Search Results

Search from 23,000+ Stotrams, Mantras & Spiritual Posts

श्री राम कर्णामृतम्

Sri Rama Karnamrutam in devanagari
with lyrics, PDF, meaning, devotional benefits,
chanting guide and complete spiritual content.

sri rama karnamrutam in devanagari

मङ्गलश्लोकाः
मङ्गलं भगवान्विष्णुर्मङ्गलं मधुसूदनः ।
मङ्गलं पुण्डरीकाक्षो मङ्गलं गरुडध्वजः ॥ 1

मङ्गलं कोसलेन्द्राय महनीयगुणाब्धये ।
चक्रवर्तितनूजाय सार्वभौमाय मङ्गलम् ॥ 2

वेदवेदान्तवेद्याय मेघश्यामलमूर्तये ।
पुंसां मोहनरूपाय पुण्यश्लोकाय मङ्गलम् ॥ 3

विश्वामित्रान्तरङ्गाय मिथिलानगरीपतेः ।
भाग्यानां परिपाकाय भव्यरूपाय मङ्गलम् ॥ 4

पितृभक्ताय सततं भ्रातृभिः सह सीतया ।
नन्दिताखिललोकाय रामचन्द्राय मङ्गलम् ॥ 5

त्यक्तसाकेतवासाय चित्रकूटविहारिणे ।
सेव्याय सर्वयमिनां धीरोदात्ताय मङ्गलम् ॥ 6

सौमित्रिणा च जानक्या चापबाणासिधारिणा ।
संसेव्याय सदा भक्त्या सानुजायास्तु मङ्गलम् ॥ 7

दण्डकारण्यवासाय खण्डितामरशत्रवे ।
गृध्रराजाय भक्ताय मुक्तिदायास्तु मङ्गलम् ॥ 8

सादरं शबरीदत्तफलमूलाभिलाषिणे ।
सौलभ्यपरिपूर्णाय सत्त्वोद्युक्ताय मङ्गलम् ॥ 9

हनूमत्समवेताय हरीशाभीष्टदायिने ।
वालिप्रमथनायास्तु महाधीराय मङ्गलम् ॥ 10

श्रीमते रघुवीराय सेतुलङ्घितसिन्धवे ।
जितराक्षसराजाय रणधीराय मङ्गलम् ॥ 11

आसाद्य नगरीं दिव्यामभिषिक्ताय सीतया ।
राजाधिराजराजाय रामभद्राय मङ्गलम् ॥ 12

विभीषणकृते प्रीत्या विश्वाभीष्टप्रदायिने ।
जानकीप्राणनाथाय सदा रामाय मङ्गलम् ॥ 13

—-

श्रीरामं त्रिजगद्गुरुं सुरवरं सीतामनोनायकं
श्यामाङ्गं शशिकोटिपूर्णवदनं चञ्चत्कलाकौस्तुभम् ।
सौम्यं सत्यगुणोत्तमं सुसरयूतीरे वसन्तं प्रभुं
त्रातारं सकलार्थसिद्धिसहितं वन्दे रघूणां पतिम् ॥ 14

श्रीराघवं दशरथात्मजमप्रमेयं
सीतापतिं रघुवरान्वयरत्नदीपम् ।
आजानुबाहुमरविन्ददलायताक्षं
रामं निशाचरविनाशकरं नमामि ॥ 15

श्रीरामचन्द्र करुणाकर राघवेन्द्र
राजेन्द्रचन्द्र रघुवंशसमुद्रचन्द्र ।
सुग्रीवनेत्रयुगलोत्पल-पूर्णचन्द्र
सीतामनःकुमुदचन्द्र नमो नमस्ते ॥ 16

सीतामनोमानसराजहंस
संसारसन्तापहर क्षमावन् ।
श्रीराम दैत्यान्तक शान्तरूप
श्रीतारकब्रह्म नमो नमस्ते ॥ 17

विष्णो राघव वासुदेव नृहरे देवौघचूडामणे ।
संसारार्णवकर्णधारक हरे कृष्णाय तुभ्यं नमः ॥ 18

