Search Results

Search from 23,000+ Stotrams, Mantras & Spiritual Posts

आयुष्य सूक्तम्

Ayushya Suktam in marathi
with lyrics, PDF, meaning, devotional benefits,
chanting guide and complete spiritual content.

ayushya suktam in marathi

यो ब्रह्मा ब्रह्मण उ॑ज्जहा॒र प्रा॒णैः शि॒रः कृत्तिवासाः᳚ पिना॒की ।
ईशानो देवः स न आयु॑र्दधा॒तु॒ तस्मै जुहोमि हविषा॑ घृते॒न ॥ 1 ॥

विभ्राजमानः सरिर॑स्य म॒ध्या॒-द्रो॒च॒मा॒नो घर्मरुचि॑र्य आ॒गात् ।
स मृत्युपाशानपनु॑द्य घो॒रा॒नि॒हा॒यु॒षे॒णो घृतम॑त्तु दे॒वः ॥ 2 ॥

ब्रह्मज्योति-र्ब्रह्म-पत्नी॑षु ग॒र्भं॒-यँ॒मा॒द॒धात् पुरुरूपं॑ जयं॒तम् ।
सुवर्णरंभग्रह-म॑र्कम॒र्च्यं॒ त॒मा॒यु॒षे वर्धयामो॑ घृते॒न ॥ 3 ॥

श्रियं-लँक्ष्मी-मौबला-मंबिकां॒ गां॒ ष॒ष्ठीं च या॒मिंद्रसेने᳚त्युदा॒हुः ।
तां-विँद्यां ब्रह्मयोनिग्ं॑ सरू॒पा॒मि॒हा॒यु॒षे तर्पयामो॑ घृते॒न ॥ 4 ॥

दाक्षायण्यः सर्वयोन्यः॑ स यो॒न्यः॒ स॒ह॒स्र॒शो विश्वरूपा॑ विरू॒पाः ।
ससूनवः सपतयः॑ सयू॒थ्या॒ आ॒यु॒षे॒णो घृतमिदं॑ जुषं॒ताम् ॥ 5 ॥

दिव्या गणा बहुरूपाः᳚ पुरा॒णा॒ आयुश्छिदो नः प्रमथ्नं॑तु वी॒रान् ।
तेभ्यो जुहोमि बहुधा॑ घृते॒न॒ मा॒ नः॒ प्र॒जाग्ं रीरिषो मो॑त वी॒रान् ॥ 6 ॥

ए॒कः॒ पु॒र॒स्तात् य इदं॑ बभू॒व॒ यतो बभूव भुवन॑स्य गो॒पाः ।
यमप्येति भुवनग्ं सां᳚परा॒ये॒ स नो हविर्घृत-मिहायुषे᳚त्तु दे॒वः ॥ 7 ॥

व॒सू॒न् रुद्रा॑-नादि॒त्यान् मरुतो॑ऽथ सा॒ध्या॒न् ऋ॑भून् य॒क्षा॒न् गंधर्वाग्‍श्च पितॄग्‍श्च वि॒श्वान् ।
भृगून् सर्पाग्‍श्चांगिरसो॑ऽथ स॒र्वा॒न् घृ॒त॒ग्ं हु॒त्वा स्वायुष्या महया॑म श॒श्वत् ॥ 8 ॥

विष्णो॒ त्वं नो॒ अंत॑म॒श्शर्म॑यच्छ सहंत्य ।
प्रते॒धारा॑ मधु॒श्चुत॒ उथ्सं॑ दुह्रते॒ अक्षि॑तम् ॥

॥ ॐ शांतिः॒ शांतिः॒ शांतिः॑ ॥

ayushya suktam in marathi

Copy
Give Feedback