Search Results

Search from 23,000+ Stotrams, Mantras & Spiritual Posts

विदुर नीति – उद्योग पर्वम्, अध्यायः 40

Vidura Neethi Udyoga Parvam Chapter 40 in konkani
with lyrics, PDF, meaning, devotional benefits,
chanting guide and complete spiritual content.

vidura neethi udyoga parvam chapter 40 in konkani

॥ इति श्रीमाहाभारते उद्योगपर्वणि प्रजागरपर्वणि विदुरवाक्ये चत्वारिंशोऽध्यायः ॥

विदुर उवाच ।

योऽभ्यर्थितः सद्भिरसज्जमानः
करोत्यर्थं शक्तिमहापयित्वा ।
क्षिप्रं यशस्तं समुपैति संतमलं
प्रसन्ना हि सुखाय संतः ॥ 1॥

महांतमप्यर्थमधर्मयुक्तं
यः संत्यजत्यनुपाक्रुष्ट एव ।
सुखं स दुःखान्यवमुच्य शेते
जीर्णां त्वचं सर्प इवावमुच्य ॥ 2॥

अनृतं च समुत्कर्षे राजगामि च पैशुनम् ।
गुरोश्चालीक निर्बंधः समानि ब्रह्महत्यया ॥ 3॥

असूयैक पदं मृत्युरतिवादः श्रियो वधः ।
अशुश्रूषा त्वरा श्लाघा विद्यायाः शत्रवस्त्रयः ॥ 4॥

सुखार्थिनः कुतो विद्या नास्ति विद्यार्थिनः सुखम् ।
सुखार्थी वा त्यजेद्विद्यां विद्यार्थी वा सुखं त्यजेत् ॥ 5॥

नाग्निस्तृप्यति काष्ठानां नापगानां महोदधिः ।
नांतकः सर्वभूतानां न पुंसां वामलोचना ॥ 6॥

आशा धृतिं हंति समृद्धिमंतकः
क्रोधः श्रियं हंति यशः कदर्यता ।
अपालनं हंति पशूंश्च राजन्न्
एकः क्रुद्धो ब्राह्मणो हंति राष्ट्रम् ॥ 7॥

अजश्च कांस्यं च रथश्च नित्यं
मध्वाकर्षः शकुनिः श्रोत्रियश् च ।
वृद्धो ज्ञातिरवसन्नो वयस्य
एतानि ते संतु गृहे सदैव ॥ 8॥

अजोक्षा चंदनं वीणा आदर्शो मधुसर्पिषी ।
विषमौदुंबरं शंखः स्वर्णं नाभिश्च रोचना ॥ 9॥

गृहे स्थापयितव्यानि धन्यानि मनुरब्रवीत् ।
देव ब्राह्मण पूजार्थमतिथीनां च भारत ॥ 10॥

इदं च त्वां सर्वपरं ब्रवीमि
पुण्यं पदं तात महाविशिष्टम् ।
न जातु कामान्न भयान्न लोभाद्
धर्मं त्यजेज्जीवितस्यापि हेतोः ॥ 11॥

नित्यो धर्मः सुखदुःखे त्वनित्ये
नित्यो जीवो धातुरस्य त्वनित्यः ।
त्यक्त्वानित्यं प्रतितिष्ठस्व नित्ये
संतुष्य त्वं तोष परो हि लाभः ॥ 12॥

महाबलान्पश्य मनानुभावान्
प्रशास्य भूमिं धनधान्य पूर्णाम् ।
राज्यानि हित्वा विपुलांश्च भोगान्
गतान्नरेंद्रान्वशमंतकस्य ॥ 13॥

मृतं पुत्रं दुःखपुष्टं मनुष्या
उत्क्षिप्य राजन्स्वगृहान्निर्हरंति ।
तं मुक्तकेशाः करुणं रुदंतश्
चितामध्ये काष्ठमिव क्षिपंति ॥ 14॥

अन्यो धनं प्रेतगतस्य भुंक्ते
वयांसि चाग्निश्च शरीरधातून् ।
द्वाभ्यामयं सह गच्छत्यमुत्र
पुण्येन पापेन च वेष्ट्यमानः ॥ 15॥