सुग्रीवादिसमस्तवानरवरैस्संसेव्यमानं सदा ।
विश्वामित्रपराशरादिमुनिभिस्संस्तूयमानं भजे ॥ 19

रामं चन्दनशीतलं क्षितिसुतामोहाकरं श्रीकरं
वैदेहीनयनारविन्दमिहिरं सम्पूर्णचन्द्राननम् ।
राजानं करुणासमेतनयनं सीतामनोनन्दनं
सीतादर्पणचारुगण्डललितं वन्दे सदा राघवम् ॥ 20

जानाति राम तव नामरुचिं महेशो
जानाति गौतमसती चरणप्रभावम् ।
जानाति दोर्बलपराक्रममीशचापो
जानात्यमोघपटुबाणगतिं पयोधिः ॥ 21

माता रामो मत्पिता रामचन्द्रो
भ्राता रामो मत्सखा राघवेशः ।
सर्वस्वं मे रामचन्द्रो दायालु-
र्नान्यं दैवं नैव जाने न जाने ॥ 22

विमलकमलनेत्रं विस्फुरन्नीलगात्रं
तपनकुलपवित्रं दानवध्वन्तमित्रम् ।
भुवनशुभचरित्रं भूमिपुत्रीकलत्रं
दशरथवरपुत्रं नौमि रामाख्यमित्रम् ॥ 23

मार्गे मार्गे शाखिनां रत्नवेदी
वेद्यां वेद्यां किन्नरीबृन्दगीतम् ।
गीते गीते मञ्जुलालापगोष्ठी
गोष्ठ्यां गोष्ठ्यां त्वत्कथा रामचन्द्र ॥ 24

वृक्षे वृक्षे वीक्षिताः पक्षिसङ्घाः
सङ्घे सङ्घे मञ्जुलामोदवाक्यम् ।
वाक्ये वाक्ये मञ्जुलालापगोष्ठी
गोष्ठ्यां गोष्ठ्यां त्वत्कथा रामचन्द्र ॥ 25

दुरिततिमिरचन्द्रो दुष्टकञ्जातचन्द्रः
सुरकुवलयचन्द्रस्सूर्यवंशाब्धिचन्द्रः ।
स्वजननिवहचन्द्रश्शत्रुराजीवचन्द्रः
प्रणतकुमुदचन्द्रः पातु मां रामचन्द्रः ॥ 26

कल्याणदं कौशिकयज्ञपालं
कलानिधिं काञ्चनशैलधीरम् ।
कञ्जातनेत्रं करुणासमुद्रं
काकुत्स्थरामं कलयामि चित्ते ॥ 27

राजीवायतलोचनं रघुवरं नीलोत्पलश्यामलं
मन्दाराञ्चितमण्डपे सुललिते सौवर्णके पुष्पके ।
आस्थाने नवरत्नराजिखचिते सिंहासने संस्थितं
सीतालक्ष्मणलोकपालसहितं वन्दे मुनीन्द्रास्पदम् ॥ 28

ध्याये रामं सुधांशुं नतसकलभवारण्यतापप्रहारम् ।
श्यामं शान्तं सुरेन्द्रं सुरमुनिविनुतं कोटिसूर्यप्रकाशम् ।
सीतासौमित्रिसेव्यं सुरनरसुगमं दिव्यसिंहासनस्थम् ।
सायाह्ने रामचन्द्रं स्मितरुचिरमुखं सर्वदा मे प्रसन्नम् ॥ 29

इन्द्रनीलमणिसन्निभदेहं
वन्दनीयमसकृन्मुनिबृन्दैः ।
लम्बमानतुलसीवनमालं
चिन्तयामि सततं रघुवीरम् ॥ 30

सम्पूर्णचन्द्रवदनं सरसीरुहाक्षं
माणिक्यकुण्डलधरं मुकुटाभिरामम् ।
चाम्पेयगौरवसनं शरचापहस्तं
श्रीरामचन्द्रमनिशं मनसा स्मरामि ॥ 31

