Search Results

Search from 23,000+ Stotrams, Mantras & Spiritual Posts

शिव अष्टोत्तर शत नाम स्तोत्रम्

Shiva Ashtottara Sata Nama Stotram in hindi
with lyrics, PDF, meaning, devotional benefits,
chanting guide and complete spiritual content.

shiva ashtottara sata nama stotram in hindi

शिवो महेश्वर-श्शंभुः पिनाकी शशिशेखरः
वामदेवो विरूपाक्षः कपर्दी नीललोहितः ॥ 1 ॥

शंकर-श्शूलपाणिश्च खट्वांगी विष्णुवल्लभः
शिपिविष्टोऽंबिकानाथः श्रीकंठो भक्तवत्सलः ॥ 2 ॥

भव-श्शर्व-स्त्रिलोकेशः शितिकंठः शिवाप्रियः
उग्रः कपाली कामारि रंधकासुरसूदनः ॥ 3 ॥

गंगाधरो ललाटाक्षः कालकालः कृपानिधिः
भीमः परशुहस्तश्च मृगपाणि-र्जटाधरः ॥ 4 ॥

कैलासवासी कवची कठोर-स्त्रिपुरांतकः
वृषांको वृषभारूढो भस्मोद्धूलितविग्रहः ॥ 5 ॥

सामप्रिय-स्स्वरमय-स्त्रयीमूर्ति-रनीश्वरः
सर्वज्ञः परमात्मा च सोमसूर्याग्निलोचनः ॥ 6 ॥

हवि-र्यज्ञमय-स्सोमः पंचवक्त्र-स्सदाशिवः
विश्वेश्वरो वीरभद्रो गणनाथः प्रजापतिः ॥ 7 ॥

हिरण्यरेता दुर्धर्षो गिरीशो गिरिशोऽनघः
भुजंगभूषणो भर्गो गिरिधन्वा गिरिप्रियः ॥ 8 ॥

कृत्तिवासाः पुराराति-र्भगवान् प्रमथाधिपः
मृत्युंजय-स्सूक्ष्मतनु-र्जगद्व्यापी जगद्गुरुः ॥ 9 ॥

व्योमकेशो महासेनजनक-श्चारुविक्रमः
रुद्रो भूतपतिः स्थाणु-रहिर्भुध्न्यो दिगंबरः ॥ 10 ॥

अष्टमूर्ति-रनेकात्मा सात्त्विक-श्शुद्धविग्रहः
शाश्वतः खंडपरशु-रजः पाशविमोचकः ॥ 11 ॥

मृडः पशुपति-र्देवो महादेवोऽव्ययो हरिः
पूषदंतभि-दव्यग्रो दक्षाध्वरहरो हरः ॥ 12 ॥

भगनेत्रभि-दव्यक्तो सहस्राक्ष-स्सहस्रपात्
अपवर्गप्रदोऽनंत-स्तारकः परमेश्वरः ॥ 13 ॥

एवं श्री शंभुदेवस्य नाम्नामष्टोत्तरं शतम् ॥

इति श्री शिवाष्टोत्तरशतनामस्तोत्ररत्नं समाप्तम् ।

shiva ashtottara sata nama stotram in hindi

Copy
Give Feedback