Search Results

Search from 23,000+ Stotrams, Mantras & Spiritual Posts

श्री शिव आरती

Sri Shiva Aarati in marathi
with lyrics, PDF, meaning, devotional benefits,
chanting guide and complete spiritual content.

sri shiva aarati in marathi

सर्वेशं परमेशं श्रीपार्वतीशं वंदेऽहं विश्वेशं श्रीपन्नगेशम् ।
श्रीसांबं शंभुं शिवं त्रैलोक्यपूज्यं वंदेऽहं त्रैनेत्रं श्रीकंठमीशम् ॥ 1॥

भस्मांबरधरमीशं सुरपारिजातं बिल्वार्चितपदयुगलं सोमं सोमेशम् ।
जगदालयपरिशोभितदेवं परमात्मं वंदेऽहं शिवशंकरमीशं देवेशम् ॥ 2॥

कैलासप्रियवासं करुणाकरमीशं कात्यायनीविलसितप्रियवामभागम् ।
प्रणवार्चितमात्मार्चितं संसेवितरूपं वंदेऽहं शिवशंकरमीशं देवेशम् ॥ 3॥

मन्मथनिजमददहनं दाक्षायनीशं निर्गुणगुणसंभरितं कैवल्यपुरुषम् ।
भक्तानुग्रहविग्रहमानंदजैकं वंदेऽहं शिवशंकरमीशं देवेशम् ॥ 4॥

सुरगंगासंप्लावितपावननिजशिखरं समभूषितशशिबिंबं जटाधरं देवम् ।
निरतोज्ज्वलदावानलनयनफालभागं वंदेऽहं शिवशंकरमीशं देवेशम् ॥ 5॥

शशिसूर्यनेत्रद्वयमाराध्यपुरुषं सुरकिन्नरपन्नगमयमीशं संकाशम् ।
शरवणभवसंपूजितनिजपादपद्मं वंदेऽहं शिवशंकरमीशं देवेशम् ॥ 6॥

श्रीशैलपुरवासं ईशं मल्लीशं श्रीकालहस्तीशं स्वर्णमुखीवासम् ।
कांचीपुरमीशं श्रीकामाक्षीतेजं वंदेऽहं शिवशंकरमीशं देवेशम् ॥ 7॥

त्रिपुरांतकमीशं अरुणाचलेशं दक्षिणामूर्तिं गुरुं लोकपूज्यम् ।
चिदंबरपुरवासं पंचलिंगमूर्तिं वंदेऽहं शिवशंकरमीशं देवेशम् ॥ 8॥

ज्योतिर्मयशुभलिंगं संख्यात्रयनाट्यं त्रयीवेद्यमाद्यं पंचाननमीशम् ।
वेदाद्भुतगात्रं वेदार्णवजनितं वेदाग्रं विश्वाग्रं श्रीविश्वनाथम् ॥ 9॥

sri shiva aarati in marathi

Copy
Give Feedback