Patanjali Yoga Sutras 2 Sadhana Pada in nepali
with lyrics, PDF, meaning, devotional benefits,
chanting guide and complete spiritual content.
patanjali yoga sutras 2 sadhana pada in nepali
अथ साधनपादः ।
तपः स्वाध्यायेश्वरप्रणिधानानि क्रियायोगः ॥1॥
समाधिभावनार्थः क्लेशतनूकरणार्थश्च ॥2॥
अविद्यास्मितारागद्वेषाभिनिवेशाः क्लेशाः ॥3॥
अविद्या क्षेत्रमुत्तरेषां प्रसुप्ततनुविच्छिन्नोदाराणाम् ॥4॥
अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिरविद्या ॥5॥
दृग्दर्शनशक्त्योरेकात्मतेवास्मिता ॥6॥
सुखानुशयी रागः ॥7॥
दुःखानुशयी द्वेषः ॥8॥
स्वरसवाही विदुषोऽपि तथारूढोऽभिनिवेशः ॥9॥
ते प्रतिप्रसवहेयाः सूक्ष्माः ॥10॥
ध्यानहेयास्तद्वृत्तयः ॥11॥
क्लेशमूलः कर्माशयो दृष्टादृष्टजन्मवेदनीयः ॥12॥
सति मूले तद् विपाको जात्यायुर्भोगाः ॥13॥
ते ह्लादपरितापफलाः पुण्यापुण्यहेतुत्वात् ॥14॥
परिणामतापसंस्कारदुःखैर्गुणवृत्तिविरोधाच्च दुःखमेव सर्वं विवेकिनः ॥15॥
हेयं दुःखमनागतम् ॥16॥
द्रष्टृदृश्ययोः संयोगो हेयहेतुः॥17॥
प्रकाशक्रियास्थितिशीलं भूतेंद्रियात्मकं भोगापवर्गार्थं दृश्यम् ॥18॥
विशेषाविशेषलिंगमात्रालिंगानि गुणपर्वाणि ॥19॥
द्रष्टा दृशिमात्रः शुद्धोऽपि प्रत्ययानुपश्यः ॥20॥
तदर्थ एव दृश्यस्यात्मा ॥21॥
कृतार्थं प्रति नष्टमप्यनष्टं तदन्यसाधारणत्वात् ॥22॥
स्वस्वामिशक्त्योः स्वरूपोपलब्धिहेतुः संयोगः ॥23॥
तस्य हेतुरविद्या ॥24॥
तदभावात्संयोगाभावो हानं तद् दृशेः कैवल्यम् ॥25॥
विवेकख्यातिरविप्लवा हानोपायः ॥26॥
तस्य सप्तधा प्रांतभूमिः प्रज्ञा ॥27॥
योगांगानुष्ठानादशुद्धिक्षये ज्ञानदीप्तिराविवेकख्यातेः ॥28॥
यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयोष्टावंगानि ॥29॥
अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः ॥30॥
जातिदेशकालसमयानवच्छिन्नाः सार्वभौमा महाव्रतम् ॥31॥
शौचसंतोषतपः स्वाध्यायेश्वरप्रणिधानानि नियमाः ॥32॥
वितर्कबाधने प्रतिपक्षभावनम् ॥33॥
वितर्काहिंसादयः कृतकारितानुमोदिता लोभक्रोधमोहपूर्वका मृदुमध्याधिमात्रा दुःखाज्ञानानंतफला इति प्रतिपक्षभावनम् ॥34॥
अहिंसाप्रतिष्ठायां तत्सन्निधौ वैरत्यागः ॥35॥
सत्यप्रतिष्ठायां क्रियाफलाश्रयत्वम् ॥36॥
अस्तेयप्रतिष्ठायां सर्वरत्नोपस्थानम् ॥37॥
ब्रह्मचर्यप्रतिष्ठायां वीर्यलाभः ॥38॥
अपरिग्रहस्थैर्ये जन्मकथंतासंबोधः ॥39॥
शौचात्स्वांगजुगुप्सा परैरसंसर्गः ॥40॥
सत्त्वशुद्धि-सौमनस्यैकाग्य्रेंद्रियजयात्मदर्शन-योग्यत्वानि च ॥41॥
संतोषात् अनुत्तमःसुखलाभः ॥42॥
कायेंद्रियसिद्धिरशुद्धिक्षयात् तपसः ॥43॥
स्वाध्यायादिष्टदेवतासंप्रयोगः ॥44॥
समाधिसिद्धिरीश्वरप्रणिधानात् ॥45॥
स्थिरसुखमासनम् ॥46॥
प्रयत्नशैथिल्यानंतसमापत्तिभ्याम् ॥47॥
ततो द्वंद्वानभिघातः ॥48॥
तस्मिन् सति श्वासप्रश्वासयोर्गतिविच्छेदः प्राणायामः ॥49॥
(स तु) बाह्याभ्यंतरस्तंभवृत्तिर्देशकालसंख्याभिः परिदृष्टो दीर्घसूक्ष्मः ॥50॥
बाह्याभ्यंतरविषयाक्षेपी चतुर्थः ॥51॥
ततः क्षीयते प्रकाशावरणम् ॥52॥
धारणासु च योग्यता मनसः ॥53॥
स्वविषयासंप्रयोगे चित्तस्वरूपानुकार इवेंद्रियाणां प्रत्याहारः ॥54॥
ततः परमावश्यतेंद्रियाणाम् ॥55॥
इति पातंजलयोगदर्शने साधनपादो नाम द्वितीयः पादः ।
patanjali yoga sutras 2 sadhana pada in nepali
Leave a Comment