मातुः पार्श्वे चरन्तं मणिमयशयने मञ्जुभूषाञ्चिताङ्गम् ।
मन्दं मन्दं पिबन्तं मुकुलितनयनं स्तन्यमन्यस्तनाग्रम् ।
अङ्गुल्याग्रैः स्पृशन्तं सुखपरवशया सस्मितालिङ्गिताङ्गम् ।
गाढं गाढं जनन्या कलयतु हृदयं मामकं रामबालम् ॥ 32

रामाभिरामं नयनाभिरामं
वाचाभिरामं वदनाभिरामम् ।
सर्वाभिरामं च सदाभिरामं
वन्दे सदा दाशरथिं च रामम् ॥ 33

राशब्दोच्चारमात्रेण मुखान्निर्याति पातकाः ।
पुनः प्रवेशभीत्या च मकारस्तु कवाटवत् ॥ 34

अनर्घमाणिक्यविराजमान-
श्रीपादुकालङ्कृतशोभनाभ्याम् ।
अशेषबृन्दारकवन्दिताभ्यां
नमो नमो रामपदाम्बुजाभ्याम् ॥ 35

चलत्कनककुण्डलोल्लसितदिव्यगण्डस्थलं
चराचरजगन्मयं चरणपद्मगङ्गाश्रयम् ।
चतुर्विधफलप्रदं चरमपीठमध्यस्थितं
चिदंशमखिलास्पदं दशरथात्मजं चिन्तये ॥ 36

सनन्दनमुनिप्रियं सकलवर्णवेदात्मकं
समस्तनिगमागमस्फुरिततत्त्वसिंहासनम् ।
सहस्रनयनाब्जजाद्यमरबृन्दसंसेवितं
समष्टिपुरवल्लभं दशरथात्मजं चिन्तये ॥ 37

जाग्रत्स्वप्नसुषुप्ति-कालविलसत्तत्त्वात्मचिन्मात्रकं
चैतन्यात्मकमाधिपापरहितं भूम्यादितन्मात्रकम् ।
शाम्भव्यादिसमस्तयोगकुलकं साङ्ख्यादितत्त्वात्परं
शब्दावाच्यमहं नमामि सततं व्युत्पत्तिनाशात्परम् ॥ 38

इक्ष्वाकुवंशार्णवजातरत्नं
सीताङ्गनायौवनभाग्यरत्नम् ।
वैकुण्ठरत्नं मम भाग्यरत्नं
श्रीरामरत्नं शिरसा नमामि ॥ 39

इक्ष्वाकुनन्दनं सुग्रीवपूजितं
त्रैलोक्यरक्षकं सत्यसन्धं सदा ।
राघवं रघुपतिं राजीवलोचनं
रामचन्द्रं भजे राघवेशं भजे ॥ 40

भक्तप्रियं भक्तसमाधिगम्यं
चिन्ताहरं चिन्तितकामधेनुम् ।
सूर्येन्दुकोटिद्युतिभास्वरं तं
रामं भजे राघवरामचन्द्रम् ॥ 41

श्रीरामं जनकक्षितीश्वरसुतावक्त्राम्बुजाहारिणं
श्रीमद्भानुकुलाब्धिकौस्तुभमणिं श्रीरत्नवक्षस्स्थलम् ।
श्रीकण्ठाद्यमरौघरत्नमकुटालङ्कारपादाम्बुजं
श्रीवत्सोज्ज्वलमिन्द्रनीलसदृशं श्रीरामचन्द्रं भजे ॥ 42

रामचन्द्र चरिताकथामृतं
लक्ष्मणाग्रजगुणानुकीर्तनम् ।
राघवेश तव पादसेवनं
सम्भवन्तु मम जन्मजन्मनि ॥ 43

अज्ञानसम्भव-भवाम्बुधिबाडबाग्नि-
रव्यक्ततत्त्वनिकरप्रणवाधिरूढः ।
सीतासमेतमनुजेन हृदन्तराले
प्राणप्रयाणसमये मम सन्निधत्ते ॥ 44

