Search Results

Search from 23,000+ Stotrams, Mantras & Spiritual Posts

मनसा सततं स्मरणीयम्

Manasa Satatam Smaraniyam in nepali
with lyrics, PDF, meaning, devotional benefits,
chanting guide and complete spiritual content.

manasa satatam smaraniyam in nepali

मनसा सततं स्मरणीयम्
वचसा सततं वदनीयम्
लोकहितं मम करणीयम् ॥ लोकहितम् ॥

न भोगभवने रमणीयम्
न च सुखशयने शयनीयनम्
अहर्निशं जागरणीयम्
लोकहितं मम करणीयम् ॥ मनसा ॥

न जातु दुःखं गणनीयम्
न च निजसौख्यं मननीयम्
कार्यक्षेत्रे त्वरणीयम्
लोकहितं मम करणीयम् ॥ मनसा ॥

दुःखसागरे तरणीयम्
कष्टपर्वते चरणीयम्
विपत्तिविपिने भ्रमणीयम्
लोकहितं मम करणीयम् ॥ मनसा ॥

गहनारण्ये घनांधकारे
बंधुजना ये स्थिता गह्वरे
तत्रा मया संचरणीयम्
लोकहितं मम करणीयम् ॥ मनसा ॥

रचन: सि. श्रीधर भास्कर वर्णॆकर

manasa satatam smaraniyam in nepali

Copy
Give Feedback