Search Results

Search from 23,000+ Stotrams, Mantras & Spiritual Posts

सूर्य सहस्र नाम स्तोत्रम्

Surya Sahasra Nama Stotram in devanagari
with lyrics, PDF, meaning, devotional benefits,
chanting guide and complete spiritual content.

surya sahasra nama stotram in devanagari

अस्य श्री सूर्य सहस्रनाम स्तोत्रस्य वेदव्यास ऋषिः अनुष्टुप्छन्दः सविता देवता सर्वाभीष्ट सिद्ध्यर्थे जपे विनियोगः ।

ध्यानम् ।
ध्येयः सदा सवितृमण्डलमध्यवर्ती
नारायणः सरसिजासनसन्निविष्टः ।
केयूरवान् मकरकुण्डलवान् किरीटी
हारी हिरण्मयवपुर्धृतशङ्खचक्रः ॥

स्तोत्रम् ।
ॐ विश्वविद्विश्वजित्कर्ता विश्वात्मा विश्वतोमुखः ।
विश्वेश्वरो विश्वयोनिर्नियतात्मा जितेन्द्रियः ॥ 1 ॥

कालाश्रयः कालकर्ता कालहा कालनाशनः ।
महायोगी महासिद्धिर्महात्मा सुमहाबलः ॥ 2 ॥

प्रभुर्विभुर्भूतनाथो भूतात्मा भुवनेश्वरः ।
भूतभव्यो भावितात्मा भूतान्तःकरणं शिवः ॥ 3 ॥

शरण्यः कमलानन्दो नन्दनो नन्दवर्धनः ।
वरेण्यो वरदो योगी सुसंयुक्तः प्रकाशकः ॥ 4 ॥

प्राप्तयानः परप्राणः पूतात्मा प्रियतः प्रियः । [प्रयतः]
नयः सहस्रपात् साधुर्दिव्यकुण्डलमण्डितः ॥ 5 ॥

अव्यङ्गधारी धीरात्मा सविता वायुवाहनः ।
समाहितमतिर्दाता विधाता कृतमङ्गलः ॥ 6 ॥

कपर्दी कल्पपाद्रुद्रः सुमना धर्मवत्सलः ।
समायुक्तो विमुक्तात्मा कृतात्मा कृतिनां वरः ॥ 7 ॥

अविचिन्त्यवपुः श्रेष्ठो महायोगी महेश्वरः ।
कान्तः कामारिरादित्यो नियतात्मा निराकुलः ॥ 8 ॥

कामः कारुणिकः कर्ता कमलाकरबोधनः ।
सप्तसप्तिरचिन्त्यात्मा महाकारुणिकोत्तमः ॥ 9 ॥

सञ्जीवनो जीवनाथो जयो जीवो जगत्पतिः ।
अयुक्तो विश्वनिलयः संविभागी वृषध्वजः ॥ 10 ॥

वृषाकपिः कल्पकर्ता कल्पान्तकरणो रविः ।
एकचक्ररथो मौनी सुरथो रथिनां वरः ॥ 11 ॥

सक्रोधनो रश्मिमाली तेजोराशिर्विभावसुः ।
दिव्यकृद्दिनकृद्देवो देवदेवो दिवस्पतिः ॥ 12 ॥

दीननाथो हरो होता दिव्यबाहुर्दिवाकरः ।
यज्ञो यज्ञपतिः पूषा स्वर्णरेताः परावरः ॥ 13 ॥

परापरज्ञस्तरणिरंशुमाली मनोहरः ।
प्राज्ञः प्राज्ञपतिः सूर्यः सविता विष्णुरंशुमान् ॥ 14 ॥

सदागतिर्गन्धवहो विहितो विधिराशुगः ।
पतङ्गः पतगः स्थाणुर्विहङ्गो विहगो वरः ॥ 15 ॥

हर्यश्वो हरिताश्वश्च हरिदश्वो जगत्प्रियः ।
त्र्यम्बकः सर्वदमनो भावितात्मा भिषग्वरः ॥ 16 ॥

आलोककृल्लोकनाथो लोकालोकनमस्कृतः ।
कालः कल्पान्तको वह्निस्तपनः सम्प्रतापनः ॥ 17 ॥

विलोचनो विरूपाक्षः सहस्राक्षः पुरन्दरः ।
सहस्ररश्मिर्मिहिरो विविधाम्बरभूषणः ॥ 18 ॥

