Search Results

Search from 23,000+ Stotrams, Mantras & Spiritual Posts

महा गणपति मूल मंत्राः (पाद माला स्तोत्रम्)

Maha Ganapati Mula Mantra Pada Mala Stotram in nepali
with lyrics, PDF, meaning, devotional benefits,
chanting guide and complete spiritual content.

maha ganapati mula mantra pada mala stotram in nepali

॥ मूलमंत्रम् ॥
॥ ॐ ह्रीं श्रीं क्लीं ग्लौं गं गणपतये वरवरद
सर्वजनं मे वशमानय स्वाहा ॥

॥ अथ स्तोत्रम्॥
ॐ इत्येतदजस्य कंठविवरं भित्वा बहिर्निर्गतं
ह्योमित्येव समस्तकर्म ऋषिभिः प्रारभ्यते मानुषैः ।
ओमित्येव सदा जपंति यतयः स्वातमैकनिष्ठाः परं
ह्योंकाराकृतिवक्त्रमिंदुनिटिलं विघ्नेश्वरं भवाये ॥ 1॥

श्रींबीजं श्रमदुःखजन्ममरणव्याध्याधिभीनाशकं
मृत्युक्रोधनशांतिबिंदुविलसद्वर्णाकृतिश्रीप्रदम् ।
स्वांतःस्वात्मशरस्य लक्ष्यमजरस्वात्मावबोधप्रदं
श्रीश्रीनायकसेविते भवदनप्रेमास्पदं भावये ॥ 2॥

ह्रींबीजं हृदयत्रिकोणविलसन्मध्यासनस्थं सदा
चाकाशानलवामलोचननिशानाथार्धवर्णात्मकम् ।
मायाकार्यजगत्प्रकाशकमुमारूपं स्वशक्तिप्रदं
मायातीतपदप्रदं हृदि भजे लोकेश्वराराधितम् ॥ 3॥

क्लींबीजं कलिधातुवत्कलयतां सर्वेष्टदं देहिनां
धातृक्ष्मायुतशांतिबिंदुविलसद्वर्णात्मकं कामदम् ।
श्रीकृष्णप्रियमिंदिरासुतमनःप्रीत्येकहेतुं परं
हृत्पद्मे कलये सदा कलिहरं कालारिपुत्रप्रियम् ॥ 4॥

ग्लौंबीजं गुणरूपनिर्गुणपरब्रह्मादिशक्तेर्महा-
हंकाराकृतिदंडिनीप्रियमजश्रीनाथरुद्रेष्टदम् ।
सर्वाकर्षिणिदेवराजभुवनार्णेंद्वात्मकं श्रीकरं
चित्ते विघ्ननिवारणाय गिरिजजातप्रियं भावये ॥ 5॥

गंगासुतं गंधमुखोपचारप्रियं खगारोहणभागिनेयम् ।
गंगासुताद्यं वरगंधतत्त्वमूलांबुजस्थं हृदि भावयेऽहम् ॥ 6॥

गणपतये वरगुणनिधये सुरगणपतये नतजनततये ।
मणिगणभूषितचरणयुगाश्रितमलहरणे चण ते नमः ॥ 7॥

वराभये मोदकमेकदंतं करांबुजातैः सततं धरंतम् ।
वरांगचंद्रं परभक्तिसांद्रैर्जनैर्भजंतं कलये सदाऽंतः ॥ 8॥

वरद नतजनानां संततं वक्रतुंड
स्वरमयनिजगात्र स्वात्मबोधैकहेतो ।
करलसदमृतांभोपूर्णपत्राद्य मह्यं
गरगलसुत शीघ्रं देहि मद्बोधमीड्यम् ॥ 9॥

सर्वजनं परिपालय शर्वज
पर्वसुधाकरगर्वहर ।
पर्वतनाथसुतासुत पालय
खर्वं मा कुरु दीनमिमम् ॥ 10 ॥

मेदोऽस्थिमांसरुधिरांत्रमये शरीरे
मेदिन्यबग्निमरुदंबरलास्यमाने ।
मे दारुणं मदमुखाघमुमाज हृत्वा
मेधाह्वयासनवरे वस दंतिवक्त्र ॥ 11॥

वशं कुरु त्वं शिवजात मां ते वशीकृताशेषसमस्तलोक ।
वसार्णसंशोभितमूलपद्मलसच्छ्रियाऽलिङ्तवारणास्य ॥ 12॥

आनयाशुपदवारिजांतिकं मां नयादिगुणवर्जितं तव ।
हानिहीनपदजामृतस्य ते पानयोग्यमिभवक्त्र मां कुरु ॥ 13॥

स्वाहास्वरूपेण विराजसे त्वं सुधाशनानां प्रियकर्मणीड्यम् ।
स्वधास्वरूपेण तु पित्र्यकर्मण्युमासुतेज्यामयविश्वमूर्ते ॥ 14॥

अष्टाविंशतिवर्णपत्रलसितं हारं गणेशप्रियं
कष्टाऽनिष्टहरं चतुर्दशपदैः पुष्पैर्मनोहारकम् ।
तुष्ट्यादिप्रदसद्गुरुत्तमपदांभोजे चिदानंददं
शिष्टेष्टोऽहमनंतसूत्रहृदयाऽऽबद्धं सुभक्त्याऽर्पये ॥ 15॥

॥ इति श्रीअनंतानंदकृतं श्रीगुरुचिदानंदनाथसमर्पितं
श्रीमहागणपतिमूलमंत्रमालास्तोत्रम् ॥

maha ganapati mula mantra pada mala stotram in nepali

Copy
Give Feedback