रामो मत्कुलदैवतं सकरुणं रामं भजे सादरं
रामेणाखिलघोरपापनिहती रामाय तस्मै नमः ।
रामान्नास्ति जगत्रयैकसुलभो रामस्य दासोऽस्म्यहं
रामे प्रीतिरतीव मे कुलगुरो श्रीराम रक्षस्व माम् ॥ 45

वैदेहीसहितं सुरद्रुमतले हैमे महामण्टपे ।
मध्येपुष्पकमासने मणिमये वीरासने संस्थितम् ।
अग्रे वाचयति प्रभञ्जनसुते तत्त्वं मुनिभ्यः परम् ।
व्याख्यान्तं भरतादिभिः परिवृतं रामं भजे श्यामलम् ॥ 46

वामे भूमिसुता पुरस्तु हनुमान्पश्चात्सुमित्रासुत-
श्शत्रुघ्नो भरतश्च पार्श्वदलयोर्वाय्वादिकोणेष्वपि ।
सुग्रीवश्च विभीषणश्च युवराट् तारासुतो जाम्बवान्
मध्ये नीलसरोजकोमलरुचिं रामं भजे श्यामलम् ॥ 47

केयूराङ्गदकङ्कणैर्मणिगणैर्वैरोचमानं सदा
राकापर्वणिचन्द्रकोटिसदृशं छत्रेण वैराजितम् ।
हेमस्तम्भसहस्रषोडशयुते मध्ये महामण्डपे
देवेशं भरतादिभिः परिवृतं रामं भजे श्यामलम् ॥ 48

साकेते शरदिन्दुकुन्दधवले सौघे महामण्टपे ।
पर्यस्तागरुधूपधूमपटले कर्पूरदीपोज्ज्वले ।
सुग्रीवाङ्गदवायुपुत्रसहितं सौमित्रिणा सेवितं
लीलामानुषविग्रहं रघुपतिं रामं भजे श्यामलम् ॥ 49

शान्तं शारदचन्द्रकोटिसदृशं चन्द्राभिरामाननं
चन्द्रार्काग्निविकासिकुण्डलधरं चन्द्रावतंसस्तुतम् ।
वीणापुस्तकसाक्षसूत्रविलसद्व्याख्यानमुद्राकरं
देवेशं भरतादिभिः परिवृतं रामं भजे श्यामलम् ॥ 50

रामं राक्षसमर्दनं रघुपतिं शक्रारिविध्वंसिनं
सुग्रीवेप्सितराज्यदं सुरपतेः पुत्रान्तकं शार्‍ङ्गिणम् ।
भक्तानामभयप्रदं भयहरं पापौघविध्वंसिनं
सीतासेवितपादपद्मयुगलं रामं भजे श्यामलम् ॥ 51

कन्दर्पायुतकोटिकोटितुलितं कालाम्बुदश्यामलं
कम्बुग्रीवमुदारकौस्तुभधरं कर्णावतंसोत्पलम् ।
कस्तूरीतिलकोज्ज्वलं स्मितमुखं चिन्मुद्रयालङ्कृतं
सीतालक्ष्मणवायुपुत्रसहितं सिंहासनस्थं भजे ॥ 52

साकेते नवरत्नपङ्क्तिखचिते चित्रध्वजालङ्कृते
वासे स्वर्णमये दलाष्टललिते पद्मे विमानोत्तमे ।
आसीनं भरतादिसोदरजनैः शाखामृगैः किन्नरैः
दिक्पालैर्मुनिपुङ्गवैर्नृपगणैस्संसेव्यमानं भजे ॥ 53

कस्तूरीघनसारकुङ्कुमलसच्छ्रीचन्दनालङ्कृतं
कन्दर्पाधिकसुन्दरं घननिभं काकुत्स्थवंशध्वजम् ।
कल्याणाम्भरवेष्टितं कमलया युक्तं कलावल्लभं
कल्याणाचलकार्मुकप्रियसखं कल्याणरामं भजे ॥ 54

मुक्तेर्मूलं मुनिवरहृदानन्दकन्दं मुकुन्दं
कूटस्थाख्यं सकलवरदं सर्वचैतन्यरूपम् ।
नादातीतं कमलनिलयं नादनादान्ततत्त्वं
नादातीतं प्रकृतिरहितं रामचन्द्रं भजेऽहम् ॥ 55

