Search Results

Search from 23,000+ Stotrams, Mantras & Spiritual Posts

श्री गोविंदाष्टकं

Sri Govindashtakam Govinda Ashtakam in nepali
with lyrics, PDF, meaning, devotional benefits,
chanting guide and complete spiritual content.

sri govindashtakam govinda ashtakam in nepali

सत्यं ज्ञानमनंतं नित्यमनाकाशं परमाकाशं
गोष्ठप्रांगणरिंखणलोलमनायासं परमायासम् ।
मायाकल्पितनानाकारमनाकारं भुवनाकारं
क्ष्मामानाथमनाथं प्रणमत गोविंदं परमानंदम् ॥ 1 ॥

मृत्स्नामत्सीहेति यशोदाताडनशैशवसंत्रासं
व्यादितवक्त्रालोकितलोकालोकचतुर्दशलोकालिम् ।
लोकत्रयपुरमूलस्तंभं लोकालोकमनालोकं
लोकेशं परमेशं प्रणमत गोविंदं परमानंदम् ॥ 2 ॥

त्रैविष्टपरिपुवीरघ्नं क्षितिभारघ्नं भवरोगघ्नं
कैवल्यं नवनीताहारमनाहारं भुवनाहारम् ।
वैमल्यस्फुटचेतोवृत्तिविशेषाभासमनाभासं
शैवं केवलशांतं प्रणमत गोविंदं परमानंदम् ॥ 3 ॥

गोपालं प्रभुलीलाविग्रहगोपालं कुलगोपालं
गोपीखेलनगोवर्धनधृतिलीलालालितगोपालम् ।
गोभिर्निगदितगोविंदस्फुटनामानं बहुनामानं
गोधीगोचरदूरं प्रणमत गोविंदं परमानंदम् ॥ 4 ॥

गोपीमंडलगोष्ठीभेदं भेदावस्थमभेदाभं
शश्वद्गोखुरनिर्धूतोद्गतधूलीधूसरसौभाग्यम् ।
श्रद्धाभक्तिगृहीतानंदमचिंत्यं चिंतितसद्भावं
चिंतामणिमहिमानं प्रणमत गोविंदं परमानंदम् ॥ 5 ॥

स्नानव्याकुलयोषिद्वस्त्रमुपादायागमुपारूढं
व्यादित्संतीरथ दिग्वस्त्रा दातुमुपाकर्षंतं ताः ।
निर्धूतद्वयशोकविमोहं बुद्धं बुद्धेरंतःस्थं
सत्तामात्रशरीरं प्रणमत गोविंदं परमानंदम् ॥ 6 ॥

कांतं कारणकारणमादिमनादिं कालघनाभासं
कालिंदीगतकालियशिरसि सुनृत्यंतं मुहुरत्यंतम् ।
कालं कालकलातीतं कलिताशेषं कलिदोषघ्नं
कालत्रयगतिहेतुं प्रणमत गोविंदं परमानंदम् ॥ 7 ॥

बृंदावनभुवि बृंदारकगणबृंदाराधितवंद्यायां
कुंदाभामलमंदस्मेरसुधानंदं सुमहानंदम् ।
वंद्याशेषमहामुनिमानसवंद्यानंदपदद्वंद्वं
नंद्याशेषगुणाब्धिं प्रणमत गोविंदं परमानंदम् ॥ 8 ॥

गोविंदाष्टकमेतदधीते गोविंदार्पितचेता यो
गोविंदाच्युत माधव विष्णो गोकुलनायक कृष्णेति ।
गोविंदांघ्रिसरोजध्यानसुधाजलधौतसमस्ताघो
गोविंदं परमानंदामृतमंतःस्थं स तमभ्येति ॥ 9 ॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविंदभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ श्री गोविंदाष्टकम् ।

sri govindashtakam govinda ashtakam in nepali

Copy
Give Feedback