Search Results

Search from 23,000+ Stotrams, Mantras & Spiritual Posts

शनि स्तोत्रं दशरथ कृतम्

Shani Stotram Dasaratha Krutam in marathi
with lyrics, PDF, meaning, devotional benefits,
chanting guide and complete spiritual content.

shani stotram dasaratha krutam in marathi

नमः कृष्णाय नीलाय शिखिखंडनिभाय च ।
नमो नीलमधूकाय नीलोत्पलनिभाय च ॥ 1 ॥

नमो निर्मांसदेहाय दीर्घश्रुतिजटाय च ।
नमो विशालनेत्राय शुष्कोदर भयानक ॥ 2 ॥

नमः पौरुषगात्राय स्थूलरोमाय ते नमः ।
नमो नित्यं क्षुधार्ताय नित्यतृप्ताय ते नमः ॥ 3 ॥

नमो घोराय रौद्राय भीषणाय करालिने ।
नमो दीर्घाय शुष्काय कालदंष्ट्र नमोऽस्तु ते ॥ 4 ॥

नमस्ते घोररूपाय दुर्निरीक्ष्याय ते नमः ।
नमस्ते सर्वभक्षाय वलीमुख नमोऽस्तु ते ॥ 5 ॥

सूर्यपुत्त्र नमस्तेऽस्तु भास्वरोभयदायिने ।
अधोदृष्टे नमस्तेऽस्तु संवर्तक नमोऽस्तु ते ॥ 6 ॥

नमो मंदगते तुभ्यं निष्प्रभाय नमोनमः ।
तपसा ज्ञानदेहाय नित्ययोगरताय च ॥ 7 ॥

ज्ञानचक्षुर्नमस्तेऽस्तु काश्यपात्मजसूनवे ।
तुष्टो ददासि राज्यं त्वं क्रुद्धो हरसि तत्‍ क्षणात् ॥ 8 ॥

देवासुरमनुष्याश्च सिद्धविद्याधरोरगाः ।
त्वयावलोकितास्सौरे दैन्यमाशुव्रजंतिते ॥ 9 ॥

ब्रह्मा शक्रोयमश्चैव मुनयः सप्ततारकाः ।
राज्यभ्रष्टाः पतंतीह तव दृष्ट्याऽवलोकितः ॥ 10 ॥

त्वयाऽवलोकितास्तेऽपि नाशं यांति समूलतः ।
प्रसादं कुरु मे सौरे प्रणत्वाहित्वमर्थितः ॥ 11 ॥

shani stotram dasaratha krutam in marathi

Copy
Give Feedback