Sri Radha Krishna Ashtakam in nepali
with lyrics, PDF, meaning, devotional benefits,
chanting guide and complete spiritual content.
sri radha krishna ashtakam in nepali
यः श्रीगोवर्धनाद्रिं सकलसुरपतींस्तत्रगोगोपबृंदं
स्वीयं संरक्षितुं चेत्यमरसुखकरं मोहयन् संदधार ।
तन्मानं खंडयित्वा विजितरिपुकुलो नीलधाराधराभः
कृष्णो राधासमेतो विलसतु हृदये सोऽस्मदीये सदैव ॥ 1 ॥
यं दृष्ट्वा कंसभूपः स्वकृतकृतिमहो संस्मरन्मंत्रिवर्यान्
किं वा पूर्वं मयेदं कृतमिति वचनं दुःखितः प्रत्युवाच ।
आज्ञप्तो नारदेन स्मितयुतवदनः पूरयन्सर्वकामान्
कृष्णो राधासमेतो विलसतु हृदये सोऽस्मदीये सदैव ॥ 2 ॥
येन प्रोद्यत्प्रतापा नृपतिकुलभवाः पांडवाः कौरवाब्धिं
तीर्त्वा पारं तदीयं जगदखिलनृणां दुस्तरंचेति जग्मुः ।
तत्पत्नीचीरवृद्धिप्रविदितमहिमा भूतले भूपतीशः
कृष्णो राधासमेतो विलसतु हृदये सोऽस्मदीये सदैव ॥ 3 ॥
यस्मै चोद्धृत्य पात्राद्दधियुतनवनीतं करैर्गोपिकाभि-
र्दत्तं तद्भावपूर्तौ विनिहितहृदयस्सत्यमेवं तिरोधात् ।
मुक्तागुंजावलीभिः प्रचुरतमरुचिः कुंडलाक्रांतगंडः
कृष्णो राधासमेतो विलसतु हृदये सोऽस्मदीये सदैव ॥ 4 ॥
यस्माद्विश्वाभिरामादिह जननविधौ सर्वनंदादिगोपाः
संसारार्तेर्विमुक्ताः सकलसुखकराः संपदः प्रापुरेव ।
इत्थं पूर्णेंदुवक्त्रः कलकमलदृशः स्वीयजन्म स्तुवंतः
कृष्णो राधासमेतो विलसतु हृदये सोऽस्मदीये सदैव ॥ 5 ॥
यस्य श्रीनंदसूनोः व्रजयुवतिजनाश्चागता भर्तृपुत्रां-
स्त्यक्त्वा श्रुत्वा समीपे विचकितनयनाः सप्रमोदाः स्वगेहे ।
रंतुं रासादिलीला मनसिजदलिता वेणुनादं च रम्यं
कृष्णो राधासमेतो विलसतु हृदये सोऽस्मदीये सदैव ॥ 6 ॥
यस्मिन् दृष्टे समस्ते जगति युवतयः प्राणनाथव्रताया-
स्ता अप्येवं हि नूनं किमपि च हृदये कामभावं दधत्यः ।
तत्स्नेहाब्धिं वपुश्चेदविदितधरणौ सूर्यबिंबस्वरूपाः
कृष्णो राधासमेतो विलसतु हृदये सोऽस्मदीये सदैव ॥ 7 ॥
यः स्वीये गोकुलेऽस्मिन्विदितनिजकुलोद्भूतबालैः समेतो
मातर्येवं चकार प्रसृततमगुणान्बाललीलाविलासान् ।
हत्वा वत्सप्रलंबद्विविदबकखरान्गोपबृंदं जुगोप
कृष्णो राधासमेतो विलसतु हृदये सोऽस्मदीये सदैव ॥ 8 ॥
कृष्णाराधाष्टकं प्रातरुत्थाय प्रपठेन्नरः ।
य एवं सर्वदा नूनं स प्राप्नोति परां गतिम् ॥ 9 ॥
इति श्रीरघुनाथचार्य विरचितं श्रीराधाकृष्णाष्टकम् ।
sri radha krishna ashtakam in nepali
Leave a Comment