Search Results

Search from 23,000+ Stotrams, Mantras & Spiritual Posts

श्री दुर्गा चंद्रकला स्तुति

Sri Durga Chandrakala Stuti in hindi
with lyrics, PDF, meaning, devotional benefits,
chanting guide and complete spiritual content.

sri durga chandrakala stuti in hindi

ध्यानम्
उमाकांते रमाकांते एषामासी-न्मतिस्समा ।
नमामि दीक्षितेंद्रां स्तान् नयषट्क-विशारदाम् ॥

वेधोहरीश्वरस्तुत्यां विहर्त्रीं विंध्यभूधरे ।
हरप्राणेश्वरीं वंदे हंत्रीं विबुधविद्विषाम् ॥ 1 ॥

अभ्यर्थनेन सरसीरुहसंभवस्य
त्यक्त्वोदिता भगवदक्षिपिधानलीलाम् ।
विश्वेश्वरी विपदपाकरणे पुरस्तात्
माता ममास्तु मधुकैटभयोर्निहंत्री ॥ 2 ॥

प्राङ्निर्जरेषु निहतैर्निजशक्तिलेशैः
एकीभवद्भिरुदिताऽखिललोकगुप्त्यै ।
संपन्नशस्त्रनिकरा च तदायुधस्थैः
माता ममास्तु महिषांतकरी पुरस्तात् ॥ 3 ॥

प्रालेयशैलतनया तनुकांतिसंपत्
कोशोदिता कुवलयच्छविचारुदेहा ।
नारायणी नमदभीप्सितकल्पवल्ली
सुप्रीतिमावहतु शुंभनिशुंभहंत्री ॥ 4 ॥

विश्वेश्वरीति महिषांतकरीति यस्याः
नारायणीत्यपि च नामभिरंकितानि ।
सूक्तानि पंकजभुवा च सुरर्षिभिश्च
दृष्टानि पावकमुखैश्च शिवां भजे ताम् ॥ 5 ॥

उत्पत्तिदैत्यहननस्तवनात्मकानि
संरक्षकाण्यखिलभूतहिताय यस्याः ।
सूक्तान्यशेषनिगमांतविदः पठंति
तां विश्वमातरमजस्रमभिष्टवीमि ॥ 6 ॥

ये वैप्रचित्तपुनरुत्थितशुंभमुख्यैः
दुर्भिक्षघोरसमयेन च कारितासु ।
आविष्कृतास्त्रिजगदार्तिषु रूपभेदाः
तैरंबिका समभिरक्षतु मां विपद्भ्यः ॥ 7 ॥

सूक्तं यदीयमरविंदभवादि दृष्टं
आवर्त्य देव्यनुपदं सुरथः समाधिः ।
द्वावप्यवापतुरभीष्टमनन्यलभ्यं
तामादिदेवतरुणीं प्रणमामि मूर्ध्ना ॥ 8 ॥

माहिष्मतीतनुभवं च रुरुं च हंतुं
आविष्कृतैर्निजरसादवतारभेदैः ।
अष्टादशाहतनवाहतकोटिसंख्यैः
अंबा सदा समभिरक्षतु मां विपद्भ्यः ॥ 9 ॥

एतच्चरित्रमखिलं लिखितं हि यस्याः
संपूजितं सदन एव निवेशितं वा ।
दुर्गं च तारयति दुस्तरमप्यशेषं
श्रेयः प्रयच्छति च सर्वमुमां भजे ताम् ॥ 10 ॥

यत्पूजनस्तुतिनमस्कृतिभिर्भवंति
प्रीताः पितामहरमेशहरास्त्रयोऽपि ।
तेषामपि स्वकगुणैर्ददती वपूंषि
तामीश्वरस्य तरुणीं शरणं प्रपद्ये ॥ 11 ॥

कांतारमध्यदृढलग्नतयाऽवसन्नाः
मग्नाश्च वारिधिजले रिपुभिश्च रुद्धाः ।
यस्याः प्रपद्य चरणौ विपदस्तरंति
सा मे सदाऽस्तु हृदि सर्वजगत्सवित्री ॥ 12 ॥

बंधे वधे महति मृत्युभये प्रसक्ते
वित्तक्षये च विविधे य महोपतापे ।
यत्पादपूजनमिह प्रतिकारमाहुः
सा मे समस्तजननी शरणं भवानी ॥ 13 ॥

बाणासुरप्रहितपन्नगबंधमोक्षः
तद्बाहुदर्पदलनादुषया च योगः ।
प्राद्युम्निना द्रुतमलभ्यत यत्प्रसादात्
सा मे शिवा सकलमप्यशुभं क्षिणोतु ॥ 14 ॥

पापः पुलस्त्यतनयः पुनरुत्थितो मां
अद्यापि हर्तुमयमागत इत्युदीतम् ।
यत्सेवनेन भयमिंदिरयाऽवधूतं
तामादिदेवतरुणीं शरणं गतोऽस्मि ॥ 15 ॥

यद्ध्यानजं सुखमवाप्यमनंतपुण्यैः
साक्षात्तमच्युत परिग्रहमाश्ववापुः ।
गोपांगनाः किल यदर्चनपुण्यमात्राः
सा मे सदा भगवती भवतु प्रसन्ना ॥ 16 ॥

रात्रिं प्रपद्य इति मंत्रविदः प्रपन्नान्
उद्बोध्य मृत्युवधिमन्यफलैः प्रलोभ्य ।
बुद्ध्वा च तद्विमुखतां प्रतनं नयंतीं
आकाशमादिजननीं जगतां भजे ताम् ॥ 17 ॥

देशकालेषु दुष्टेषु दुर्गाचंद्रकलास्तुतिः ।
संध्ययोरनुसंधेया सर्वापद्विनिवृत्तये ॥ 18 ॥

इति श्रीमदपय्यदीक्षितविरचिता दुर्गाचंद्रकलास्तुतिः ॥

sri durga chandrakala stuti in hindi

Copy
Give Feedback