

ॐ श-न्नो॑ मि॒त्र-श्शं-वँरु॑णः ।
श-न्नो॑ भवत्वर्य॒मा ।
श-न्न॒ इन्द्रो॒ बृह॒स्पतिः॑ ।
श-न्नो॒ विष्णु॑रुरुक्र॒मः ।
नमो॒ ब्रह्म॑णे । नम॑स्ते वायो ।
त्वमे॒व प्र॒त्यक्ष॒-म्ब्रह्मा॑सि ।
त्वामे॒व प्र॒त्यक्ष॒-म्ब्रह्म॑ वदिष्यामि ।
ऋ॒तं-वँ॑दिष्यामि । स॒त्यं-वँ॑दिष्यामि ।
तन्माम॑वतु । तद्व॒क्तार॑मवतु ।
अव॑तु॒ माम् । अव॑तु व॒क्तारम्᳚ ॥

ॐ शान्ति॒-श्शान्ति॒-श्शान्तिः॑ ॥

ओ-न्तच्छं॒-योँरावृ॑णीमहे ।
गा॒तुं-यँ॒ज्ञाय॑ । गा॒तुं-यँ॒ज्ञप॑तये ।
दैवी᳚ स्व॒स्तिर॑स्तु नः । स्व॒स्तिर्-मानु॑षेभ्यः ।
ऊ॒र्ध्व-ञ्जि॑गातु भेष॒जम् ।
श-न्नो॑ अस्तु द्वि॒पदे᳚ । श-ञ्चतु॒ष्पदे ।
ॐ शान्ति॒-श्शान्ति॒-श्शान्तिः॑ ॥

ॐ स॒ह ना॑ ववतु । स॒ह नौ॑ भुनक्तु ।
स॒ह वी॒र्य॑-ङ्करवावहै ।
ते॒ज॒स्विना॒वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै᳚ ॥ (3)
ॐ शान्ति॒-श्शान्ति॒-श्शान्तिः॑ ॥ (3)

shanti mantram dasha shanti mantram in sanskrit

Copy
Give Feedback