Search Results

Search from 23,000+ Stotrams, Mantras & Spiritual Posts

प्रश्नोपनिषद् – द्वितीयः प्रश्नः

Prashnopanishad Question 2 in konkani
with lyrics, PDF, meaning, devotional benefits,
chanting guide and complete spiritual content.

prashnopanishad question 2 in konkani

द्वितीयः प्रश्नः

अथ हैनं भार्गवो वैदर्भिः पप्रच्छ।
भगवन्‌ कत्येव देवाः प्रजां-विँधारयंते कतर एतत्प्रकाशयंते कः पुनरेषां-वँरिष्ठः इति ॥1॥

तस्मै स होवाचाकाशो ह वा एष देवो वायुरग्निरापः पृथिवी वाङ्मनश्चक्षुः श्रोत्रं च।
ते प्रकाश्याभिवदंति वयमेतद्बाणमवष्टभ्य विधारयामः ॥2॥

तान्‌ वरिष्ठः प्राण उवाच।
मा मोहमापद्यथ अहमेवैतत्पंचधात्मानं प्रविभज्यैतद्बाणमवष्टभ्य विधारयामीति तेऽश्रद्दधाना बभूवुः ॥3॥

सोऽभिमानादूर्ध्वमुत्क्रामत इव तस्मिन्नुत्क्रामत्यथेतरे सर्व एवोत्क्रामंते तस्मिंश्च प्रतिष्ठमाने सर्व एव प्रतिष्ठंते।
तद्यथा मक्षिका मधुकरराजानमुत्क्रामंतं सर्व एवोत्क्रामंते तस्मिंश्च प्रतिष्ठमाने सर्व एव प्रतिष्टंत एवम्‌ वाङ्मनष्चक्षुः श्रोत्रं च ते प्रीताः प्राणं स्तुन्वंति ॥4॥

एषोऽग्निस्तपत्येष सूर्य एष पर्जन्यो मघवानेष वायुः।
एष पृथिवी रयिर्देवः सदसच्चामृतं च यत्‌ ॥5॥

अरा इव रथनाभौ प्राणे सर्वं प्रतिष्ठितम्‌।
ऋचो यजूषि सामानि यज्ञः क्षत्रं ब्रह्म च ॥6॥

प्रजापतिश्चरसि गर्भे त्वमेव प्रतिजायसे।
तुभ्यं प्राण प्रजास्त्विमा बलिं हरंति यः प्राणैः प्रतितिष्ठसि ॥7॥

देवानामसि वह्नितमः पितृणां प्रथमा स्वधा।
ऋषीणां चरितं सत्यमथर्वांगिरसामसि ॥8॥

इंद्रस्त्वं प्राण तेजसा रुद्रोऽसि परिरक्षिता।
त्वमंतरिक्षे चरसि सूर्यस्त्वं ज्योतिषां पतिः ॥9॥

यदा त्वमभिवर्​षस्यथेमाः प्राण ते प्रजाः।
आनंदरूपास्तिष्ठंति कामायान्नं भविष्यतीति ॥10॥

व्रात्यस्त्वं प्राणैकर्​षरत्ता विश्वस्य सत्पतिः।
वयमाद्यस्य दातारः पिता त्वं मातरिश्व नः ॥11॥

या ते तनूर्वाचि प्रतिष्ठिता या श्रोत्रे या च चक्षुषि।
या च मनसि संतता शिवां तां कुरू मोत्क्रमीः ॥12॥

प्राणस्येदं-वँशे सर्वं त्रिदिवे यत्‌ प्रतिष्ठितम्‌।
मातेव पुत्रान्‌ रक्षस्व श्रीश्च प्रज्ञां च विधेहि न इति ॥13॥

prashnopanishad question 2 in konkani

Copy
Give Feedback