Search Results

Search from 23,000+ Stotrams, Mantras & Spiritual Posts

प्रियं भारतम्

Priyam Bharatam in marathi
with lyrics, PDF, meaning, devotional benefits,
chanting guide and complete spiritual content.

priyam bharatam in marathi

प्रकृत्या सुरम्यं विशालं प्रकामं
सरित्तारहारैः ललामं निकामम् ।
हिमाद्रिर्ललाटे पदे चैव सिंधुः
प्रियं भारतं सर्वदा दर्शनीयम् ॥ 1 ॥

धनानां निधानं धरायां प्रधानं
इदं भारतं देवलोकेन तुल्यम् ।
यशो यस्य शुभ्रं विदेशेषु गीतं
प्रियं भारतं तत् सदा पूजनीयम् ॥ 2 ॥

अनेके प्रदेशाः अनेके च वेषाः
अनेकानि रुपाणि भाषा अनेकाः ।
परं यत्र सर्वे वयं भारतीयाः
प्रियं भारतं तत् सदा रक्षणीयम् ॥ 3 ॥

वयं भारतीयाः स्वदेशं नमामः
परं धर्ममेकं सदा मानयामः ।
तदर्थं धनं जीवनं चार्पयाम
प्रियं भारतं मे सदा वंदनीयम् ॥ 4 ॥

रचन: डा. चंद्रभानु त्रिपाठी

priyam bharatam in marathi

Copy
Give Feedback