Search Results

Search from 23,000+ Stotrams, Mantras & Spiritual Posts

ऋण विमोचन अङ्गारक (मङ्गल) स्तोत्रम्

Runa Vimochana Angaraka Mangala Stotram in sanskrit
with lyrics, PDF, meaning, devotional benefits,
chanting guide and complete spiritual content.

runa vimochana angaraka mangala stotram in sanskrit

स्कन्द उवाच ।
ऋणग्रस्तनराणां तु ऋणमुक्तिः कथं भवेत् ।

ब्रह्मोवाच ।
वक्ष्येऽहं सर्वलोकानां हितार्थं हितकामदम् ॥

अस्य श्री अङ्गारक स्तोत्र महामन्त्रस्य गौतम ऋषिः, अनुष्टुप् छन्दः, अङ्गारको देवता मम ऋण विमोचनार्थे जपे विनियोगः ।

ध्यानम् –
धरणी गर्भ सम्भूतं विद्युत्कान्ति समप्रभम् ।
कुमारं शक्तिहस्तं तं कुजं प्रणमाम्यहम् ॥ 1 ॥

रक्तमाल्याम्बरधरः शूलशक्तिगदाधरः ।
चतुर्भुजो मेषगतो वरदश्च धरासुतः ॥ 2 ॥

अथ स्तोत्रम् –
मङ्गलो भूमिपुत्रश्च ऋणहर्ता धनप्रदः ।
स्थिरासनो महाकायः सर्वकर्मावबोधकः ॥ 3 ॥

लोहितो लोहिताङ्गश्च सामगायी कृपाकरः ।
धर्मराजः कुजो भौमो भूमिजो भूमिनन्दनः ॥ 4 ॥

अङ्गारको यमश्चैव सर्वरोगापहारकः ।
सृष्टिकर्ताऽपहर्ता च सर्वकामफलप्रदः ॥ 5 ॥

भूतिदो ग्रहपूज्यश्च वक्त्रो रक्तवपुः प्रभुः ।
एतानि कुजनामानि यो नित्यं प्रयतः पठेत् ।
ऋणं न जायते तस्य धनं प्राप्नोत्यसंशयम् ॥ 6 ॥

रक्तपुष्पैश्च गन्धैश्च दीपधूपादिभिस्तथा ।
मङ्गलं पूजयित्वा तु मङ्गलेऽहनि सर्वदा ॥ 7 ॥

ऋणरेखाः प्रकर्तव्याः दग्धाङ्गारैस्तदग्रतः ।
सप्तविंशतिनामानि पठित्वा तु तदन्तिके ॥ 8 ॥

ताश्च प्रमार्जयेत्पश्चाद्वामपादेन संस्पृशन् ।
एवं कृत्वा न सन्देहो ऋणहीनो धनी भवेत् ॥ 9 ॥

भूमिजस्य प्रसादेन ग्रहपीडा विनश्यति ।
येनार्जिता जगत्कीर्तिर्भूमिपुत्रेण शाश्वती ॥ 10 ॥

शत्रवश्च हता येन भौमेन महितात्मना ।
स प्रीयतां तु भौमोऽद्य तुष्टो भूयात् सदा मम ॥ 11 ॥

मूलमन्त्रः –
अङ्गारक महीपुत्र भगवन् भक्तवत्सल ।
नमोऽस्तु ते ममाशेष ऋणमाशु विमोचय ॥ 12 ॥

अर्घ्यम् –
भूमिपुत्र महातेजः स्वेदोद्भव पिनाकिनः ।
ऋणार्तस्त्वां प्रपन्नोऽस्मि गृहाणार्घ्यं नमोऽस्तु ते ॥ 13 ॥

इति ऋण विमोचन अङ्गारक स्तोत्रम् ॥

runa vimochana angaraka mangala stotram in sanskrit

Copy
Give Feedback