खगः प्रतर्दनो धन्यो हयगो वाग्विशारदः ।
श्रीमानशिशिरो वाग्मी श्रीपतिः श्रीनिकेतनः ॥ 19 ॥

श्रीकण्ठः श्रीधरः श्रीमान् श्रीनिवासो वसुप्रदः ।
कामचारी महामायो महोग्रोऽविदितामयः ॥ 20 ॥

तीर्थक्रियावान् सुनयो विभक्तो भक्तवत्सलः ।
कीर्तिः कीर्तिकरो नित्यः कुण्डली कवची रथी ॥ 21 ॥

हिरण्यरेताः सप्ताश्वः प्रयतात्मा परन्तपः ।
बुद्धिमानमरश्रेष्ठो रोचिष्णुः पाकशासनः ॥ 22 ॥

समुद्रो धनदो धाता मान्धाता कश्मलापहः ।
तमोघ्नो ध्वान्तहा वह्निर्होताऽन्तःकरणो गुहः ॥ 23 ॥

पशुमान् प्रयतानन्दो भूतेशः श्रीमतां वरः ।
नित्योऽदितो नित्यरथः सुरेशः सुरपूजितः ॥ 24 ॥

अजितो विजितो जेता जङ्गमस्थावरात्मकः ।
जीवानन्दो नित्यगामी विजेता विजयप्रदः ॥ 25 ॥

पर्जन्योऽग्निः स्थितिः स्थेयः स्थविरोऽथ निरञ्जनः ।
प्रद्योतनो रथारूढः सर्वलोकप्रकाशकः ॥ 26 ॥

ध्रुवो मेषी महावीर्यो हंसः संसारतारकः ।
सृष्टिकर्ता क्रियाहेतुर्मार्तण्डो मरुतां पतिः ॥ 27 ॥

मरुत्वान् दहनस्त्वष्टा भगो भर्गोऽर्यमा कपिः ।
वरुणेशो जगन्नाथः कृतकृत्यः सुलोचनः ॥ 28 ॥

विवस्वान् भानुमान् कार्यः कारणस्तेजसां निधिः ।
असङ्गगामी तिग्मांशुर्धर्मांशुर्दीप्तदीधितिः ॥ 29 ॥

सहस्रदीधितिर्ब्रध्नः सहस्रांशुर्दिवाकरः ।
गभस्तिमान् दीधितिमान् स्रग्वी मणिकुलद्युतिः ॥ 30 ॥

भास्करः सुरकार्यज्ञः सर्वज्ञस्तीक्ष्णदीधितिः ।
सुरज्येष्ठः सुरपतिर्बहुज्ञो वचसां पतिः ॥ 31 ॥

तेजोनिधिर्बृहत्तेजा बृहत्कीर्तिर्बृहस्पतिः ।
अहिमानूर्जितो धीमानामुक्तः कीर्तिवर्धनः ॥ 32 ॥

महावैद्यो गणपतिर्धनेशो गणनायकः ।
तीव्रप्रतापनस्तापी तापनो विश्वतापनः ॥ 33 ॥

कार्तस्वरो हृषीकेशः पद्मानन्दोऽतिनन्दितः ।
पद्मनाभोऽमृताहारः स्थितिमान् केतुमान् नभः ॥ 34 ॥

अनाद्यन्तोऽच्युतो विश्वो विश्वामित्रो घृणिर्विराट् ।
आमुक्तकवचो वाग्मी कञ्चुकी विश्वभावनः ॥ 35 ॥

अनिमित्तगतिः श्रेष्ठः शरण्यः सर्वतोमुखः ।
विगाही वेणुरसहः समायुक्तः समाक्रतुः ॥ 36 ॥

धर्मकेतुर्धर्मरतिः संहर्ता संयमो यमः ।
प्रणतार्तिहरो वायुः सिद्धकार्यो जनेश्वरः ॥ 37 ॥

नभो विगाहनः सत्यः सवितात्मा मनोहरः ।
हारी हरिर्हरो वायुरृतुः कालानलद्युतिः ॥ 38 ॥

सुखसेव्यो महातेजा जगतामेककारणम् ।
महेन्द्रो विष्टुतः स्तोत्रं स्तुतिहेतुः प्रभाकरः ॥ 39 ॥

