Search Results

Search from 23,000+ Stotrams, Mantras & Spiritual Posts

श्री ताराम्बा अष्टोत्तर शत नामा स्तोत्रं

Sri Taramba Ashtottara Satanama Stotram in devanagari
with lyrics, PDF, meaning, devotional benefits,
chanting guide and complete spiritual content.

sri taramba ashtottara satanama stotram in devanagari

श्री शिव उवाच
तारिणी तरला तन्वी तारा तरुणवल्लरी ।
ताररूपा तरी श्यामा तनुक्षीणपयोधरा ॥ 1 ॥

तुरीया तरुणा तीव्रगमना नीलवाहिनी ।
उग्रतारा जया चण्डी श्रीमदेकजटाशिरा ॥ 2 ॥

तरुणी शाम्भवी छिन्नफाला स्याद्भद्रदायिनी ।
उग्रा उग्रप्रभा नीला कृष्णा नीलसरस्वती ॥ 3 ॥

द्वितीया शोभना नित्या नवीना नित्यभीषणा ।
चण्डिका विजयाराध्या देवी गगनवाहिनी ॥ 4 ॥

अट्टहासा करालास्या चरास्यादीशपूजिता ।
सगुणाऽसगुणाऽराध्या हरीन्द्रादिप्रपूजिता ॥ 5 ॥

रक्तप्रिया च रक्ताक्षी रुधिरास्यविभूषिता ।
बलिप्रिया बलिरता दुर्गा बलवती बला ॥ 6 ॥

बलप्रिया बलरता बलरामप्रपूजिता ।
अर्धकेशेश्वरी केशा केशवा स्रग्विभूषिता ॥ 7 ॥

पद्ममाला च पद्माक्षी कामाख्या गिरिनन्दिनी ।
दक्षिणा चैव दक्षा च दक्षजा दक्षिणेरता ॥ 8 ॥

वज्रपुष्पप्रिया रक्तप्रिया कुसुमभूषिता ।
माहेश्वरी महादेवप्रिया पन्नगभूषिता ॥ 9 ॥

इडा च पिङ्गला चैव सुषुम्नाप्राणरूपिणी ।
गान्धारी पञ्चमी पञ्चाननादिपरिपूजिता ॥ 10 ॥

तथ्यविद्या तथ्यरूपा तथ्यमार्गानुसारिणी ।
तत्त्वरूपा तत्त्वप्रिया तत्त्वज्ञानात्मिकाऽनघा ॥ 11 ॥

ताण्डवाचारसन्तुष्टा ताण्डवप्रियकारिणी ।
तालनादरता क्रूरतापिनी तरणिप्रभा ॥ 12 ॥

त्रपायुक्ता त्रपामुक्ता तर्पिता तृप्तिकारिणी ।
तारुण्यभावसन्तुष्टा शक्ति-र्भक्तानुरागिणी ॥ 13 ॥

शिवासक्ता शिवरतिः शिवभक्तिपरायणा ।
ताम्रद्युति-स्ताम्ररागा ताम्रपात्रप्रभोजिनी ॥ 14 ॥

बलभद्रप्रेमरता बलिभु-ग्बलिकल्पनी ।
रामप्रिया रामशक्ती रामरूपानुकारिणी ॥ 15 ॥

इत्येतत्कथितं देवि रहस्यं परमाद्भुतम् ।
श्रुत्वामोक्षमवाप्नोति तारादेव्याः प्रसादतः ॥ 16 ॥

य इदं पठति स्तोत्रं तारास्तुतिरहस्यजम् ।
सर्वसिद्धियुतो भूत्वा विहरेत् क्षिति मण्डले ॥ 17 ॥

तस्यैव मन्त्रसिद्धिः स्यान्मयि भक्तिरनुत्तमा ।
भवत्येव महामाये सत्यं सत्यं न संशयः ॥ 18 ॥

मन्दे मङ्गलवारे च यः पठेन्निशि संयुतः ।
तस्यैव मन्त्रसिद्धिस्स्याद्गाणापत्यं लभेत सः ॥ 19 ॥

श्रद्धयाऽश्रद्धया वाऽपि पठेत्तारा रहस्यकम् ।
सोऽचिरेणैवकालेन जीवन्मुक्तश्शिवो भवेत् ॥ 20 ॥

सहस्रावर्तनाद्देवि पुरश्चर्याफलं लभेत् ।
एवं सततयुक्ता ये ध्यायन्तस्त्वामुपासते ॥ 21 ॥

ते कृतार्था महेशानि मृत्युसंसारवर्त्मनः ॥ 22 ॥

इति श्री स्वर्णमालातन्त्रे ताराम्बाष्टोत्तरशतनाम स्तोत्रम् ।

sri taramba ashtottara satanama stotram in devanagari

Copy
Give Feedback