Sri Lalitha Mula Mantra Kavacham in hindi
with lyrics, PDF, meaning, devotional benefits,
chanting guide and complete spiritual content.
sri lalitha mula mantra kavacham in hindi
अस्य श्रीललिता कवच स्तवरत्न मंत्रस्य, आनंदभैरव ऋषिः, अमृतविराट् छंदः, श्री महात्रिपुरसुंदरी ललितापरांबा देवता ऐं बीजं ह्रीं शक्तिः श्रीं कीलकं, मम श्री ललितांबा प्रसादसिद्ध्यर्थे श्री ललिता कवचस्तवरत्न मंत्र जपे विनियोगः ।
करन्यासः ।
ऐं अंगुष्ठाभ्यां नमः ।
ह्रीं तर्जनीभ्यां नमः ।
श्रीं मध्यमाभ्यां नमः ।
श्रीं अनामिकाभ्यां नमः ।
ह्रीं कनिष्ठिकाभ्यां नमः ।
ऐं करतलकरपृष्ठाभ्यां नमः ।
अंगन्यासः ।
ऐं हृदयाय नमः ।
ह्रीं शिरसे स्वाहा ।
श्रीं शिखायै वषट् ।
श्रीं कवचाय हुम् ।
ह्रीं नेत्रत्रयाय वौषट् ।
ऐं अस्त्राय फट् ।
भूर्भुवस्सुवरोमिति दिग्बंधः ।
ध्यानम् –
श्रीविद्यां परिपूर्णमेरुशिखरे बिंदुत्रिकोणेस्थितां
वागीशादि समस्तभूतजननीं मंचे शिवाकारके ।
कामाक्षीं करुणारसार्णवमयीं कामेश्वरांकस्थितां
कांतां चिन्मयकामकोटिनिलयां श्रीब्रह्मविद्यां भजे ॥ 1 ॥
लमित्यादि पंचपूजां कुर्यात् ।
लं – पृथ्वीतत्त्वात्मिकायै श्रीललितादेव्यै गंधं समर्पयामि ।
हं – आकाशतत्त्वात्मिकायै श्रीललितादेव्यै पुष्पं समर्पयामि ।
यं – वायुतत्त्वात्मिकायै श्री ललितादेव्यै धूपं समर्पयामि ।
रं – वह्नितत्त्वात्मिकायै श्री ललितादेव्यै दीपं समर्पयामि ।
वं – अमृततत्त्वात्मिकायै श्री ललितादेव्यै अमृतनैवेद्यं समर्पयामि ।
पंचपूजां कृत्वा योनिमुद्रां प्रदर्श्य ।
अथ कवचम् ।
ककारः पातु शीर्षं मे एकारः पातु फालकम् ।
ईकारश्चक्षुषी पातु श्रोत्रे रक्षेल्लकारकः ॥ 2 ॥
ह्रींकारः पातु नासाग्रं वक्त्रं वाग्भवसंज्ञिकः ।
हकारः पातु कंठं मे सकारः स्कंधदेशकम् ॥ 3 ॥
ककारो हृदयं पातु हकारो जठरं तथा ।
लकारो नाभिदेशं तु ह्रींकारः पातु गुह्यकम् ॥ 4 ॥
कामकूटः सदा पातु कटिदेशं ममावतु ।
सकारः पातु चोरू मे ककारः पातु जानुनी ॥ 5 ॥
लकारः पातु जंघे मे ह्रींकारः पातु गुल्फकौ ।
शक्तिकूटं सदा पातु पादौ रक्षतु सर्वदा ॥ 6 ॥
मूलमंत्रकृतं चैतत्कवचं यो जपेन्नरः ।
प्रत्यहं नियतः प्रातस्तस्य लोका वशंवदाः ॥ 7 ॥
उत्तरन्यासः ।
करन्यासः –
ऐं अंगुष्ठाभ्यां नमः ।
ह्रीं तर्जनीभ्यां नमः ।
श्रीं मध्यमाभ्यां नमः ।
श्रीं अनामिकाभ्यां नमः ।
ह्रीं कनिष्ठिकाभ्यां नमः ।
ऐं करतलकरपृष्ठाभ्यां नमः ।
अंगन्यासः ।
ऐं हृदयाय नमः ।
ह्रीं शिरसे स्वाहा ।
श्रीं शिखायै वषट् ।
श्रीं कवचाय हुम् ।
ह्रीं नेत्रत्रयाय वौषट् ।
ऐं अस्त्राय फट् ।
भूर्भुवस्सुवरोमिति दिग्विमोकः ।
इति ब्रह्मकृत श्री ललिता मूलमंत्र कवचम् ।
sri lalitha mula mantra kavacham in hindi
Leave a Comment