सहस्रकर आयुष्मान् अरोषः सुखदः सुखी ।
व्याधिहा सुखदः सौख्यं कल्याणः कलतां वरः ॥ 40 ॥

आरोग्यकारणं सिद्धिरृद्धिर्वृद्धिर्बृहस्पतिः ।
हिरण्यरेता आरोग्यं विद्वान् ब्रध्नो बुधो महान् ॥ 41 ॥

प्राणवान् धृतिमान् घर्मो घर्मकर्ता रुचिप्रदः ।
सर्वप्रियः सर्वसहः सर्वशत्रुविनाशनः ॥ 42 ॥

प्रांशुर्विद्योतनो द्योतः सहस्रकिरणः कृती ।
केयूरी भूषणोद्भासी भासितो भासनोऽनलः ॥ 43 ॥

शरण्यार्तिहरो होता खद्योतः खगसत्तमः ।
सर्वद्योतो भवद्योतः सर्वद्युतिकरो मतः ॥ 44 ॥

कल्याणः कल्याणकरः कल्यः कल्यकरः कविः ।
कल्याणकृत् कल्यवपुः सर्वकल्याणभाजनम् ॥ 45 ॥

शान्तिप्रियः प्रसन्नात्मा प्रशान्तः प्रशमप्रियः ।
उदारकर्मा सुनयः सुवर्चा वर्चसोज्ज्वलः ॥ 46 ॥

वर्चस्वी वर्चसामीशस्त्रैलोक्येशो वशानुगः ।
तेजस्वी सुयशा वर्ष्मी वर्णाध्यक्षो बलिप्रियः ॥ 47 ॥

यशस्वी तेजोनिलयस्तेजस्वी प्रकृतिस्थितः ।
आकाशगः शीघ्रगतिराशुगो गतिमान् खगः ॥ 48 ॥

गोपतिर्ग्रहदेवेशो गोमानेकः प्रभञ्जनः ।
जनिता प्रजनो जीवो दीपः सर्वप्रकाशकः ॥ 49 ॥

सर्वसाक्षी योगनित्यो नभस्वानसुरान्तकः ।
रक्षोघ्नो विघ्नशमनः किरीटी सुमनःप्रियः ॥ 50 ॥

मरीचिमाली सुमतिः कृताभिख्यविशेषकः ।
शिष्टाचारः शुभाचारः स्वचाराचारतत्परः ॥ 51 ॥

मन्दारो माठरो वेणुः क्षुधापः क्ष्मापतिर्गुरुः ।
सुविशिष्टो विशिष्टात्मा विधेयो ज्ञानशोभनः ॥ 52 ॥

महाश्वेतः प्रियो ज्ञेयः सामगो मोक्षदायकः ।
सर्ववेदप्रगीतात्मा सर्ववेदलयो महान् ॥ 53 ॥

वेदमूर्तिश्चतुर्वेदो वेदभृद्वेदपारगः ।
क्रियावानसितो जिष्णुर्वरीयांशुर्वरप्रदः ॥ 54 ॥

व्रतचारी व्रतधरो लोकबन्धुरलङ्कृतः ।
अलङ्काराक्षरो वेद्यो विद्यावान् विदिताशयः ॥ 55 ॥

आकारो भूषणो भूष्यो भूष्णुर्भुवनपूजितः ।
चक्रपाणिर्ध्वजधरः सुरेशो लोकवत्सलः ॥ 56 ॥

वाग्मिपतिर्महाबाहुः प्रकृतिर्विकृतिर्गुणः ।
अन्धकारापहः श्रेष्ठो युगावर्तो युगादिकृत् ॥ 57 ॥

अप्रमेयः सदायोगी निरहङ्कार ईश्वरः ।
शुभप्रदः शुभः शास्ता शुभकर्मा शुभप्रदः ॥ 58 ॥

सत्यवान् श्रुतिमानुच्चैर्नकारो वृद्धिदोऽनलः ।
बलभृद्बलदो बन्धुर्मतिमान् बलिनां वरः ॥ 59 ॥

अनङ्गो नागराजेन्द्रः पद्मयोनिर्गणेश्वरः ।
संवत्सर ऋतुर्नेता कालचक्रप्रवर्तकः ॥ 60 ॥

पद्मेक्षणः पद्मयोनिः प्रभावानमरः प्रभुः ।
सुमूर्तिः सुमतिः सोमो गोविन्दो जगदादिजः ॥ 61 ॥

