Search Results

Search from 23,000+ Stotrams, Mantras & Spiritual Posts

श्री राधा कृपा कटाक्ष स्तोत्रम्

Sri Radha Kripa Kataksha Stotram in hindi
with lyrics, PDF, meaning, devotional benefits,
chanting guide and complete spiritual content.

sri radha kripa kataksha stotram in hindi

मुनींद्र–वृंद–वंदिते त्रिलोक–शोक–हारिणि
प्रसन्न-वक्त्र-पण्कजे निकुंज-भू-विलासिनि
व्रजेंद्र–भानु–नंदिनि व्रजेंद्र–सूनु–संगते
कदा करिष्यसीह मां कृपाकटाक्ष–भाजनम् ॥1॥

अशोक–वृक्ष–वल्लरी वितान–मंडप–स्थिते
प्रवालबाल–पल्लव प्रभारुणांघ्रि–कोमले ।
वराभयस्फुरत्करे प्रभूतसंपदालये
कदा करिष्यसीह मां कृपाकटाक्ष–भाजनम् ॥2॥

अनंग-रण्ग मंगल-प्रसंग-भंगुर-भ्रुवां
सविभ्रमं ससंभ्रमं दृगंत–बाणपातनैः ।
निरंतरं वशीकृतप्रतीतनंदनंदने
कदा करिष्यसीह मां कृपाकटाक्ष–भाजनम् ॥3॥

तडित्–सुवर्ण–चंपक –प्रदीप्त–गौर–विग्रहे
मुख–प्रभा–परास्त–कोटि–शारदेंदुमंडले ।
विचित्र-चित्र संचरच्चकोर-शाव-लोचने
कदा करिष्यसीह मां कृपाकटाक्ष–भाजनम् ॥4॥

मदोन्मदाति–यौवने प्रमोद–मान–मंडिते
प्रियानुराग–रंजिते कला–विलास – पंडिते ।
अनन्यधन्य–कुंजराज्य–कामकेलि–कोविदे
कदा करिष्यसीह मां कृपाकटाक्ष–भाजनम् ॥5॥

अशेष–हावभाव–धीरहीरहार–भूषिते
प्रभूतशातकुंभ–कुंभकुंभि–कुंभसुस्तनि ।
प्रशस्तमंद–हास्यचूर्ण पूर्णसौख्य –सागरे
कदा करिष्यसीह मां कृपाकटाक्ष–भाजनम् ॥6॥

मृणाल-वाल-वल्लरी तरंग-रंग-दोर्लते
लताग्र–लास्य–लोल–नील–लोचनावलोकने ।
ललल्लुलन्मिलन्मनोज्ञ–मुग्ध–मोहिनाश्रिते
कदा करिष्यसीह मां कृपाकटाक्ष–भाजनम् ॥7॥

सुवर्णमलिकांचित –त्रिरेख–कंबु–कंठगे
त्रिसूत्र–मंगली-गुण–त्रिरत्न-दीप्ति–दीधिते ।
सलोल–नीलकुंतल–प्रसून–गुच्छ–गुंफिते
कदा करिष्यसीह मां कृपाकटाक्ष–भाजनम् ॥8॥

नितंब–बिंब–लंबमान–पुष्पमेखलागुणे
प्रशस्तरत्न-किंकिणी-कलाप-मध्य मंजुले ।
करींद्र–शुंडदंडिका–वरोहसौभगोरुके
कदा करिष्यसीह मां कृपाकटाक्ष–भाजनम् ॥9॥

अनेक–मंत्रनाद–मंजु नूपुरारव–स्खलत्
समाज–राजहंस–वंश–निक्वणाति–गौरवे ।
विलोलहेम–वल्लरी–विडंबिचारु–चंक्रमे
कदा करिष्यसीह मां कृपाकटाक्ष–भाजनम् ॥10॥

अनंत–कोटि–विष्णुलोक–नम्र–पद्मजार्चिते
हिमाद्रिजा–पुलोमजा–विरिंचजा-वरप्रदे ।
अपार–सिद्धि–ऋद्धि–दिग्ध–सत्पदांगुली-नखे
कदा करिष्यसीह मां कृपाकटाक्ष–भाजनम् ॥11॥

मखेश्वरि क्रियेश्वरि स्वधेश्वरि सुरेश्वरि
त्रिवेद–भारतीश्वरि प्रमाण–शासनेश्वरि ।
रमेश्वरि क्षमेश्वरि प्रमोद–काननेश्वरि
व्रजेश्वरि व्रजाधिपे श्रीराधिके नमोस्तुते ॥12॥

इती ममद्भुतं-स्तवं निशम्य भानुनंदिनी
करोतु संततं जनं कृपाकटाक्ष-भाजनम् ।
भवेत्तदैव संचित त्रिरूप–कर्म नाशनं
लभेत्तदा व्रजेंद्र–सूनु–मंडल–प्रवेशनम् ॥13॥

राकायां च सिताष्टम्यां दशम्यां च विशुद्धधीः ।
एकादश्यां त्रयोदश्यां यः पठेत्साधकः सुधीः ॥14॥

यं यं कामयते कामं तं तमाप्नोति साधकः ।
राधाकृपाकटाक्षेण भक्तिःस्यात् प्रेमलक्षणा ॥15॥

ऊरुदघ्ने नाभिदघ्ने हृद्दघ्ने कंठदघ्नके ।
राधाकुंडजले स्थिता यः पठेत् साधकः शतम् ॥16॥

तस्य सर्वार्थ सिद्धिः स्याद् वाक्सामर्थ्यं तथा लभेत् ।
ऐश्वर्यं च लभेत् साक्षाद्दृशा पश्यति राधिकाम् ॥17॥

तेन स तत्क्षणादेव तुष्टा दत्ते महावरम् ।
येन पश्यति नेत्राभ्यां तत् प्रियं श्यामसुंदरम् ॥18॥

नित्यलीला–प्रवेशं च ददाति श्री-व्रजाधिपः ।
अतः परतरं प्रार्थ्यं वैष्णवस्य न विद्यते ॥19॥

॥ इति श्रीमदूर्ध्वाम्नाये श्रीराधिकायाः कृपाकटाक्षस्तोत्रं संपूर्णम् ॥

sri radha kripa kataksha stotram in hindi

Copy
Give Feedback