Search Results

Search from 23,000+ Stotrams, Mantras & Spiritual Posts

प्रश्नोपनिषद् – त्रितीयः प्रश्नः

Prashnopanishad Question 3 in konkani
with lyrics, PDF, meaning, devotional benefits,
chanting guide and complete spiritual content.

prashnopanishad question 3 in konkani

तृतीयः प्रश्नः

अथ हैनं कौशल्यश्चाश्वलायनः पप्रच्छ।
भगवन्‌ कुत एष प्राणो जायते कथमायात्यस्मिञ्शरीर आत्मानं-वाँ प्रविभज्य कथं प्रतिष्ठते केनोत्क्रमते कथं बह्यमभिधते कथमध्यात्ममिति ॥1॥

तस्मै स होवाचातिप्रश्चान्‌ पृच्छसि ब्रह्मिष्ठोऽसीति तस्मात्तेऽहं ब्रवीमि ॥2॥

आत्मन एष प्राणो जायते यथैषा पुरुषे छायैतस्मिन्नेतदाततं मनोकृतेनायात्यस्मिञ्शरीरे ॥3॥

यथा सम्रादेवाधिकृतान्‌ विनियुंक्ते।
एतन्‌ ग्रामानोतान्‌ ग्रामानधितिष्ठस्वेत्येवमेवैष प्राण इतरान्‌ प्राणान्‌ पृथक्‌पृथगेव सन्निधत्ते ॥4॥

पायूपस्थेऽपानं चक्षुःश्रोत्रे मुखनासिकाभ्यां प्राणः स्वयं प्रातिष्ठते मध्ये तु समानः।
एष ह्येतद्धुतमन्नं समं नयति तस्मादेताः सप्तार्चिषो भवंति ॥5॥

हृदि ह्येष आत्मा।
अत्रैतदेकशतं नाडीनां तासां शतं शतमेकैकस्यां द्वासप्ततिर्द्वासप्ततिः प्रतिशाखानाडीसहस्राणि भवंत्यासु व्यानश्चरति ॥6॥

अथैकयोर्ध्व उदानः पुण्येन पुण्यं-लोँकं नयति।
पापेन पापमुभाभ्यामेव मनुष्यलोकम्‌ ॥7॥

आदित्यो ह वै बाह्यः प्राण उदयत्येष ह्येनं चाक्षुषं प्राणमनुगृह्णानः।
पृथिव्यां-याँ देवता सैषा पुरुषस्यापानमवष्टभ्यांतरा यदाकाशः स समानो वायुर्व्यानः ॥8॥

तेजो ह वाव उदानस्तस्मादुपशांततेजाः पुनर्भवमिंद्रियैर्मनसि संपद्यमानैः ॥9॥

यच्चित्तस्तेनैष प्राणमायाति प्राणस्तेजसा युक्तः।
सहात्मना यथासंकल्पितं-लोँकं नयति ॥10॥

य एवं-विँद्वान्‌ प्राणं-वेँद।
न हास्य प्रजा हीयतेऽमृतो भवति तदेषः श्लोकः ॥11॥

उत्पत्तिमायतिं स्थानं-विँभुत्वं चैव पंचधा।
अध्यात्मं चैव प्राणस्य विज्ञायामृतमश्नुते विज्ञायामृतमश्नुत इति ॥12॥

prashnopanishad question 3 in konkani

Copy
Give Feedback