Search Results

Search from 23,000+ Stotrams, Mantras & Spiritual Posts

श्री छिन्नमस्ता अष्टोत्तर शत नामावलिः

Sri Chinnamasta Ashtottara Sata Namavali in nepali
with lyrics, PDF, meaning, devotional benefits,
chanting guide and complete spiritual content.

sri chinnamasta ashtottara sata namavali in nepali

ॐ छिन्नमस्तायै नमः ।
ॐ महाविद्यायै नमः ।
ॐ महाभीमायै नमः ।
ॐ महोदर्यै नमः ।
ॐ चंडेश्वर्यै नमः ।
ॐ चंडमात्रे नमः ।
ॐ चंडमुंडप्रभंजिन्यै नमः ।
ॐ महाचंडायै नमः ।
ॐ चंडरूपायै नमः ।
ॐ चंडिकायै नमः । 10 ।

ॐ चंडखंडिन्यै नमः ।
ॐ क्रोधिन्यै नमः ।
ॐ क्रोधजनन्यै नमः ।
ॐ क्रोधरूपायै नमः ।
ॐ कुह्वे नमः ।
ॐ कलायै नमः ।
ॐ कोपातुरायै नमः ।
ॐ कोपयुतायै नमः ।
ॐ कोपसंहारकारिण्यै नमः ।
ॐ वज्रवैरोचन्यै नमः । 20 ।

ॐ वज्रायै नमः ।
ॐ वज्रकल्पायै नमः ।
ॐ डाकिन्यै नमः ।
ॐ डाकिनीकर्मनिरतायै नमः ।
ॐ डाकिनीकर्मपूजितायै नमः ।
ॐ डाकिनीसंगनिरतायै नमः ।
ॐ डाकिनीप्रेमपूरितायै नमः ।
ॐ खट्वांगधारिण्यै नमः ।
ॐ खर्वायै नमः ।
ॐ खड्गखर्परधारिण्यै नमः । 30 ।

ॐ प्रेतासनायै नमः ।
ॐ प्रेतयुतायै नमः ।
ॐ प्रेतसंगविहारिण्यै नमः ।
ॐ छिन्नमुंडधरायै नमः ।
ॐ छिन्नचंडविद्यायै नमः ।
ॐ चित्रिण्यै नमः ।
ॐ घोररूपायै नमः ।
ॐ घोरदृष्ट्यै नमः ।
ॐ घोररावायै नमः ।
ॐ घनोदर्यै नमः । 40 ।

ॐ योगिन्यै नमः ।
ॐ योगनिरतायै नमः ।
ॐ जपयज्ञपरायणायै नमः ।
ॐ योनिचक्रमय्यै नमः ।
ॐ योनये नमः ।
ॐ योनिचक्रप्रवर्तिन्यै नमः ।
ॐ योनिमुद्रायै नमः ।
ॐ योनिगम्यायै नमः ।
ॐ योनियंत्रनिवासिन्यै नमः ।
ॐ यंत्ररूपायै नमः । 50 ।

ॐ यंत्रमय्यै नमः ।
ॐ यंत्रेश्यै नमः ।
ॐ यंत्रपूजितायै नमः ।
ॐ कीर्त्यायै नमः ।
ॐ कपर्दिन्यै नमः ।
ॐ काल्यै नमः ।
ॐ कंकाल्यै नमः ।
ॐ कलकारिण्यै नमः ।
ॐ आरक्तायै नमः ।
ॐ रक्तनयनायै नमः । 60 ।

ॐ रक्तपानपरायणायै नमः ।
ॐ भवान्यै नमः ।
ॐ भूतिदायै नमः ।
ॐ भूत्यै नमः ।
ॐ भूतिदात्र्यै नमः ।
ॐ भैरव्यै नमः ।
ॐ भैरवाचारनिरतायै नमः ।
ॐ भूतभैरवसेवितायै नमः ।
ॐ भीमायै नमः ।
ॐ भीमेश्वर्यै नमः । 70 ।

ॐ देव्यै नमः ।
ॐ भीमनादपरायणायै नमः ।
ॐ भवाराध्यायै नमः ।
ॐ भवनुतायै नमः ।
ॐ भवसागरतारिण्यै नमः ।
ॐ भद्रकाल्यै नमः ।
ॐ भद्रतनवे नमः ।
ॐ भद्ररूपायै नमः ।
ॐ भद्रिकायै नमः ।
ॐ भद्ररूपायै नमः । 80 ।

ॐ महाभद्रायै नमः ।
ॐ सुभद्रायै नमः ।
ॐ भद्रपालिन्यै नमः ।
ॐ सुभव्यायै नमः ।
ॐ भव्यवदनायै नमः ।
ॐ सुमुख्यै नमः ।
ॐ सिद्धसेवितायै नमः ।
ॐ सिद्धिदायै नमः ।
ॐ सिद्धिनिवहायै नमः ।
ॐ सिद्धायै नमः । 90 ।

ॐ सिद्धनिषेवितायै नमः ।
ॐ शुभदायै नमः ।
ॐ शुभगायै नमः ।
ॐ शुद्धायै नमः ।
ॐ शुद्धसत्त्वायै नमः ।
ॐ शुभावहायै नमः ।
ॐ श्रेष्ठायै नमः ।
ॐ दृष्टिमयीदेव्यै नमः ।
ॐ दृष्टिसंहारकारिण्यै नमः ।
ॐ शर्वाण्यै नमः । 100 ।

ॐ सर्वगायै नमः ।
ॐ सर्वायै नमः ।
ॐ सर्वमंगलकारिण्यै नमः ।
ॐ शिवायै नमः ।
ॐ शांतायै नमः ।
ॐ शांतिरूपायै नमः ।
ॐ मृडान्यै नमः ।
ॐ मदनातुरायै नमः । 108

sri chinnamasta ashtottara sata namavali in nepali

Copy
Give Feedback