उत्सृज्य विनिवर्तंते ज्ञातयः सुहृदः सुताः ।
अग्नौ प्रास्तं तु पुरुषं कर्मान्वेति स्वयं कृतम् ॥ 16॥

अस्माल्लोकादूर्ध्वममुष्य चाधो
महत्तमस्तिष्ठति ह्यंधकारम् ।
तद्वै महामोहनमिंद्रियाणां
बुध्यस्व मा त्वां प्रलभेत राजन् ॥ 17॥

इदं वचः शक्ष्यसि चेद्यथावन्
निशम्य सर्वं प्रतिपत्तुमेवम् ।
यशः परं प्राप्स्यसि जीवलोके
भयं न चामुत्र न चेह तेऽस्ति ॥ 18॥

आत्मा नदी भारत पुण्यतीर्था
सत्योदका धृतिकूला दमोर्मिः ।
तस्यां स्नातः पूयते पुण्यकर्मा
पुण्यो ह्यात्मा नित्यमंभोऽंभ एव ॥ 19॥

कामक्रोधग्राहवतीं पंचेंद्रिय जलां नदीम् ।
कृत्वा धृतिमयीं नावं जन्म दुर्गाणि संतर ॥ 20॥

प्रज्ञा वृद्धं धर्मवृद्धं स्वबंधुं
विद्या वृद्धं वयसा चापि वृद्धम् ।
कार्याकार्ये पूजयित्वा प्रसाद्य
यः संपृच्छेन्न स मुह्येत्कदा चित् ॥ 21॥

धृत्या शिश्नोदरं रक्षेत्पाणिपादं च चक्षुषा ।
चक्षुः श्रोत्रे च मनसा मनो वाचं च कर्मणा ॥ 22॥

नित्योदकी नित्ययज्ञोपवीती
नित्यस्वाध्यायी पतितान्न वर्जी ।
ऋतं ब्रुवन्गुरवे कर्म कुर्वन्
न ब्राह्मणश्च्यवते ब्रह्मलोकात् ॥ 23॥

अधीत्य वेदान्परिसंस्तीर्य चाग्नीन्
इष्ट्वा यज्ञैः पालयित्वा प्रजाश् च ।
गोब्राह्मणार्थे शस्त्रपूतांतरात्मा
हतः संग्रामे क्षत्रियः स्वर्गमेति ॥ 24॥

वैश्योऽधीत्य ब्राह्मणान्क्षत्रियांश् च
धनैः काले संविभज्याश्रितांश् च ।
त्रेता पूतं धूममाघ्राय पुण्यं
प्रेत्य स्वर्गे देव सुखानि भुंक्ते ॥ 25॥

ब्रह्मक्षत्रं वैश्य वर्णं च शूद्रः
क्रमेणैतान्न्यायतः पूजयानः ।
तुष्टेष्वेतेष्वव्यथो दग्धपापस्
त्यक्त्वा देहं स्वर्गसुखानि भुंक्ते ॥ 26॥

चातुर्वर्ण्यस्यैष धर्मस्तवोक्तो
हेतुं चात्र ब्रुवतो मे निबोध ।
क्षात्राद्धर्माद्धीयते पांडुपुत्रस्
तं त्वं राजन्राजधर्मे नियुंक्ष्व ॥ 27॥

धृतराष्ट्र उवाच ।

एवमेतद्यथा मां त्वमनुशासति नित्यदा ।
ममापि च मतिः सौम्य भवत्येवं यथात्थ माम् ॥ 28॥

सा तु बुद्दिः कृताप्येवं पांडवान्रप्ति मे सदा ।
दुर्योधनं समासाद्य पुनर्विपरिवर्तते ॥ 29॥

न दिष्टमभ्यतिक्रांतुं शक्यं मर्त्येन केन चित् ।
दिष्टमेव कृतं मन्ये पौरुषं तु निरर्थकम् ॥ 30॥

॥ इति श्रीमाहाभारते उद्योगपर्वणि प्रजागरपर्वणि विदुरवाक्ये चत्वारिंशोऽध्यायः ॥ 40॥

इति विदुर नीति समाप्ता ॥

vidura neethi udyoga parvam chapter 40 in konkani

Copy
Give Feedback