Search Results

Search from 23,000+ Stotrams, Mantras & Spiritual Posts

दत्तात्रेय अष्टोत्तरशतनाम स्तोत्रम्

Dattatreya Ashtottara Satanama Stotram in sanskrit
with lyrics, PDF, meaning, devotional benefits,
chanting guide and complete spiritual content.

dattatreya ashtottara satanama stotram in sanskrit

ओङ्कारतत्त्वरूपाय दिव्यज्ञानात्मने नमः ।
नभोतीतमहाधाम्न ऐन्द्र्यृध्या ओजसे नमः ॥ 1॥

नष्टमत्सरगम्यायागम्याचारात्मवर्त्मने ।
मोचितामेध्यकृतये ऱ्हीम्बीजश्राणितश्रिये ॥ 2॥

मोहादिविभ्रमान्ताय बहुकायधराय च ।
भत्तदुर्वैभवछेत्रे क्लीम्बीजवरजापिने ॥ 3॥

भवहे-तुविनाशाय राजच्छोणाधराय च ।
गतिप्रकम्पिताण्डाय चारुव्यहतबाहवे ॥ 4॥

गतग-र्वप्रियायास्तु यमादियतचेतसे ।
वशिताजातवश्याय मुण्डिने अनसूयवे ॥ 5॥

वदद्व-रेण्यवाग्जाला-विस्पृष्टविविधात्मने ।
तपोधनप्रसन्नाये-डापतिस्तुतकीर्तये ॥ 6॥

तेजोमण्यन्तरङ्गाया-द्मरसद्मविहापने ।
आन्तरस्थानसंस्थायायैश्वर्यश्रौतगीतये ॥ 7॥

वातादिभययुग्भाव-हेतवे हेतुबेतवे ।
जगदात्मात्मभूताय विद्विषत्षट्कघातिने ॥ 8॥

सुरव-र्गोद्धृते भृत्या असुरावासभेदिने ।
नेत्रे च नयनाक्ष्णे चिच्चेतनाय महात्मने ॥ 9॥

देवाधिदेवदेवाय वसुधासुरपालिने ।
याजिनामग्रगण्याय द्राम्बीजजपतुष्टये ॥ 10॥

वासनावनदावाय धूलियुग्देहमालिने ।
यतिसन्न्यासिगतये दत्तात्रेयेति संविदे ॥ 11॥

यजनास्यभुजेजाय तारकावासगामिने ।
महाजवास्पृग्रूपाया-त्ताकाराय विरूपिणे ॥ 12॥

नराय धीप्रदीपाय यशस्वियशसे नमः ।
हारिणे चोज्वलाङ्गायात्रेस्तनूजाय सम्भवे ॥ 13॥

मोचितामरसङ्घाय धीमतां धीरकाय च ।
बलिष्ठविप्रलभ्याय यागहोमप्रियाय च ॥ 14॥

भजन्महिमविख़यात्रेऽमरारिमहिमच्छिदे ।
लाभाय मुण्डिपूज्याय यमिने हेममालिने ॥ 15॥

गतोपाधिव्याधये च हिरण्याहितकान्तये ।
यतीन्द्रचर्यां दधते नरभावौषधाय च ॥ 16॥

वरिष्ठयोगिपूज्याय तन्तुसन्तन्वते नमः ।
स्वात्मगाथासुतीर्थाय मःश्रिये षट्कराय च ॥ 17॥

तेजोमयोत्तमाङ्गाय नोदनानोद्यकर्मणे ।
हान्याप्तिमृतिविज्ञात्र ओङ्कारितसुभक्तये ॥ 18॥

रुक्षुङ्मनःखेदहृते दर्शनाविषयात्मने ।
राङ्कवाततवस्त्राय नरतत्त्वप्रकाशिने ॥ 19॥

द्रावितप्रणताघाया-त्तःस्वजिष्णुःस्वराशये ।
राजन्त्र्यास्यैकरूपाय मःस्थायमसुबम्धवे ॥ 20॥

यतये चोदनातीत- प्रचारप्रभवे नमः ।
मानरोषविहीनाय शिष्यसंसिद्धिकारिणे ॥ 21॥

गङ्गे पादविहीनाय चोदनाचोदितात्मने ।
यवीयसेऽलर्कदुःख-वारिणेऽखण्डितात्मने ॥ 22॥

ह्रीम्बीजायार्जुनज्येष्ठाय दर्शनादर्शितात्मने ।
नतिसन्तुष्टचित्ताय यतिने ब्रह्मचारिणे ॥ 23॥

इत्येष सत्स्तवो वृत्तोयात् कं देयात्प्रजापिने ।
मस्करीशो मनुस्यूतः परब्रह्मपदप्रदः ॥ 24॥

॥ इति श्री. प. प. श्रीवासुदेवानन्द सरस्वती विरचितं
मन्त्रगर्भ श्री दत्तात्रेयाष्टोत्तरशतनाम स्तोत्रं सम्पूर्णम्॥

dattatreya ashtottara satanama stotram in sanskrit

Copy
Give Feedback