Search Results

Search from 23,000+ Stotrams, Mantras & Spiritual Posts

सरस्वती स्तोत्रम् (याज्ञवल्क्य कृतम्)

Saraswati Stotram Yagnavalkya Krutam in hindi
with lyrics, PDF, meaning, devotional benefits,
chanting guide and complete spiritual content.

saraswati stotram yagnavalkya krutam in hindi

नारायण उवाच ।
वाग्देवतायाः स्तवनं श्रूयतां सर्वकामदम् ।
महामुनिर्याज्ञवल्क्यो येन तुष्टाव तां पुरा ॥ 1 ॥

गुरुशापाच्च स मुनिर्हतविद्यो बभूव ह ।
तदा जगाम दुःखार्तो रविस्थानं च पुण्यदम् ॥ 2 ॥

संप्राप्यतपसा सूर्यं कोणार्के दृष्टिगोचरे ।
तुष्टाव सूर्यं शोकेन रुरोद च पुनः पुनः ॥ 3 ॥

सूर्यस्तं पाठयामास वेदवेदांगमीश्वरः ।
उवाच स्तुहि वाग्देवीं भक्त्या च स्मृतिहेतवे ॥ 4 ॥

तमित्युक्त्वा दीननाथो ह्यंतर्धानं जगाम सः ।
मुनिः स्नात्वा च तुष्टाव भक्तिनम्रात्मकंधरः ॥ 5 ॥

याज्ञवल्क्य उवाच ।
कृपां कुरु जगन्मातर्मामेवं हततेजसम् ।
गुरुशापात्स्मृतिभ्रष्टं विद्याहीनं च दुःखितम् ॥ 6 ॥

ज्ञानं देहि स्मृतिं देहि विद्यां विद्याधिदेवते ।
प्रतिष्ठां कवितां देहि शक्तिं शिष्यप्रबोधिकाम् ॥ 7 ॥

ग्रंथनिर्मितिशक्तिं च सच्छिष्यं सुप्रतिष्ठितम् ।
प्रतिभां सत्सभायां च विचारक्षमतां शुभाम् ॥ 8 ॥

लुप्तां सर्वां दैववशान्नवं कुरु पुनः पुनः ।
यथांकुरं जनयति भगवान्योगमायया ॥ 9 ॥

ब्रह्मस्वरूपा परमा ज्योतिरूपा सनातनी ।
सर्वविद्याधिदेवी या तस्यै वाण्यै नमो नमः ॥ 10 ॥

यया विना जगत्सर्वं शश्वज्जीवन्मृतं सदा ।
ज्ञानाधिदेवी या तस्यै सरस्वत्यै नमो नमः ॥ 11 ॥

यया विना जगत्सर्वं मूकमुन्मत्तवत्सदा ।
वागधिष्ठातृदेवी या तस्यै वाण्यै नमो नमः ॥ 12 ॥

हिमचंदनकुंदेंदुकुमुदांभोजसन्निभा ।
वर्णाधिदेवी या तस्यै चाक्षरायै नमो नमः ॥ 13 ॥

विसर्ग बिंदुमात्राणां यदधिष्ठानमेव च ।
इत्थं त्वं गीयसे सद्भिर्भारत्यै ते नमो नमः ॥ 14 ॥

यया विनाऽत्र संख्याकृत्संख्यां कर्तुं न शक्नुते ।
कालसंख्यास्वरूपा या तस्यै देव्यै नमो नमः ॥ 15 ॥

व्याख्यास्वरूपा या देवी व्याख्याधिष्ठातृदेवता ।
भ्रमसिद्धांतरूपा या तस्यै देव्यै नमो नमः ॥ 16 ॥

स्मृतिशक्तिर्ज्ञानशक्तिर्बुद्धिशक्तिस्वरूपिणी ।
प्रतिभा कल्पनाशक्तिर्या च तस्यै नमो नमः ॥ 17 ॥

सनत्कुमारो ब्रह्माणं ज्ञानं पप्रच्छ यत्र वै ।
बभूव जडवत्सोऽपि सिद्धांतं कर्तुमक्षमः ॥ 18 ॥

