Search Results

Search from 23,000+ Stotrams, Mantras & Spiritual Posts

श्री वेंकटेश्वर अष्टोत्तरशत नामस्तोत्रम्

Sri Venkateswara Ashtottara Sata Nama Stotram in hindi
with lyrics, PDF, meaning, devotional benefits,
chanting guide and complete spiritual content.

sri venkateswara ashtottara sata nama stotram in hindi

ॐ श्रीवेंकटेशः श्रीवासो लक्ष्मी पतिरनामयः ।
अमृतांशो जगद्वंद्यो गोविंद श्शाश्वतः प्रभुः ॥ 1 ॥

शेषाद्रिनिलयो देवः केशवो मधुसूदनः
अमृतो माधवः कृष्णः श्रीहरिर् ज्ञानपंजरः ॥ 2 ॥

श्रीवत्सवक्षाः सर्वेशो गोपालः पुरुषोत्तमः ।
गोपीश्वरः परंज्योति-र्वैकुंठपति-रव्ययः ॥ 3 ॥

सुधातनु-र्यादवेंद्रो नित्ययौवनरूपवान्‌ ।
चतुर्वेदात्मको विष्णु-रच्युतः पद्मिनीप्रियः ॥ 4 ॥

धरापति-स्सुरपति-र्निर्मलो देव पूजितः ।
चतुर्भुज-श्चक्रधर-स्त्रिधामा त्रिगुणाश्रयः ॥ 5 ॥

निर्विकल्पो निष्कलंको निरांतको निरंजनः ।
निराभासो नित्यतृप्तो निर्गुणो निरुपद्रवः ॥ 6 ॥

गदाधर-श्शार्ङ्गपाणि-र्नंदकी शंखधारकः ।
अनेकमूर्ति-रव्यक्तः कटिहस्तो वरप्रदः ॥ 7 ॥

अनेकात्मा दीनबंधु-रार्तलोकाभयप्रदः ।
आकाशराजवरदो योगिहृत्पद्ममंदिरः ॥ 8 ॥

दामोदरो जगत्पालः पापघ्नो भक्तवत्सलः ।
त्रिविक्रम-श्शिंशुमारो जटामकुटशोभितः ॥ 9 ॥

शंखमध्योल्लसन्मंजु किंकिणाढ्यकरंढकः ।
नीलमेघश्यामतनु-र्बिल्वपत्रार्चनप्रियः ॥ 10 ॥

जगद्व्यापी जगत्कर्ता जगत्साक्षी जगत्पतिः ।
चिंतितार्थप्रदो जिष्णु-र्दाशार्हो दशरूपवान्‌ ॥ 11 ॥

देवकीनंदन-श्शौरि-र्हयग्रीवो जनार्दनः ।
कन्याश्रवणतारेज्यः पीतांबरधरोऽनघः ॥ 12 ॥

वनमाली पद्मनाभो मृगयासक्त मानसः ।
अश्वारूढः खड्गधारी धनार्जन समुत्सुकः ॥ 13 ॥

घनसारलसन्मध्य कस्तूरी तिलकोज्ज्वलः ।
सच्चिदानंदरूपश्च जगन्मंगलदायकः ॥ 14 ॥

यज्ञरूपो यज्ञभोक्ता चिन्मयः परमेश्वरः ।
परमार्थप्रदः शांतः श्रीमान्‌ दोर्दंडविक्रमः ॥ 15 ॥

परात्परः परंब्रह्म श्रीविभु-र्जगदीश्वरः ।
एवं श्रीवेंकटेशस्य नाम्ना-मष्टोत्तरं शतम् ॥

पठतां शृण्वतां भक्त्या सर्वाभीष्टप्रदं शुभम् ।
त्रिसंध्यं यः पघेन्निष्यं सर्वान्‌ कामिवाप्नु यात्‌ ॥

॥ श्री वेंकटेश्वरार्पणमस्तु ॥

sri venkateswara ashtottara sata nama stotram in hindi

Copy
Give Feedback