Search Results

Search from 23,000+ Stotrams, Mantras & Spiritual Posts

देवी माहात्म्यं नवावर्ण विधि

Devi Mahatmyam Navaavarna Vidhi in nepali
with lyrics, PDF, meaning, devotional benefits,
chanting guide and complete spiritual content.

devi mahatmyam navaavarna vidhi in nepali

श्रीगणपतिर्जयति । ॐ अस्य श्रीनवावर्णमंत्रस्य ब्रह्मविष्णुरुद्रा ऋषयः,
गायत्र्युष्णिगनुष्टुभश्छंदांसि श्रीमहाकालीमाहालक्ष्मीमहासरस्वत्यो देवताः,
ऐं बीजं, ह्रीं शक्ति:, क्लीं कीलकं, श्रीमहाकालीमाहालक्ष्मीमहासरस्वतीप्रीत्यर्थे जपे
विनियोगः॥

ऋष्यादिन्यासः
ब्रह्मविष्णुरुद्रा ऋषिभ्यो नमः, मुखे ।
महाकालीमाहालक्ष्मीमहासरस्वतीदेवताभ्यो नमः,हृदि । ऐं बीजाय नमः, गुह्ये ।
ह्रीं शक्तये नमः, पादयोः । क्लीं कीलकाय नमः, नाभौ । ॐ ऐं ह्रीं क्लीं चामुंडायै
विच्चे — इति मूलेन करौ संशोध्य

करन्यासः
ॐ ऐं अंगुष्ठाभ्यां नमः । ॐ ह्रीं तर्जनीभ्यां नमः । ॐ क्लीं मध्यमाभ्यां
नमः । ॐ चामुंडायै अनामिकाभ्यां नमः । ॐ विच्चे कनिष्ठिकाभ्यां नमः । ॐ ऐं
ह्रीं क्लीं चामुंडायै विच्चे करतलकरपृष्ठाभ्यां नमः ।

हृदयादिन्यासः
ॐ ऐं हृदयाय नमः । ॐ ह्रीं शिरसे स्वाह । ॐ क्लीं शिखायै वषट् । ॐ चामुंडायै
कवचाय हुम् । ॐ विच्चे नेत्रत्रयाय वौषट् । ॐ ऐं ह्रीं क्लीं चामुंडायै विच्चे
अस्त्राय फट् ।

अक्षरन्यासः
ॐ ऐं नमः, शिखायाम् । ॐ ह्रीं नमः, दक्षिणनेत्रे । ॐ क्लीं नमः, वामनेत्रे । ॐ
चां नमः, दक्षिणकर्णे । ॐ मुं नमः, वामकर्णे । ॐ डां नमः,
दक्षिणनासापुटे । ॐ यैं नमः, वामनासापुटे । ॐ विं नमः, मुखे । ॐ च्चें
नमः, गुह्ये ।
एवं विन्यस्याष्टवारं मूलेन व्यापकं कुर्यात् ।

दिङ्न्यासः
ॐ ऐं प्राच्यै नमः । ॐ ऐं आग्नेय्यै नमः । ॐ ह्रीं दक्षिणायै नमः । ॐ ह्रीं
नै​ऋत्यै नमः । ॐ क्लीं पतीच्यै नमः । ॐ क्लीं वायुव्यै नमः । ॐ चामुंडायै
उदीच्यै नमः । ॐ चामुंडायै ऐशान्यै नमः । ॐ ऐं ह्रीं क्लीं चामुंडायै विच्चे
ऊर्ध्वायै नमः । ॐ ऐं ह्रीं क्लीं चामुंडायै विच्चे भूम्यै नमः ।

ध्यानम्
ॐ खड्गं चक्रगदेषुचापपरिघांछूलं भुशुंडीं शिरः
शंखं संदधतीं करैस्त्रिनयनां सर्वांगभूषावृताम् ।
नीलाश्मद्युतिमास्यपाददशकां सेवे महाकालिकां
यामस्तौत्स्वपिते हरौ कमलजो हंतुं मधुं कौटभम् ॥

ॐ अक्षस्रक्परशू गदेषुकुलिशं पद्मं धनुः कुंडिकां
दंडं शक्तिमसिं च चर्म जलजं घंटां सुराभाजनम् ।
शूलं पाशसुदर्शने च दधतीं हस्तैः प्रवालप्रभां
सेवे सैरिभमर्दिनीमिह महालक्ष्मीं सरोजस्थिताम् ॥