ताराकारं निखिलनिलयं तत्त्वमस्यादिलक्ष्यं
शब्दावाच्यं त्रिगुणरहितं व्योममङ्गुष्ठमात्रम् ।
निर्वाणाख्यं सगुणमगुणव्योमरन्ध्रान्तरस्थं
सौषुम्नान्तः प्रणवसहितं रामचन्द्रं भजेऽहम् ॥ 56

निजानन्दाकारं निगमतुरगाराधितपदं
परब्रह्मानन्दं परमपदगं पापहरणम् ।
कृपापारावारं परमपुरुषं पद्मनिलयं
भजे रामं श्यामं प्रकृतिरहितं निर्गुणमहम् ॥ 57

साकेते नगरे समस्तमहिमाधारे जगन्मोहने
रत्नस्तम्भसहस्रमण्टपमहासिंहासने साम्बुजे ।
विश्वामित्रवसिष्ठगौतमशुकव्यासादिभिर्मौनिभिः
ध्येयं लक्ष्मणलोकपालसहितं सीतासमेतं भजे ॥ 58

रामं श्यामाभिरामं रविशशिनयनं कोटिसूर्यप्रकाशं
दिव्यं दिव्यास्त्रपाणिं शरमुखशरधिं चारुकोडण्डहस्तम् ।
कालं कालाग्निरुद्रं रिपुकुलदहनं विघ्नविच्छेददक्षं
भीमं भीमाट्टहासं सकलभयहरं रामचन्द्रं भजेऽहम् ॥ 59

श्रीरामं भुवनैकसुन्दरतनुं धाराधरश्यामलं
राजीवायतलोचनं रघुवरं राकेन्दुबिम्बाननम् ।
कोदण्डादिनिजायुधाश्रितभुजैर्भ्रान्तं विदेहात्मजा-
धीशं भक्तजनावनं रघुवरं श्रीरामचन्द्रं भजे ॥ 60

श्रीवत्साङ्कमुदारकौस्तुभलसत्पीताम्बरालङ्कृतं
नानारत्नविराजमानमकुटं नीलाम्बुदश्यामलम् ।
कस्तूरीघनसारचर्चिततनुं मन्दारमालाधरं
कन्दर्पायुतसुन्दरं रघुपतिं सीतासमेतं भजे ॥ 61

सदानन्ददेवे सहस्रारपद्मे
गलच्चन्द्रपीयूषधारामृतान्ते ।
स्थितं राममूर्तिं निषेवे निषेवे-
ऽन्यदैवं न सेवे न सेवे न सेवे ॥ 62

सुधाभासितद्वीपमध्ये विमाने
सुपर्वालिवृक्षोज्ज्वले शेषतल्पे ।
निषण्णं रमाङ्कं निषेवे निषेवे-
ऽन्यदैवं न सेवे न सेवे न सेवे ॥ 63

चिदंशं समानन्दमानन्दकन्दं
सुषुम्नाख्यरन्ध्रान्तराले च हंसम् ।
सचक्रं सशङ्खं सपीताम्बराङ्कं
परञ्चान्यदैवं न जाने न जाने ॥ 64

चतुर्वेदकूटोल्लसत्कारणाख्यं
स्फुरद्दिव्यवैमानिके भोगितल्पे ।
परन्धाममूर्तिं निषण्णं निषेवे
निषेवेऽन्यदैवं न सेवे न सेवे ॥ 65

सिंहासनस्थं सुरसेवितव्यं
रत्नाङ्कितालङ्कृतपादपद्मम् ।
सीतासमेतं शशिसूर्यनेत्रं
रामं भजे राघव रामचन्द्रम् ॥ 66

रामं पुराणपुरुषं रमणीयवेषं
राजाधिराजमकुटार्चितपादपीठम् ।
सीतापतिं सुनयनं जगदेकवीरं
श्रीरामचन्द्रमनिशं कलयामि चित्ते ॥ 67

