Search Results

Search from 23,000+ Stotrams, Mantras & Spiritual Posts

केन उपनिषद् – द्वितीयः खंडः

Kena Upanishad Part 2 in nepali
with lyrics, PDF, meaning, devotional benefits,
chanting guide and complete spiritual content.

kena upanishad part 2 in nepali

यदि मन्यसे सुवेदेति दहरमेवापि
नूनं त्वं-वेँत्थ ब्रह्मणो रूपम् ।
यदस्य त्वं-यँदस्य देवेष्वथ नु
मीमाम्स्यमेव ते मन्ये विदितम् ॥ 1॥

नाहं मन्ये सुवेदेति नो न वेदेति वेद च ।
यो नस्तद्वेद तद्वेद नो न वेदेति वेद च ॥ 2॥

यस्यामतं तस्य मतं मतं-यँस्य न वेद सः ।
अविज्ञातं-विँजानतां-विँज्ञातमविजानताम् ॥ 3॥

प्रतिबोधविदितं मतममृतत्वं हि विंदते ।
आत्मना विंदते वीर्यं-विँद्यया विंदतेऽमृतम् ॥ 4॥

इह चेदवेदीदथ सत्यमस्ति
न चेदिहावेदीन्महती विनष्टिः ।
भूतेषु भूतेषु विचित्य धीराः
प्रेत्यास्माल्लोकादमृता भवंति ॥ 5॥

॥ इति केनोपनिषदि द्वितीयः खंडः ॥

kena upanishad part 2 in nepali

Copy
Give Feedback