Search Results

Search from 23,000+ Stotrams, Mantras & Spiritual Posts

दुर्गा पञ्च रत्नम्

Durga Pancha Ratnam in sanskrit
with lyrics, PDF, meaning, devotional benefits,
chanting guide and complete spiritual content.

durga pancha ratnam in sanskrit

ते ध्यानयोगानुगता अपश्यन्
त्वामेव देवीं स्वगुणैर्निगूढाम् ।
त्वमेव शक्तिः परमेश्वरस्य
मां पाहि सर्वेश्वरि मोक्षदात्रि ॥ 1 ॥

देवात्मशक्तिः श्रुतिवाक्यगीता
महर्षिलोकस्य पुरः प्रसन्ना ।
गुहा परं व्योम सतः प्रतिष्ठा
मां पाहि सर्वेश्वरि मोक्षदात्रि ॥ 2 ॥

परास्य शक्तिः विविधैव श्रूयसे
श्वेताश्ववाक्योदितदेवि दुर्गे ।
स्वाभाविकी ज्ञानबलक्रिया ते
मां पाहि सर्वेश्वरि मोक्षदात्रि ॥ 3 ॥

देवात्मशब्देन शिवात्मभूता
यत्कूर्मवायव्यवचोविवृत्या
त्वं पाशविच्छेदकरी प्रसिद्धा
मां पाहि सर्वेश्वरि मोक्षदात्रि ॥ 4 ॥

त्वं ब्रह्मपुच्छा विविधा मयूरी
ब्रह्मप्रतिष्ठास्युपदिष्टगीता ।
ज्ञानस्वरूपात्मतयाखिलानां
मां पाहि सर्वेश्वरि मोक्षदात्रि ॥ 5 ॥

इति परमपूज्य श्री चन्द्रशेखरेन्द्र सरस्वती स्वामि कृतं दुर्गा पञ्चरत्नं सम्पूर्णम् ।

durga pancha ratnam in sanskrit

Copy
Give Feedback