पीतवासाः कृष्णवासा दिग्वासास्त्विन्द्रियातिगः ।
अतीन्द्रियोऽनेकरूपः स्कन्दः परपुरञ्जयः ॥ 62 ॥

शक्तिमान् जलधृग्भास्वान् मोक्षहेतुरयोनिजः ।
सर्वदर्शी जितादर्शो दुःस्वप्नाशुभनाशनः ॥ 63 ॥

माङ्गल्यकर्ता तरणिर्वेगवान् कश्मलापहः ।
स्पष्टाक्षरो महामन्त्रो विशाखो यजनप्रियः ॥ 64 ॥

विश्वकर्मा महाशक्तिर्द्युतिरीशो विहङ्गमः ।
विचक्षणो दक्ष इन्द्रः प्रत्यूषः प्रियदर्शनः ॥ 65 ॥

अखिन्नो वेदनिलयो वेदविद्विदिताशयः ।
प्रभाकरो जितरिपुः सुजनोऽरुणसारथिः ॥ 66 ॥

कुनाशी सुरतः स्कन्दो महितोऽभिमतो गुरुः ।
ग्रहराजो ग्रहपतिर्ग्रहनक्षत्रमण्डलः ॥ 67 ॥

भास्करः सततानन्दो नन्दनो नरवाहनः ।
मङ्गलोऽथ मङ्गलवान् माङ्गल्यो मङ्गलावहः ॥ 68 ॥

मङ्गल्यचारुचरितः शीर्णः सर्वव्रतो व्रती ।
चतुर्मुखः पद्ममाली पूतात्मा प्रणतार्तिहा ॥ 69 ॥

अकिञ्चनः सतामीशो निर्गुणो गुणवाञ्छुचिः ।
सम्पूर्णः पुण्डरीकाक्षो विधेयो योगतत्परः ॥ 70 ॥

सहस्रांशुः क्रतुमतिः सर्वज्ञः सुमतिः सुवाक् ।
सुवाहनो माल्यदामा कृताहारो हरिप्रियः ॥ 71 ॥

ब्रह्मा प्रचेताः प्रथितः प्रयतात्मा स्थिरात्मकः ।
शतविन्दुः शतमुखो गरीयाननलप्रभः ॥ 72 ॥

धीरो महत्तरो विप्रः पुराणपुरुषोत्तमः ।
विद्याराजाधिराजो हि विद्यावान् भूतिदः स्थितः ॥ 73 ॥

अनिर्देश्यवपुः श्रीमान् विपाप्मा बहुमङ्गलः ।
स्वःस्थितः सुरथः स्वर्णो मोक्षदो बलिकेतनः ॥ 74 ॥

निर्द्वन्द्वो द्वन्द्वहा स्वर्गः सर्वगः सम्प्रकाशकः ।
दयालुः सूक्ष्मधीः क्षान्तिः क्षेमाक्षेमस्थितिप्रियः ॥ 75 ॥

भूधरो भूपतिर्वक्ता पवित्रात्मा त्रिलोचनः ।
महावराहः प्रियकृद्दाता भोक्ताऽभयप्रदः ॥ 76 ॥

चक्रवर्ती धृतिकरः सम्पूर्णोऽथ महेश्वरः ।
चतुर्वेदधरोऽचिन्त्यो विनिन्द्यो विविधाशनः ॥ 77 ॥

विचित्ररथ एकाकी सप्तसप्तिः परात्परः ।
सर्वोदधिस्थितिकरः स्थितिस्थेयः स्थितिप्रियः ॥ 78 ॥

निष्कलः पुष्कलो विभुर्वसुमान् वासवप्रियः ।
पशुमान् वासवस्वामी वसुधामा वसुप्रदः ॥ 79 ॥

बलवान् ज्ञानवांस्तत्त्वमोङ्कारस्त्रिषुसंस्थितः ।
सङ्कल्पयोनिर्दिनकृद्भगवान् कारणापहः ॥ 80 ॥

नीलकण्ठो धनाध्यक्षश्चतुर्वेदप्रियंवदः ।
वषट्कारोद्गाता होता स्वाहाकारो हुताहुतिः ॥ 81 ॥

