Suryashtakam in hindi
with lyrics, PDF, meaning, devotional benefits,
chanting guide and complete spiritual content.
suryashtakam in hindi
आदिदेव नमस्तुभ्यं प्रसीद मभास्कर
दिवाकर नमस्तुभ्यं प्रभाकर नमोस्तुते
सप्ताश्व रध मारूढं प्रचंडं कश्यपात्मजं
श्वेत पद्मधरं देवं तं सूर्यं प्रणमाम्यहं
लोहितं रधमारूढं सर्व लोक पितामहं
महा पाप हरं देवं तं सूर्यं प्रणमाम्यहं
त्रैगुण्यं च महाशूरं ब्रह्म विष्णु महेश्वरं
महा पाप हरं देवं तं सूर्यं प्रणमाम्यहं
बृंहितं तेजसां पुंजं [तेजपूज्यं च] वायु माकाश मेव च
प्रभुं च सर्वलोकानां तं सूर्यं प्रणमाम्यहं
बंधूक पुष्पसंकाशं हार कुंडल भूषितं
एक चक्रधरं देवं तं सूर्यं प्रणमाम्यहं
विश्वेशं विश्व कर्तारं महातेजः प्रदीपनं
महा पाप हरं देवं तं सूर्यं प्रणमाम्यहं
तं सूर्यं जगतां नाधं ज्नान विज्नान मोक्षदं
महा पाप हरं देवं तं सूर्यं प्रणमाम्यहं
सूर्याष्टकं पठेन्नित्यं ग्रहपीडा प्रणाशनं
अपुत्रो लभते पुत्रं दरिद्रो धनवान् भवेत्
आमिषं मधुपानं च यः करोति रवेर्धिने
सप्त जन्म भवेद्रोगी जन्म कर्म दरिद्रता
स्त्री तैल मधु मांसानि हस्त्यजेत्तु रवेर्धिने
न व्याधि शोक दारिद्र्यं सूर्यलोकं स गच्छति
इति श्री शिवप्रोक्तं श्री सूर्याष्टकं संपूर्णं
suryashtakam in hindi
Leave a Comment