Search Results

Search from 23,000+ Stotrams, Mantras & Spiritual Posts

विदुर नीति – उद्योग पर्वम्, अध्यायः 37

Vidura Neethi Udyoga Parvam Chapter 37 in devanagari
with lyrics, PDF, meaning, devotional benefits,
chanting guide and complete spiritual content.

vidura neethi udyoga parvam chapter 37 in devanagari

॥ इति श्रीमहाभारते उद्योगपर्वणि प्रजागरपर्वणि
विदुरवाक्ये सप्तत्रिंशोऽध्यायः ॥

विदुर उवाच ।

सप्तदशेमान्राजेन्द्र मनुः स्वायम्भुवोऽब्रवीत् ।
वैचित्रवीर्य पुरुषानाकाशं मुष्टिभिर्घ्नतः ॥ 1॥

तानेविन्द्रस्य हि धनुरनाम्यं नमतोऽब्रवीत् ।
अथो मरीचिनः पादाननाम्यान्नमतस्तथा ॥ 2॥

यश्चाशिष्यं शासति यश् च कुप्यते
यश्चातिवेलं भजते द्विषन्तम् ।
स्त्रियश्च योऽरक्षति भद्रमस्तु ते
यश्चायाच्यं याचति यश् च कत्थते ॥ 3॥

यश्चाभिजातः प्रकरोत्यकार्यं
यश्चाबलो बलिना नित्यवैरी ।
अश्रद्दधानाय च यो ब्रवीति
यश्चाकाम्यं कामयते नरेन्द्र ॥ 4॥

वध्वा हासं श्वशुरो यश् च मन्यते
वध्वा वसन्नुत यो मानकामः ।
परक्षेत्रे निर्वपति यश्च बीजं
स्त्रियं च यः परिवदतेऽतिवेलम् ॥ 5॥

यश्चैव लब्ध्वा न स्मरामीत्युवाच
दत्त्वा च यः कत्थति याच्यमानः ।
यश्चासतः सान्त्वमुपासतीह
एतेऽनुयान्त्यनिलं पाशहस्ताः ॥ 6॥

यस्मिन्यथा वर्तते यो मनुष्यस्
तस्मिंस्तथा वर्तितव्यं स धर्मः ।
मायाचारो मायया वर्तितव्यः
साध्वाचारः साधुना प्रत्युदेयः ॥ 7॥

धृतराष्ट्र उवाच ।

शतायुरुक्तः पुरुषः सर्ववेदेषु वै यदा ।
नाप्नोत्यथ च तत्सर्वमायुः केनेह हेतुना ॥ 8॥

विदुर उवाच ।

अतिवादोऽतिमानश्च तथात्यागो नराधिपः ।
क्रोधश्चातिविवित्सा च मित्रद्रोहश्च तानि षट् ॥ 9॥

एत एवासयस्तीक्ष्णाः कृन्तन्त्यायूंषि देहिनाम् ।
एतानि मानवान्घ्नन्ति न मृत्युर्भद्रमस्तु ते ॥ 10॥

विश्वस्तस्यैति यो दारान्यश्चापि गुरु तक्पगः ।
वृषली पतिर्द्विजो यश्च पानपश्चैव भारत ॥ 11॥

शरणागतहा चैव सर्वे ब्रह्महणैः समाः ।
एतैः समेत्य कर्तव्यं प्रायश्चित्तमिति श्रुतिः ॥ 12॥

गृही वदान्योऽनपविद्ध वाक्यः
शेषान्न भोकाप्यविहिंसकश् च ।
नानर्थकृत्त्यक्तकलिः कृतज्ञः
सत्यो मृदुः स्वर्गमुपैति विद्वान् ॥ 13॥

सुलभाः पुरुषा राजन्सततं प्रियवादिनः ।
अप्रियस्य तु पथ्यस्य वक्ता श्रोता च दुर्लभः ॥ 14॥

यो हि धर्मं व्यपाश्रित्य हित्वा भर्तुः प्रियाप्रिये ।
अप्रियाण्याह पथ्यानि तेन राजा सहायवान् ॥ 15॥

त्यजेत्कुलार्थे पुरुषं ग्रामस्यार्थे कुलं त्यजेत् ।
ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् ॥ 16॥

आपदर्थं धनं रक्षेद्दारान्रक्षेद्धनैरपि ।
आत्मानं सततं रक्षेद्दारैरपि धनैरपि ॥ 17॥

उक्तं मया द्यूतकालेऽपि राजन्
नैवं युक्तं वचनं प्रातिपीय ।
तदौषधं पथ्यमिवातुरस्य
न रोचते तव वैचित्र वीर्य ॥ 18॥

काकैरिमांश्चित्रबर्हान्मयूरान्
पराजैष्ठाः पाण्डवान्धार्तराष्ट्रैः ।
हित्वा सिंहान्क्रोष्टु कान्गूहमानः
प्राप्ते काले शोचिता त्वं नरेन्द्र ॥ 19॥