तदाजगाम भगवानात्मा श्रीकृष्ण ईश्वरः ।
उवाच सत्तमं स्तोत्रं वाण्या इति विधिं तदा ॥ 19 ॥

स च तुष्टाव तां ब्रह्मा चाज्ञया परमात्मनः ।
चकार तत्प्रसादेन तदा सिद्धांतमुत्तमम् ॥ 20 ॥

यदाप्यनंतं पप्रच्छ ज्ञानमेकं वसुंधरा ।
बभूव मूकवत्सोऽपि सिद्धांतं कर्तुमक्षमः ॥ 21 ॥

तदा त्वां च स तुष्टाव संत्रस्तः कश्यपाज्ञया ।
ततश्चकार सिद्धांतं निर्मलं भ्रमभंजनम् ॥ 22 ॥

व्यासः पुराणसूत्रं च समपृच्छत वाल्मिकिम् ।
मौनीभूतः स सस्मार त्वामेव जगदंबिकाम् ॥ 23 ॥

तदा चकार सिद्धांतं त्वद्वरेण मुनीश्वरः ।
स प्राप निर्मलं ज्ञानं प्रमादध्वंसकारणम् ॥ 24 ॥

पुराण सूत्रं श्रुत्वा स व्यासः कृष्णकलोद्भवः ।
त्वां सिषेवे च दध्यौ च शतवर्षं च पुष्करे ॥ 25 ॥

तदा त्वत्तो वरं प्राप्य स कवींद्रो बभूव ह ।
तदा वेदविभागं च पुराणानि चकार ह ॥ 26 ॥

यदा महेंद्रे पप्रच्छ तत्त्वज्ञानं शिवा शिवम् ।
क्षणं त्वामेव संचिंत्य तस्यै ज्ञानं दधौ विभुः ॥ 27 ॥

पप्रच्छ शब्दशास्त्रं च महेंद्रश्च बृहस्पतिम् ।
दिव्यं वर्षसहस्रं च स त्वां दध्यौ च पुष्करे ॥ 28 ॥

तदा त्वत्तो वरं प्राप्य दिव्यं वर्षसहस्रकम् ।
उवाच शब्दशास्त्रं च तदर्थं च सुरेश्वरम् ॥ 29 ॥

अध्यापिताश्च यैः शिष्याः यैरधीतं मुनीश्वरैः ।
ते च त्वां परिसंचिंत्य प्रवर्तंते सुरेश्वरि ॥ 30 ॥

त्वं संस्तुता पूजिता च मुनींद्रमनुमानवैः ।
दैत्येंद्रैश्च सुरैश्चापि ब्रह्मविष्णुशिवादिभिः ॥ 31 ॥

जडीभूतः सहस्रास्यः पंचवक्त्रश्चतुर्मुखः ।
यां स्तोतुं किमहं स्तौमि तामेकास्येन मानवः ॥ 32 ॥

इत्युक्त्वा याज्ञवल्क्यश्च भक्तिनम्रात्मकंधरः ।
प्रणनाम निराहारो रुरोद च मुहुर्मुहुः ॥ 33 ॥

तदा ज्योतिस्स्वरूपा सा तेनादृष्टाप्युवाच तम् ।
सुकवींद्रो भवेत्युक्त्वा वैकुंठं च जगाम ह ॥ 34 ॥

याज्ञवल्क्य कृतं वाणीस्तोत्रं यः संयतः पठेत् ।
स कवींद्रो महावाग्मी बृहस्पति समो भवेत् ॥ 35 ॥

महामूर्खश्च दुर्मेधा वर्षमेकं च यः पठेत् ।
स पंडितश्च मेधावी सुकविश्च भवेद्ध्रुवम् ॥ 35 ॥

इति श्री ब्रह्मवैवर्ते महापुराणे प्रकृति खंडे नारद नारायण संवादे याज्ञवल्क्योक्त वाणी स्तवनं नाम पंचमोऽध्यायः ॥

saraswati stotram yagnavalkya krutam in hindi

Copy
Give Feedback