Sri Shanmukha Dandakam in marathi
with lyrics, PDF, meaning, devotional benefits,
chanting guide and complete spiritual content.
sri shanmukha dandakam in marathi
श्रीपार्वतीपुत्र, मां पाहि वल्लीश, त्वत्पादपंकेज सेवारतोऽहं, त्वदीयां नुतिं देवभाषागतां कर्तुमारब्धवानस्मि, संकल्पसिद्धिं कृतार्थं कुरु त्वम् ।
भजे त्वां सदानंदरूपं, महानंददातारमाद्यं, परेशं, कलत्रोल्लसत्पार्श्वयुग्मं, वरेण्यं, विरूपाक्षपुत्रं, सुराराध्यमीशं, रवींद्वग्निनेत्रं, द्विषड्बाहु संशोभितं, नारदागस्त्यकण्वात्रिजाबालिवाल्मीकिव्यासादि संकीर्तितं, देवराट्पुत्रिकालिंगितांगं, वियद्वाहिनीनंदनं, विष्णुरूपं, महोग्रं, उदग्रं, सुतीक्षं, महादेववक्त्राब्जभानुं, पदांभोजसेवा समायात भक्तालि संरक्षणायत्त चित्तं, उमा शर्व गंगाग्नि षट्कृत्तिका विष्णु ब्रह्मेंद्र दिक्पाल संपूतसद्यत्न निर्वर्तितोत्कृष्ट सुश्रीतपोयज्ञ संलब्धरूपं, मयूराधिरूढं, भवांभोधिपोतं, गुहं वारिजाक्षं, गुरुं सर्वरूपं, नतानां शरण्यं, बुधानां वरेण्यं, सुविज्ञानवेद्यं, परं, पारहीनं, पराशक्तिपुत्रं, जगज्जाल निर्माण संपालनाहार्यकारं, सुराणां वरं, सुस्थिरं, सुंदरांगं, स्वभाक्तांतरंगाब्ज संचारशीलं, सुसौंदर्यगांभीर्य सुस्थैर्ययुक्तं, द्विषड्बाहु संख्यायुध श्रेणिरम्यं, महांतं, महापापदावाग्नि मेघं, अमोघं, प्रसन्नं, अचिंत्य प्रभावं, सुपूजा सुतृप्तं, नमल्लोक कल्पं, अखंड स्वरूपं, सुतेजोमयं, दिव्यदेहं, भवध्वांतनाशायसूर्यं, दरोन्मीलितांभोजनेत्रं, सुरानीक संपूजितं, लोकशस्तं, सुहस्ताधृतानेकशस्त्रं, निरालंबमाभासमात्रं शिखामध्यवासं, परं धाममाद्यंतहीनं, समस्ताघहारं, सदानंददं, सर्वसंपत्प्रदं, सर्वरोगापहं, भक्तकार्यार्थसंपादकं, शक्तिहस्तं, सुतारुण्यलावण्यकारुण्यरूपं, सहस्रार्क संकाश सौवर्णहारालि संशोभितं, षण्मुखं, कुंडलानां विराजत्सुकांत्यं चित्तेर्गंडभागैः सुसंशोभितं, भक्तपालं, भवानीसुतं, देवमीशं, कृपावारिकल्लोल भास्वत्कटाक्षं, भजे शर्वपुत्रं, भजे कार्तिकेयं, भजे पार्वतेयं, भजे पापनाशं, भजे बाहुलेयं, भजे साधुपालं, भजे सर्परूपं, भजे भक्तिलभ्यं, भजे रत्नभूषं, भजे तारकारिं, दरस्मेरवक्त्रं, शिखिस्थं, सुरूपं, कटिन्यस्त हस्तं, कुमारं, भजेऽहं महादेव, संसारपंकाब्धि सम्मग्नमज्ञानिनं पापभूयिष्ठमार्गे चरं पापशीलं, पवित्रं कुरु त्वं प्रभो, त्वत्कृपावीक्षणैर्मां प्रसीद, प्रसीद प्रपन्नार्तिहाराय संसिद्ध, मां पाहि वल्लीश, श्रीदेवसेनेश, तुभ्यं नमो देव, देवेश, सर्वेश, सर्वात्मकं, सर्वरूपं, परं त्वां भजेऽहं भजेऽहं भजेऽहम् ।
इति श्री षण्मुख दंडकम् ॥
sri shanmukha dandakam in marathi
Leave a Comment