Search Results

Search from 23,000+ Stotrams, Mantras & Spiritual Posts

श्री वेद व्यास स्तुति

Sri Veda Vyasa Stuti in marathi
with lyrics, PDF, meaning, devotional benefits,
chanting guide and complete spiritual content.

sri veda vyasa stuti in marathi

व्यासं वसिष्ठनप्तारं शक्तेः पौत्रमकल्मषम् ।
पराशरात्मजं वंदे शुकतातं तपोनिधिम् ॥ 1

व्यासाय विष्णुरूपाय व्यासरूपाय विष्णवे ।
नमो वै ब्रह्मनिधये वासिष्ठाय नमो नमः ॥ 2

कृष्णद्वैपायनं व्यासं सर्वलोकहिते रतम् ।
वेदाब्जभास्करं वंदे शमादिनिलयं मुनिम् ॥ 3

वेदव्यासं स्वात्मरूपं सत्यसंधं परायणम् ।
शांतं जितेंद्रियक्रोधं सशिष्यं प्रणमाम्यहम् ॥ 4

अचतुर्वदनो ब्रह्मा द्विबाहुरपरो हरिः ।
अफाललोचनः शंभुः भगवान् बादरायणः ॥ 5

शंकरं शंकराचार्यं केशवं बादरायणम् ।
सूत्रभाष्यकृतौ वंदे भगवंतौ पुनः पुनः ॥ 6

ब्रह्मसूत्रकृते तस्मै वेदव्यासाय वेधसे ।
ज्ञानशक्त्यवताराय नमो भगवतो हरेः ॥ 7

व्यासः समस्तधर्माणां वक्ता मुनिवरेडितः ।
चिरंजीवी दीर्घमायुर्ददातु जटिलो मम ॥ 8

प्रज्ञाबलेन तपसा चतुर्वेदविभाजकः ।
कृष्णद्वैपायनो यश्च तस्मै श्रीगुरवे नमः ॥ 9

जटाधरस्तपोनिष्ठः शुद्धयोगो जितेंद्रियः ।
कृष्णाजिनधरः कृष्णस्तस्मै श्रीगुरवे नमः ॥ 10

भारतस्य विधाता च द्वितीय इव यो हरिः ।
हरिभक्तिपरो यश्च तस्मै श्रीगुरवे नमः ॥ 11

जयति पराशरसूनुः सत्यवती हृदयनंदनो व्यासः ।
यस्यास्य कमलगलितं भारतममृतं जगत्पिबति ॥ 12

वेदविभागविधात्रे विमलाय ब्रह्मणे नमो विश्वदृशे ।
सकलधृतिहेतुसाधनसूत्रसृजे सत्यवत्यभिव्यक्ति मते ॥ 13

वेदांतवाक्यकुसुमानि समानि चारु
जग्रंथ सूत्रनिचयेन मनोहरेण ।
मोक्षार्थिलोकहितकामनया मुनिर्यः
तं बादरायणमहं प्रणमामि भक्त्या ॥ 14

इति श्री वेदव्यास स्तुतिः ।

sri veda vyasa stuti in marathi

Copy
Give Feedback