Search Results

Search from 23,000+ Stotrams, Mantras & Spiritual Posts

अष्टावक्र गीता सप्तदशोऽध्यायः

Ashtavakra Gita Chapter 17 in marathi
with lyrics, PDF, meaning, devotional benefits,
chanting guide and complete spiritual content.

ashtavakra gita chapter 17 in marathi

अष्टावक्र उवाच ॥

तेन ज्ञानफलं प्राप्तं योगाभ्यासफलं तथा ।
तृप्तः स्वच्छेंद्रियो नित्यमेकाकी रमते तु यः ॥ 17-1॥

न कदाचिज्जगत्यस्मिन् तत्त्वज्ञो हंत खिद्यति ।
यत एकेन तेनेदं पूर्णं ब्रह्मांडमंडलम् ॥ 17-2॥

न जातु विषयाः केऽपि स्वारामं हर्षयंत्यमी ।
सल्लकीपल्लवप्रीतमिवेभं निंबपल्लवाः ॥ 17-3॥

यस्तु भोगेषु भुक्तेषु न भवत्यधिवासितः ।
अभुक्तेषु निराकांक्षी तादृशो भवदुर्लभः ॥ 17-4॥

बुभुक्षुरिह संसारे मुमुक्षुरपि दृश्यते ।
भोगमोक्षनिराकांक्षी विरलो हि महाशयः ॥ 17-5॥

धर्मार्थकाममोक्षेषु जीविते मरणे तथा ।
कस्याप्युदारचित्तस्य हेयोपादेयता न हि ॥ 17-6॥

वांछा न विश्वविलये न द्वेषस्तस्य च स्थितौ ।
यथा जीविकया तस्माद् धन्य आस्ते यथा सुखम् ॥ 17-7॥

कृतार्थोऽनेन ज्ञानेनेत्येवं गलितधीः कृती ।
पश्यन् श‍ऋण्वन् स्पृशन् जिघ्रन्न्
अश्नन्नास्ते यथा सुखम् ॥ 17-8॥

शून्या दृष्टिर्वृथा चेष्टा विकलानींद्रियाणि च ।
न स्पृहा न विरक्तिर्वा क्षीणसंसारसागरे ॥ 17-9॥

न जागर्ति न निद्राति नोन्मीलति न मीलति ।
अहो परदशा क्वापि वर्तते मुक्तचेतसः ॥ 17-10॥

सर्वत्र दृश्यते स्वस्थः सर्वत्र विमलाशयः ।
समस्तवासना मुक्तो मुक्तः सर्वत्र राजते ॥ 17-11॥

पश्यन् श‍ऋण्वन् स्पृशन् जिघ्रन्न् अश्नन्
गृह्णन् वदन् व्रजन् ।
ईहितानीहितैर्मुक्तो मुक्त एव महाशयः ॥ 17-12॥

न निंदति न च स्तौति न हृष्यति न कुप्यति ।
न ददाति न गृह्णाति मुक्तः सर्वत्र नीरसः ॥ 17-13॥

सानुरागां स्त्रियं दृष्ट्वा मृत्युं वा समुपस्थितम् ।
अविह्वलमनाः स्वस्थो मुक्त एव महाशयः ॥ 17-14॥

सुखे दुःखे नरे नार्यां संपत्सु च विपत्सु च ।
विशेषो नैव धीरस्य सर्वत्र समदर्शिनः ॥ 17-15॥

न हिंसा नैव कारुण्यं नौद्धत्यं न च दीनता ।
नाश्चर्यं नैव च क्षोभः क्षीणसंसरणे नरे ॥ 17-16॥

न मुक्तो विषयद्वेष्टा न वा विषयलोलुपः ।
असंसक्तमना नित्यं प्राप्ताप्राप्तमुपाश्नुते ॥ 17-17॥

समाधानासमाधानहिताहितविकल्पनाः ।
शून्यचित्तो न जानाति कैवल्यमिव संस्थितः ॥ 17-18॥

निर्ममो निरहंकारो न किंचिदिति निश्चितः ।
अंतर्गलितसर्वाशः कुर्वन्नपि करोति न ॥ 17-19॥

मनःप्रकाशसंमोहस्वप्नजाड्यविवर्जितः ।
दशां कामपि संप्राप्तो भवेद् गलितमानसः ॥ 17-20॥

ashtavakra gita chapter 17 in marathi

Copy
Give Feedback