Search Results

Search from 23,000+ Stotrams, Mantras & Spiritual Posts

अय्यप्प अष्टोत्तर शत नाम स्तोत्रम्

Ayyappa Ashtottara Sata Nama Stotram in sanskrit
with lyrics, PDF, meaning, devotional benefits,
chanting guide and complete spiritual content.

ayyappa ashtottara sata nama stotram in sanskrit

महाशास्ता महादेवो महादेवसुतोऽव्ययः ।
लोककर्ता लोकभर्ता लोकहर्ता परात्परः ॥ 1 ॥

त्रिलोकरक्षको धन्वी तपस्वी भूतसैनिकः ।
मन्त्रवेदी महावेदी मारुतो जगदीश्वरः ॥ 2 ॥

लोकाध्यक्षोऽग्रणीः श्रीमानप्रमेयपराक्रमः ।
सिंहारूढो गजारूढो हयारूढो महेश्वरः ॥ 3 ॥

नानाशस्त्रधरोऽनर्घो नानाविद्याविशारदः ।
नानारूपधरो वीरो नानाप्राणिनिषेवितः ॥ 4 ॥

भूतेशो भूतितो भृत्यो भुजङ्गाभरणोज्वलः ।
इक्षुधन्वी पुष्पबाणो महारूपो महाप्रभुः ॥ 5 ॥

मायादेवीसुतो मान्यो महनीयो महागुणः ।
महाशैवो महारुद्रो वैष्णवो विष्णुपूजकः ॥ 6 ॥

विघ्नेशो वीरभद्रेशो भैरवो षण्मुखप्रियः ।
मेरुशृङ्गसमासीनो मुनिसङ्घनिषेवितः ॥ 7 ॥

देवो भद्रो जगन्नाथो गणनाथो गणेश्वरः ।
महायोगी महामायी महाज्ञानी महास्थिरः ॥ 8 ॥

देवशास्ता भूतशास्ता भीमहासपराक्रमः ।
नागहारो नागकेशो व्योमकेशः सनातनः ॥ 9 ॥

सगुणो निर्गुणो नित्यो नित्यतृप्तो निराश्रयः ।
लोकाश्रयो गणाधीशश्चतुष्षष्टिकलामयः ॥ 10 ॥

ऋग्यजुःसामथर्वात्मा मल्लकासुरभञ्जनः ।
त्रिमूर्ति दैत्यमथनः प्रकृतिः पुरुषोत्तमः ॥ 11 ॥

कालज्ञानी महाज्ञानी कामदः कमलेक्षणः ।
कल्पवृक्षो महावृक्षो विद्यावृक्षो विभूतिदः ॥ 12 ॥

संसारतापविच्छेत्ता पशुलोकभयङ्करः ।
रोगहन्ता प्राणदाता परगर्वविभञ्जनः ॥ 13 ॥

सर्वशास्त्रार्थतत्वज्ञो नीतिमान् पापभञ्जनः ।
पुष्कलापूर्णासंयुक्तः परमात्मा सताङ्गतिः ॥ 14 ॥

अनन्तादित्यसङ्काशः सुब्रह्मण्यानुजो बली ।
भक्तानुकम्पी देवेशो भगवान् भक्तवत्सलः ॥ 15 ॥

ayyappa ashtottara sata nama stotram in sanskrit

Copy
Give Feedback