Search Results

Search from 23,000+ Stotrams, Mantras & Spiritual Posts

अय्यप्प पंच रत्नम्

Ayyappa Pancha Ratnam in marathi
with lyrics, PDF, meaning, devotional benefits,
chanting guide and complete spiritual content.

ayyappa pancha ratnam in marathi

लोकवीरं महापूज्यं सर्वरक्षाकरं विभुम् ।
पार्वती हृदयानंदं शास्तारं प्रणमाम्यहम् ॥ 1 ॥

विप्रपूज्यं विश्ववंद्यं विष्णुशंभोः प्रियं सुतम् ।
क्षिप्रप्रसादनिरतं शास्तारं प्रणमाम्यहम् ॥ 2 ॥

मत्तमातंगगमनं कारुण्यामृतपूरितम् ।
सर्वविघ्नहरं देवं शास्तारं प्रणमाम्यहम् ॥ 3 ॥

अस्मत्कुलेश्वरं देवमस्मच्छत्रु विनाशनम् ।
अस्मदिष्टप्रदातारं शास्तारं प्रणमाम्यहम् ॥ 4 ॥

पांड्येशवंशतिलकं केरले केलिविग्रहम् ।
आर्तत्राणपरं देवं शास्तारं प्रणमाम्यहम् ॥ 5 ॥

पंचरत्नाख्यमेतद्यो नित्यं शुद्धः पठेन्नरः ।
तस्य प्रसन्नो भगवान् शास्ता वसति मानसे ॥

ayyappa pancha ratnam in marathi

Copy
Give Feedback