जनार्दनो जनानन्दो नरो नारायणोऽम्बुदः ।
सन्देहनाशनो वायुर्धन्वी सुरनमस्कृतः ॥ 82 ॥

विग्रही विमलो विन्दुर्विशोको विमलद्युतिः ।
द्युतिमान् द्योतनो विद्युद्विद्यावान् विदितो बली ॥ 83 ॥

घर्मदो हिमदो हासः कृष्णवर्त्मा सुताजितः ।
सावित्रीभावितो राजा विश्वामित्रो घृणिर्विराट् ॥ 84 ॥

सप्तार्चिः सप्ततुरगः सप्तलोकनमस्कृतः ।
सम्पूर्णोऽथ जगन्नाथः सुमनाः शोभनप्रियः ॥ 85 ॥

सर्वात्मा सर्वकृत् सृष्टिः सप्तिमान् सप्तमीप्रियः ।
सुमेधा मेधिको मेध्यो मेधावी मधुसूदनः ॥ 86 ॥

अङ्गिरःपतिः कालज्ञो धूमकेतुः सुकेतनः ।
सुखी सुखप्रदः सौख्यः कान्तिः कान्तिप्रियो मुनिः ॥ 87 ॥

सन्तापनः सन्तपन आतपस्तपसां पतिः ।
उमापतिः सहस्रांशुः प्रियकारी प्रियङ्करः ॥ 88 ॥

प्रीतिर्विमन्युरम्भोत्थः खञ्जनो जगतां पतिः ।
जगत्पिता प्रीतमनाः सर्वः खर्वो गुहोऽचलः ॥ 89 ॥

सर्वगो जगदानन्दो जगन्नेता सुरारिहा ।
श्रेयः श्रेयस्करो ज्यायान् महानुत्तम उद्भवः ॥ 90 ॥

उत्तमो मेरुमेयोऽथ धरणो धरणीधरः ।
धराध्यक्षो धर्मराजो धर्माधर्मप्रवर्तकः ॥ 91 ॥

रथाध्यक्षो रथगतिस्तरुणस्तनितोऽनलः ।
उत्तरोऽनुत्तरस्तापी अवाक्पतिरपां पतिः ॥ 92 ॥

पुण्यसङ्कीर्तनः पुण्यो हेतुर्लोकत्रयाश्रयः ।
स्वर्भानुर्विगतानन्दो विशिष्टोत्कृष्टकर्मकृत् ॥ 93 ॥

व्याधिप्रणाशनः क्षेमः शूरः सर्वजितां वरः ।
एकरथो रथाधीशः पिता शनैश्चरस्य हि ॥ 94 ॥

वैवस्वतगुरुर्मृत्युर्धर्मनित्यो महाव्रतः ।
प्रलम्बहारसञ्चारी प्रद्योतो द्योतितानलः ॥ 95 ॥

सन्तापहृत् परो मन्त्रो मन्त्रमूर्तिर्महाबलः ।
श्रेष्ठात्मा सुप्रियः शम्भुर्मरुतामीश्वरेश्वरः ॥ 96 ॥

संसारगतिविच्चेत्ता संसारार्णवतारकः ।
सप्तजिह्वः सहस्रार्ची रत्नगर्भोऽपराजितः ॥ 97 ॥

धर्मकेतुरमेयात्मा धर्माधर्मवरप्रदः ।
लोकसाक्षी लोकगुरुर्लोकेशश्चण्डवाहनः ॥ 98 ॥

धर्मयूपो यूपवृक्षो धनुष्पाणिर्धनुर्धरः ।
पिनाकधृङ्महोत्साहो महामायो महाशनः ॥ 99 ॥

वीरः शक्तिमतां श्रेष्ठः सर्वशस्त्रभृतां वरः ।
ज्ञानगम्यो दुराराध्यो लोहिताङ्गो विवर्धनः ॥ 100 ॥

खगोऽन्धो धर्मदो नित्यो धर्मकृच्चित्रविक्रमः ।
भगवानात्मवान् मन्त्रस्त्र्यक्षरो नीललोहितः ॥ 101 ॥

एकोऽनेकस्त्रयी कालः सविता समितिञ्जयः ।
शार्ङ्गधन्वाऽनलो भीमः सर्वप्रहरणायुधः ॥ 102 ॥

सुकर्मा परमेष्ठी च नाकपाली दिविस्थितः ।
वदान्यो वासुकिर्वैद्य आत्रेयोऽथ पराक्रमः ॥ 103 ॥

