Search Results

Search from 23,000+ Stotrams, Mantras & Spiritual Posts

हरिवरासनम् (हरिहरात्मज अष्टकम्)

Harivarasanam Hariharatmaja Ashtakam in sanskrit
with lyrics, PDF, meaning, devotional benefits,
chanting guide and complete spiritual content.

harivarasanam hariharatmaja ashtakam in sanskrit

हरिवरासनं विश्वमोहनम्
हरिदधीश्वरं आराध्यपादुकम् ।
अरिविमर्दनं नित्यनर्तनम्
हरिहरात्मजं देवमाश्रये ॥ 1 ॥

शरणकीर्तनं भक्तमानसम्
भरणलोलुपं नर्तनालसम् ।
अरुणभासुरं भूतनायकम्
हरिहरात्मजं देवमाश्रये ॥ 2 ॥

प्रणयसत्यकं प्राणनायकम्
प्रणतकल्पकं सुप्रभाञ्चितम् ।
प्रणवमन्दिरं कीर्तनप्रियम्
हरिहरात्मजं देवमाश्रये ॥ 3 ॥

तुरगवाहनं सुन्दराननम्
वरगदायुधं वेदवर्णितम् ।
गुरुकृपाकरं कीर्तनप्रियम्
हरिहरात्मजं देवमाश्रये ॥ 4 ॥

त्रिभुवनार्चितं देवतात्मकम्
त्रिनयनप्रभुं दिव्यदेशिकम् ।
त्रिदशपूजितं चिन्तितप्रदम्
हरिहरात्मजं देवमाश्रये ॥ 5 ॥

भवभयापहं भावुकावकम्
भुवनमोहनं भूतिभूषणम् ।
धवलवाहनं दिव्यवारणम्
हरिहरात्मजं देवमाश्रये ॥ 6 ॥

कलमृदुस्मितं सुन्दराननम्
कलभकोमलं गात्रमोहनम् ।
कलभकेसरीवाजिवाहनम्
हरिहरात्मजं देवमाश्रये ॥ 7 ॥

श्रितजनप्रियं चिन्तितप्रदम्
श्रुतिविभूषणं साधुजीवनम् ।
श्रुतिमनोहरं गीतलालसम्
हरिहरात्मजं देवमाश्रये ॥ 8 ॥

शरणं अय्यप्पा स्वामि शरणं अय्यप्पा ।
शरणं अय्यप्पा स्वामि शरणं अय्यप्पा ॥

harivarasanam hariharatmaja ashtakam in sanskrit

Copy
Give Feedback