यस्तात न क्रुध्यति सर्वकालं
भृत्यस्य भक्तस्य हिते रतस्य ।
तस्मिन्भृत्या भर्तरि विश्वसन्ति
न चैनमापत्सु परित्यजन्ति ॥ 20॥

न भृत्यानां वृत्ति संरोधनेन
बाह्यं जनं सञ्जिघृक्षेदपूर्वम् ।
त्यजन्ति ह्येनमुचितावरुद्धाः
स्निग्धा ह्यमात्याः परिहीनभोगाः ॥ 21॥

कृत्यानि पूर्वं परिसङ्ख्याय सर्वाण्य्
आयव्ययावनुरूपां च वृत्तिम् ।
सङ्गृह्णीयादनुरूपान्सहायान्
सहायसाध्यानि हि दुष्कराणि ॥ 22॥

अभिप्रायं यो विदित्वा तु भर्तुः
सर्वाणि कार्याणि करोत्यतन्द्रीः ।
वक्ता हितानामनुरक्त आर्यः
शक्तिज्ञ आत्मेव हि सोऽनुकम्प्यः ॥ 23॥

वाक्यं तु यो नाद्रियतेऽनुशिष्टः
प्रत्याह यश्चापि नियुज्यमानः ।
प्रज्ञाभिमानी प्रतिकूलवादी
त्याज्यः स तादृक्त्वरयैव भृत्यः ॥ 24॥

अस्तब्धमक्लीबमदीर्घसूत्रं
सानुक्रोशं श्लक्ष्णमहार्यमन्यैः ।
अरोग जातीयमुदारवाक्यं
दूतं वदन्त्यष्ट गुणोपपन्नम् ॥ 25॥

न विश्वासाज्जातु परस्य गेहं
गच्छेन्नरश्चेतयानो विकाले ।
न चत्वरे निशि तिष्ठेन्निगूढो
न राजन्यां योषितं प्रार्थयीत ॥ 26॥

न निह्नवं सत्र गतस्य गच्छेत्
संसृष्ट मन्त्रस्य कुसङ्गतस्य ।
न च ब्रूयान्नाश्वसामि त्वयीति
स कारणं व्यपदेशं तु कुर्यात् ॥ 27॥

घृणी राजा पुंश्चली राजभृत्यः
पुत्रो भ्राता विधवा बाल पुत्रा ।
सेना जीवी चोद्धृत भक्त एव
व्यवहारे वै वर्जनीयाः स्युरेते ॥ 28॥

गुणा दश स्नानशीलं भजन्ते
बलं रूपं स्वरवर्णप्रशुद्धिः ।
स्पर्शश्च गन्धश्च विशुद्धता च
श्रीः सौकुमार्यं प्रवराश्च नार्यः ॥ 29॥

गुणाश्च षण्मितभुक्तं भजन्ते
आरोग्यमायुश्च सुखं बलं च ।
अनाविलं चास्य भवेदपत्यं
न चैनमाद्यून इति क्षिपन्ति ॥ 30॥

अकर्म शीलं च महाशनं च
लोकद्विष्टं बहु मायं नृशंसम् ।
अदेशकालज्ञमनिष्ट वेषम्
एतान्गृहे न प्रतिवासयीत ॥ 31॥

कदर्यमाक्रोशकमश्रुतं च
वराक सम्भूतममान्य मानिनम् ।
निष्ठूरिणं कृतवैरं कृतघ्नम्
एतान्भृतार्तोऽपि न जातु याचेत् ॥ 32॥

सङ्क्लिष्टकर्माणमतिप्रवादं
नित्यानृतं चादृढ भक्तिकं च ।
विकृष्टरागं बहुमानिनं चाप्य्
एतान्न सेवेत नराधमान्षट् ॥ 33॥

सहायबन्धना ह्यर्थाः सहायाश्चार्थबन्धनाः ।
अन्योन्यबन्धनावेतौ विनान्योन्यं न सिध्यतः ॥ 34॥

उत्पाद्य पुत्राननृणांश्च कृत्वा
वृत्तिं च तेभ्योऽनुविधाय कां चित् ।
स्थाने कुमारीः प्रतिपाद्य सर्वा
अरण्यसंस्थो मुनिवद्बुभूषेत् ॥ 35॥

हितं यत्सर्वभूतानामात्मनश्च सुखावहम् ।
तत्कुर्यादीश्वरो ह्येतन्मूलं धर्मार्थसिद्धये ॥ 36॥

बुद्धिः प्रभावस्तेजश्च सत्त्वमुत्थानमेव च ।
व्यवसायश्च यस्य स्यात्तस्यावृत्ति भयं कुतः ॥ 37॥

पश्य दोषान्पाण्डवैर्विग्रहे त्वं
यत्र व्यथेरन्नपि देवाः स शक्राः ।
पुत्रैर्वैरं नित्यमुद्विग्नवासो
यशः प्रणाशो द्विषतां च हर्षः ॥ 38॥

