Narayaniyam Dashaka 93 in hindi
with lyrics, PDF, meaning, devotional benefits,
chanting guide and complete spiritual content.
narayaniyam dashaka 93 in hindi
बंधुस्नेहं विजह्यां तव हि करुणया त्वय्युपावेशितात्मा
सर्वं त्यक्त्वा चरेयं सकलमपि जगद्वीक्ष्य मायाविलासम् ।
नानात्वाद्भ्रांतिजन्यात् सति खलु गुणदोषावबोधे विधिर्वा
व्यासेधो वा कथं तौ त्वयि निहितमतेर्वीतवैषम्यबुद्धेः ॥1॥
क्षुत्तृष्णालोपमात्रे सततकृतधियो जंतवः संत्यनंता-
स्तेभ्यो विज्ञानवत्त्वात् पुरुष इह वरस्तज्जनिर्दुर्लभैव ।
तत्राप्यात्मात्मनः स्यात्सुहृदपि च रिपुर्यस्त्वयि न्यस्तचेता-
स्तापोच्छित्तेरुपायं स्मरति स हि सुहृत् स्वात्मवैरी ततोऽन्यः ॥2॥
त्वत्कारुण्ये प्रवृत्ते क इव नहि गुरुर्लोकवृत्तेऽपि भूमन्
सर्वाक्रांतापि भूमिर्नहि चलति ततस्सत्क्षमां शिक्षयेयम् ।
गृह्णीयामीश तत्तद्विषयपरिचयेऽप्यप्रसक्तिं समीरात्
व्याप्तत्वंचात्मनो मे गगनगुरुवशाद्भातु निर्लेपता च ॥3
स्वच्छः स्यां पावनोऽहं मधुर उदकवद्वह्निवन्मा स्म गृह्णां
सर्वान्नीनोऽपि दोषं तरुषु तमिव मां सर्वभूतेष्ववेयाम् ।
पुष्टिर्नष्टिः कलानां शशिन इव तनोर्नात्मनोऽस्तीति विद्यां
तोयादिव्यस्तमार्तांडवदपि च तनुष्वेकतां त्वत्प्रसादात् ॥4॥
स्नेहाद्व्याधात्तपुत्रप्रणयमृतकपोतायितो मा स्म भूवं
प्राप्तं प्राश्नन् सहेय क्षुधमपि शयुवत् सिंधुवत्स्यामगाधः ।
मा पप्तं योषिदादौ शिखिनि शलभवत् भृंगवत्सारभागी
भूयासं किंतु तद्वद्धनचयनवशान्माहमीश प्रणेशम् ॥5॥
मा बद्ध्यासं तरुण्या गज इव वशया नार्जयेयं धनौघं
हर्तान्यस्तं हि माध्वीहर इव मृगवन्मा मुहं ग्राम्यगीतैः ।
नात्यासज्जेय भोज्ये झष इव बलिशे पिंगलावन्निराशः
सुप्यां भर्तव्ययोगात् कुरर इव विभो सामिषोऽन्यैर्न हन्यै ॥6॥
वर्तेय त्यक्तमानः सुखमतिशिशुवन्निस्सहायश्चरेयं
कन्याया एकशेषो वलय इव विभो वर्जितान्योन्यघोषः ।
त्वच्चित्तो नावबुध्यै परमिषुकृदिव क्ष्माभृदायानघोषं
गेहेष्वन्यप्रणीतेष्वहिरिव निवसान्युंदुरोर्मंदिरेषु ॥7॥
त्वय्येव त्वत्कृतं त्वं क्षपयसि जगदित्यूर्णनाभात् प्रतीयां
त्वच्चिंता त्वत्स्वरूपं कुरुत इति दृढं शिक्षये पेशकारात् ।
विड्भस्मात्मा च देहो भवति गुरुवरो यो विवेकं विरक्तिं
धत्ते संचिंत्यमानो मम तु बहुरुजापीडितोऽयं विशेषात् ॥8॥
ही ही मे देहमोहं त्यज पवनपुराधीश यत्प्रेमहेतो-
र्गेहे वित्ते कलत्रादिषु च विवशितास्त्वत्पदं विस्मरंति ।
सोऽयं वह्नेश्शुनो वा परमिह परतः सांप्रतंचाक्षिकर्ण-
त्वग्जिह्वाद्या विकर्षंत्यवशमत इतः कोऽपि न त्वत्पदाब्जे ॥9॥
दुर्वारो देहमोहो यदि पुनरधुना तर्हि निश्शेषरोगान्
हृत्वा भक्तिं द्रढिष्ठां कुरु तव पदपंकेरुहे पंकजाक्ष ।
नूनं नानाभवांते समधिगतममुं मुक्तिदं विप्रदेहं
क्षुद्रे हा हंत मा मा क्षिप विषयरसे पाहि मां मारुतेश ॥10॥
narayaniyam dashaka 93 in hindi
Leave a Comment