Search Results

Search from 23,000+ Stotrams, Mantras & Spiritual Posts

श्री भद्रकाली अष्टोत्तर शत नामावलिः

Sri Bhadrakali Ashtottara Sata Namavali in nepali
with lyrics, PDF, meaning, devotional benefits,
chanting guide and complete spiritual content.

sri bhadrakali ashtottara sata namavali in nepali

ॐ भद्रकाल्यै नमः ।
ॐ कामरूपायै नमः ।
ॐ महाविद्यायै नमः ।
ॐ यशस्विन्यै नमः ।
ॐ महाश्रयायै नमः ।
ॐ महाभागायै नमः ।
ॐ दक्षयागविभेदिन्यै नमः ।
ॐ रुद्रकोपसमुद्भूतायै नमः ।
ॐ भद्रायै नमः ।
ॐ मुद्रायै नमः । 10 ।

ॐ शिवंकर्यै नमः ।
ॐ चंद्रिकायै नमः ।
ॐ चंद्रवदनायै नमः ।
ॐ रोषताम्राक्षशोभिन्यै नमः ।
ॐ इंद्रादिदमन्यै नमः ।
ॐ शांतायै नमः ।
ॐ चंद्रलेखाविभूषितायै नमः ।
ॐ भक्तार्तिहारिण्यै नमः ।
ॐ मुक्तायै नमः ।
ॐ चंडिकानंददायिन्यै नमः । 20 ।

ॐ सौदामिन्यै नमः ।
ॐ सुधामूर्त्यै नमः ।
ॐ दिव्यालंकारभूषितायै नमः ।
ॐ सुवासिन्यै नमः ।
ॐ सुनासायै नमः ।
ॐ त्रिकालज्ञायै नमः ।
ॐ धुरंधरायै नमः । 27
ॐ सर्वज्ञायै नमः ।
ॐ सर्वलोकेश्यै नमः ।
ॐ देवयोनये नमः । 30 ।

ॐ अयोनिजायै नमः ।
ॐ निर्गुणायै नमः ।
ॐ निरहंकारायै नमः ।
ॐ लोककल्याणकारिण्यै नमः ।
ॐ सर्वलोकप्रियायै नमः ।
ॐ गौर्यै नमः ।
ॐ सर्वगर्वविमर्दिन्यै नमः ।
ॐ तेजोवत्यै नमः ।
ॐ महामात्रे नमः ।
ॐ कोटिसूर्यसमप्रभायै नमः । 40 ।

ॐ वीरभद्रकृतानंदभोगिन्यै नमः ।
ॐ वीरसेवितायै नमः ।
ॐ नारदादिमुनिस्तुत्यायै नमः ।
ॐ नित्यायै नमः ।
ॐ सत्यायै नमः ।
ॐ तपस्विन्यै नमः ।
ॐ ज्ञानरूपायै नमः ।
ॐ कलातीतायै नमः ।
ॐ भक्ताभीष्टफलप्रदायै नमः ।
ॐ कैलासनिलयायै नमः । 50 ।

ॐ शुभ्रायै नमः ।
ॐ क्षमायै नमः ।
ॐ श्रियै नमः ।
ॐ सर्वमंगलायै नमः ।
ॐ सिद्धविद्यायै नमः ।
ॐ महाशक्त्यै नमः ।
ॐ कामिन्यै नमः ।
ॐ पद्मलोचनायै नमः ।
ॐ देवप्रियायै नमः ।
ॐ दैत्यहंत्र्यै नमः । 60 ।

ॐ दक्षगर्वापहारिण्यै नमः ।
ॐ शिवशासनकर्त्र्यै नमः ।
ॐ शैवानंदविधायिन्यै नमः ।
ॐ भवपाशनिहंत्र्यै नमः ।
ॐ सवनांगसुकारिण्यै नमः ।
ॐ लंबोदर्यै नमः ।
ॐ महाकाल्यै नमः ।
ॐ भीषणास्यायै नमः ।
ॐ सुरेश्वर्यै नमः ।
ॐ महानिद्रायै नमः । 70 ।

ॐ योगनिद्रायै नमः ।
ॐ प्रज्ञायै नमः ।
ॐ वार्तायै नमः ।
ॐ क्रियावत्यै नमः ।
ॐ पुत्रपौत्रप्रदायै नमः ।
ॐ साध्व्यै नमः ।
ॐ सेनायुद्धसुकांक्षिण्यै नमः ।
ॐ शंभवे इच्छायै नमः ।
ॐ कृपासिंधवे नमः ।
ॐ चंड्यै नमः । 80 ।
ॐ चंडपराक्रमायै नमः ।
ॐ शोभायै नमः ।
ॐ भगवत्यै नमः ।
ॐ मायायै नमः ।
ॐ दुर्गायै नमः ।
ॐ नीलायै नमः ।
ॐ मनोगत्यै नमः ।
ॐ खेचर्यै नमः ।
ॐ खड्गिन्यै नमः ।
ॐ चक्रहस्तायै नमः । 90

ॐ शूलविधारिण्यै नमः ।
ॐ सुबाणायै नमः ।
ॐ शक्तिहस्तायै नमः ।
ॐ पादसंचारिण्यै नमः ।
ॐ परायै नमः ।
ॐ तपःसिद्धिप्रदायै नमः ।
ॐ देव्यै नमः ।
ॐ वीरभद्रसहायिन्यै नमः ।
ॐ धनधान्यकर्यै नमः ।
ॐ विश्वायै नमः । 100 ।

ॐ मनोमालिन्यहारिण्यै नमः ।
ॐ सुनक्षत्रोद्भवकर्यै नमः ।
ॐ वंशवृद्धिप्रदायिन्यै नमः ।
ॐ ब्रह्मादिसुरसंसेव्यायै नमः ।
ॐ शांकर्यै नमः ।
ॐ प्रियभाषिण्यै नमः ।
ॐ भूतप्रेतपिशाचादिहारिण्यै नमः ।
ॐ सुमनस्विन्यै नमः ।
ॐ पुण्यक्षेत्रकृतावासायै नमः ।
ॐ प्रत्यक्षपरमेश्वर्यै नमः ।

इति श्री भद्रकाली अष्टोत्तरशतनामावलिः ।

sri bhadrakali ashtottara sata namavali in nepali

Copy
Give Feedback