भीष्मस्य कोपस्तव चेन्द्र कल्प
द्रोणस्य राज्ञश्च युधिष्ठिरस्य ।
उत्सादयेल्लोकमिमं प्रवृद्धः
श्वेतो ग्रहस्तिर्यगिवापतन्खे ॥ 39॥

तव पुत्रशतं चैव कर्णः पञ्च च पाण्डवाः ।
पृथिवीमनुशासेयुरखिलां सागराम्बराम् ॥ 40॥

धार्तराष्ट्रा वनं राजन्व्याघ्राः पाण्डुसुता मताः ।
मा वनं छिन्धि स व्याघ्रं मा व्याघ्रान्नीनशो वनात् ॥ 41॥

न स्याद्वनमृते व्याघ्रान्व्याघ्रा न स्युरृते वनम् ।
वनं हि रक्ष्यते व्याघ्रैर्व्याघ्रान्रक्षति काननम् ॥ 42॥

न तथेच्छन्त्यकल्याणाः परेषां वेदितुं गुणान् ।
यथैषां ज्ञातुमिच्छन्ति नैर्गुण्यं पापचेतसः ॥ 43॥

अर्थसिद्धिं परामिच्छन्धर्ममेवादितश् चरेत् ।
न हि धर्मादपैत्यर्थः स्वर्गलोकादिवामृतम् ॥ 44॥

यस्यात्मा विरतः पापात्कल्याणे च निवेशितः ।
तेन सर्वमिदं बुद्धं प्रकृतिर्विकृतिर्श्च या ॥ 45॥

यो धर्ममर्थं कामं च यथाकालं निषेवते ।
धर्मार्थकामसंयोगं योऽमुत्रेह च विन्दति ॥ 46॥

सन्नियच्छति यो वेगमुत्थितं क्रोधहर्षयोः ।
स श्रियो भाजनं राजन्यश्चापत्सु न मुह्यति ॥ 47॥

बलं पञ्च विधं नित्यं पुरुषाणां निबोध मे ।
यत्तु बाहुबलं नाम कनिष्ठं बलमुच्यते ॥ 48॥

अमात्यलाभो भद्रं ते द्वितीयं बलमुच्यते ।
धनलाभस्तृतीयं तु बलमाहुर्जिगीषवः ॥ 49॥

यत्त्वस्य सहजं राजन्पितृपैतामहं बलम् ।
अभिजात बलं नाम तच्चतुर्थं बलं स्मृतम् ॥ 50॥

येन त्वेतानि सर्वाणि सङ्गृहीतानि भारत ।
यद्बलानां बलं श्रेष्ठं तत्प्रज्ञा बलमुच्यते ॥ 51॥

महते योऽपकाराय नरस्य प्रभवेन्नरः ।
तेन वैरं समासज्य दूरस्थोऽस्मीति नाश्वसेत् ॥ 52॥

स्त्रीषु राजसु सर्पेषु स्वाध्याये शत्रुसेविषु ।
भोगे चायुषि विश्वासं कः प्राज्ञः कर्तुमर्हति ॥ 53॥

प्रज्ञा शरेणाभिहतस्य जन्तोश्
चिकित्सकाः सन्ति न चौषधानि ।
न होममन्त्रा न च मङ्गलानि
नाथर्वणा नाप्यगदाः सुसिद्धाः ॥ 54॥

सर्पश्चाग्निश्च सिंहश्च कुलपुत्रश्च भारत ।
नावज्ञेया मनुष्येण सर्वे ते ह्यतितेजसः ॥ 55॥

अग्निस्तेजो महल्लोके गूढस्तिष्ठति दारुषु ।
न चोपयुङ्क्ते तद्दारु यावन्नो दीप्यते परैः ॥ 56॥

स एव खलु दारुभ्यो यदा निर्मथ्य दीप्यते ।
तदा तच्च वनं चान्यन्निर्दहत्याशु तेजसा ॥ 57॥

एवमेव कुले जाताः पावकोपम तेजसः ।
क्षमावन्तो निराकाराः काष्ठेऽग्निरिव शेरते ॥ 58॥

लता धर्मा त्वं सपुत्रः शालाः पाण्डुसुता मताः ।
न लता वर्धते जातु महाद्रुममनाश्रिता ॥ 59॥

वनं राजंस्त्वं सपुत्रोऽम्बिकेय
सिंहान्वने पाण्डवांस्तात विद्धि ।
सिंहैर्विहीनं हि वनं विनश्येत्
सिंहा विनश्येयुरृते वनेन ॥ 60॥

॥ इति श्रीमहाभारते उद्योगपर्वणि प्रजागरपर्वणि
विदुरवाक्ये सप्तत्रिंशोऽध्यायः ॥ 37॥

vidura neethi udyoga parvam chapter 37 in devanagari

Copy
Give Feedback