Pathata Samskritam Vadata Samskritam in nepali
with lyrics, PDF, meaning, devotional benefits,
chanting guide and complete spiritual content.
pathata samskritam vadata samskritam in nepali
पठत संस्कृतम्, वदत संस्कृतं
लसतु संस्कृतं चिरं गृहे गृहे च पुनरपि ॥ पठत ॥
ज्ञानवैभवं वेदवाङ्मयं
लसति यत्र भवभयापहारि मुनिभिरार्जितम् ।
कीर्तिरार्जिता यस्य प्रणयनात्
व्यास-भास-कालिदास-बाण-मुख्यकविभिः ॥ 1॥
स्थानमूर्जितं यस्य मन्वते
वाग्विचिंतका हि वाक्षु यस्य वीक्ष्य मधुरताम् ।
यद्विना जना नैव जानते
भारतीयसंस्कृतिं सनातनाभिधां वराम् ॥ 2॥
जयतु संस्कृतम्, संस्कृतिस्तथा
संस्कृतस्य संस्कृतेश्च प्रणयनाच्च मनुकुलम् ।
जयतु संस्कृतम्, जयतु मनुकुलं
जयतु जयतु संस्कृतम्, जयतु जयतु मनुकुलम् ॥ 3॥
रचन: मंजुनाथशर्मा
pathata samskritam vadata samskritam in nepali
Leave a Comment