ॐ घंटाशूलहलानि शंखमुसले चक्रं धनुः सायकम् ।
हस्ताब्जैर्धधतीं घनांतविलसच्छीतांशुतुल्यप्रभाम् ।
गौरीदेहसमुद्भवां त्रिजगताधारभूतां महा ।
पूर्वामत्र सरस्वतीमनुभजे शुंभादिदैत्यार्धिनीम् ॥

ॐ मां मालें महामाये सर्वशक्तिस्वरूपिणि ।
चतुर्वर्गस्त्वयि न्यस्तस्तस्मान्मे सिद्धिदा भव ॥

ॐ अविघ्नं कुरु माले त्वं गृह्णामि दक्षिणे करे ।
जपकाले च सिद्ध्यर्थं प्रसीद ममसिद्धये ॥

ऐं ह्रीं अक्षमालिकायै नमः ॥ 108 ॥

ॐ मां मालें महामाये सर्वशक्तिस्वरूपिणि ।
चतुर्वर्गस्त्वयि न्यस्तस्तस्मान्मे सिद्धिदा भव ॥

ॐ अविघ्नं कुरु माले त्वं गृह्णामि दक्षिणे करे ।
जपकाले च सिद्ध्यर्थं प्रसीद ममसिद्धये ॥

ॐ अक्षमालाधिपतये सुसिद्धिं देहि देहि सर्वमंत्रार्थसाधिनि
साधय साधय सर्वसिद्धिं परिकल्पय परिकल्पय मे स्वाहा ।

ॐ ऐं ह्रीं क्लीं चामुंडायै विच्चे ॥ 108 ॥

गुह्यातिगुह्यगोप्त्री त्वं गृहाणास्मत्कृतं जपम् ।
सिद्धिर्भवतु मे देवि त्वत्प्रसादान्महेश्वरि ॥

ॐ अक्षमालाधिपतये सुसिद्धिं देहि देहि सर्वमंत्रार्थसाधिनि
साधय साधय सर्वसिद्धिं परिकल्पय परिकल्पय मे स्वाहा ।
गुह्यातिगुह्यगोप्त्री त्वं गृहाणास्मत्कृतं जपम् ।
सिद्धिर्भवतु मे देवि त्वत्प्रसादान्महेश्वरि ॥

करन्यासः
ॐ ह्रीं अंगुष्ठाभ्यां नमः । ॐ चं तर्जनीभ्यां नमः । ॐ डिं मध्यमाभ्यां
नमः । ॐ कां अनामिकाभ्यां नमः । ॐ यैं कनिष्ठिकाभ्यां नमः । ॐ ह्रीं
चंडिकायै करतलकरपृष्ठाभ्यां नमः ।

हृदयादिन्यासः
खड्गिनी शूलिनी घोरा गदिनी चक्रिणी तथा ।
शंखिनी चापिनी बाणभुशुंडी पैघायुधा । हृदयाय नमः ॥

ॐ शूलेन पाहि नो देवि पाहि खड्गेन चांबिके ।
घंटास्वनेन नः पाहि चापज्यानिःस्वनेन च । शिरसे स्वाहा ॥

ॐ प्राच्यां रक्ष प्रतींच्यां च रक्ष चंडिके रक्ष दक्षिणे ।
भ्रामणेनात्मशूलस्य उत्तरस्यां तथेश्वरि । शिखायै वषट् ॥

ॐ सौम्यानि यानि रूपाणि त्रैलोक्ये विचरंति ते ।
यानि चात्यर्थघोराणि तै रक्षास्मांस्तथा भुवम् । कवचाय हुम् ॥

ॐ खड्गशूलगदादीनि यानिचास्त्राणि तेऽंबिके ।
करपल्लव संगीनि तैरस्मान् रक्ष सर्वतः । नेत्रत्रयाय वौषट् ॥

ॐ सर्वस्वरूपे सर्वेशे सर्वशक्तिसमन्विते ।
भयेभ्यस्त्राहि नो देवि दुर्गे नमोऽस्तुते । अस्त्राय फट् ॥

ध्यानम्
ॐ विद्युद्दामप्रभां मृगपतिस्कंधस्थितां भीषणाम् ।
कन्याभिः करवालखेटविलसद्धस्ताभिरासेविताम् ।
हस्तैश्चक्रगदासिखेटविशिखांश्चापं गुणं तर्जनीम् ।
बिभ्राणामनलात्मिकां शशिधरां दुर्गां त्रिनेत्रां भजे ॥

devi mahatmyam navaavarna vidhi in nepali

Copy
Give Feedback