द्वापरः परमोदारः परमो ब्रह्मचर्यवान् ।
उदीच्यवेषो मुकुटी पद्महस्तो हिमांशुभृत् ॥ 104 ॥

सितः प्रसन्नवदनः पद्मोदरनिभाननः ।
सायं दिवा दिव्यवपुरनिर्देश्यो महालयः ॥ 105 ॥

महारथो महानीशः शेषः सत्त्वरजस्तमः ।
धृतातपत्रप्रतिमो विमर्षी निर्णयः स्थितः ॥ 106 ॥

अहिंसकः शुद्धमतिरद्वितीयो विवर्धनः ।
सर्वदो धनदो मोक्षो विहारी बहुदायकः ॥ 107 ॥

चारुरात्रिहरो नाथो भगवान् सर्वगोऽव्ययः ।
मनोहरवपुः शुभ्रः शोभनः सुप्रभावनः ॥ 108 ॥

सुप्रभावः सुप्रतापः सुनेत्रो दिग्विदिक्पतिः ।
राज्ञीप्रियः शब्दकरो ग्रहेशस्तिमिरापहः ॥ 109 ॥

सैंहिकेयरिपुर्देवो वरदो वरनायकः ।
चतुर्भुजो महायोगी योगीश्वरपतिस्तथा ॥ 110 ॥

अनादिरूपोऽदितिजो रत्नकान्तिः प्रभामयः ।
जगत्प्रदीपो विस्तीर्णो महाविस्तीर्णमण्डलः ॥ 111 ॥

एकचक्ररथः स्वर्णरथः स्वर्णशरीरधृक् ।
निरालम्बो गगनगो धर्मकर्मप्रभावकृत् ॥ 112 ॥

धर्मात्मा कर्मणां साक्षी प्रत्यक्षः परमेश्वरः ।
मेरुसेवी सुमेधावी मेरुरक्षाकरो महान् ॥ 113 ॥

आधारभूतो रतिमांस्तथा च धनधान्यकृत् ।
पापसन्तापहर्ता च मनोवाञ्छितदायकः ॥ 114 ॥

रोगहर्ता राज्यदायी रमणीयगुणोऽनृणी ।
कालत्रयानन्तरूपो मुनिवृन्दनमस्कृतः ॥ 115 ॥

सन्ध्यारागकरः सिद्धः सन्ध्यावन्दनवन्दितः ।
साम्राज्यदाननिरतः समाराधनतोषवान् ॥ 116 ॥

भक्तदुःखक्षयकरो भवसागरतारकः ।
भयापहर्ता भगवानप्रमेयपराक्रमः ।
मनुस्वामी मनुपतिर्मान्यो मन्वन्तराधिपः ॥ 117 ॥

फलश्रुतिः ।
एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि ।
नाम्नां सहस्रं सवितुः पराशर्यो यदाह मे ॥ 1 ॥

धन्यं यशस्यमायुष्यं दुःखदुःस्वप्ननाशनम् ।
बन्धमोक्षकरं चैव भानोर्नामानुकीर्तनात् ॥ 2 ॥

यस्त्विदं शृणुयान्नित्यं पठेद्वा प्रयतो नरः ।
अक्षयं सुखमन्नाद्यं भवेत्तस्योपसाधितम् ॥ 3 ॥

नृपाग्नितस्करभयं व्याधितो न भयं भवेत् ।
विजयी च भवेन्नित्यमाश्रयं परमाप्नुयात् ॥ 4 ॥

कीर्तिमान् सुभगो विद्वान् स सुखी प्रियदर्शनः ।
जीवेद्वर्षशतायुश्च सर्वव्याधिविवर्जितः ॥ 5 ॥

नाम्नां सहस्रमिदमंशुमतः पठेद्यः
प्रातः शुचिर्नियमवान् सुसमृद्धियुक्तः ।
दूरेण तं परिहरन्ति सदैव रोगाः
भूताः सुपर्णमिव सर्वमहोरगेन्द्राः ॥ 6 ॥

इति श्री भविष्यपुराणे सप्तमकल्पे श्रीभगवत्सूर्यस्य सहस्रनामस्तोत्रं सम्पूर्णम् ॥

surya sahasra nama stotram in devanagari

Copy
Give Feedback