परानन्दवस्तुस्वरूपादिसाक्षिं
परब्रह्मगम्यं परञ्ज्योतिमूर्तिम् ।
पराशक्तिमित्राऽप्रियाराधिताङ्घ्रिं
परन्धामरूपं भजे रामचन्द्रम् ॥ 68

मन्दस्मितं कुण्डलगण्डभागं
पीताम्बरं भूषणभूषिताङ्गम् ।
नीलोत्पलाङ्गं भुवनैकमित्रं
रामं भजे राघव रामचन्द्रम् ॥ 69

अचिन्त्यमव्यक्तमनन्तरूप-
मद्वैतमानन्दमनादिगम्यम् ।
पुण्यस्वरूपं पुरुषोत्तमाख्यं
रामं भजे राघव रामचन्द्रम् ॥ 70

पद्मासनस्थं सुरसेवितव्यं
पद्मालयानन्दकटाक्षवीक्ष्यम् ।
गन्धर्वविद्याधरगीयमानं
रामं भजे राघव रामचन्द्रम् ॥ 71

अनन्तकीर्तिं वरदं प्रसन्नं
पद्मासनं सेवकपारिजातम् ।
राजाधिराजं रघुवीरकेतुं
रामं भजे राघव रामचन्द्रम् ॥ 72

सुग्रीवमित्रं सुजनानुरूपं
लङ्काहरं राक्षसवंशनाशम् ।
वेदाश्रयाङ्गं विपुलायताक्षं
रामं भजे राघव रामचन्द्रम् ॥ 73

सकृत्प्रणतरक्षायां साक्षी यस्य विभीषणः ।
सापराधप्रतीकारः स श्रीरामो गतिर्मम ॥ 74

फलमूलाशिनौ दान्तौ तापसौ धर्मचारिणौ ।
रक्षःकुलविहन्तारौ भ्रातरौ रामलक्ष्मणौ ॥ 75

तरुणौ रूपसम्पन्नौ सुकुमारौ महाबलौ ।
पुण्डरीक विशालाक्षौ चीरकृष्णाजिनाम्बरौ ॥ 76

कौसल्यानयनेन्दुं दशरथमुखारविन्दमार्ताण्डम् ।
सीतामानसहंसं रामं राजीवलोचनं वन्दे ॥ 77

भर्जनं भवबीजानां मार्जनं सुखसम्पदाम् ।
तर्जनं यमदूतानां रामरामेति कीर्तनम् ॥ 78

न जाने जानकी जाने राम त्वन्नामवैभवम् ।
सर्वेशो भगवान् शम्भुर्वाल्मीकिर्वेत्ति वा नवा ॥ 79

करतलधृतचापं कालमेघस्वरूपं
सरसिजदलनेत्रं चारुहासं सुगात्रम् ।
विचिनुतवनवासं विक्रमोदग्रवेषं
प्रणमत रघुनाथं जानकीप्राणनाथम् ॥ 80

विद्युत्स्फुरन्मकरकुण्डलदीप्तचारु-
गण्डस्थलं मणिकिरीटविराजमानम् ।
पीताम्बरं जलदनीलमुदारकान्तिं
श्रीरामचन्द्रमनिशं कलयामि चित्ते ॥ 81

रत्नोल्लसज्ज्वलितकुण्डलगण्डभागं
कस्तूरिकातिलकशोभितफालभागम् ।
कर्णान्तदीर्घनयनं करुणाकटाक्षं
श्रीरामचन्द्र मुखमात्मनि सन्निधत्तम् ॥ 82

वैदेहीसहितं च लक्ष्मणयुतं कैकेयिपुत्रान्वितं
सुग्रीवं च विभीषणानिलसुतौ नीलं नलं साङ्गदम् ।
विश्वामित्रवसिष्ठगौतमभरद्वाजादिकान् मानयन्
रामो मारुतिसेवितः स्मरतु मां साम्राज्यसिंहासने ॥ 83

सकलगुणनिधानं योगिभिस्स्तूयमानं
भजितसुरविमानं रक्षितेन्द्रादिमानम् ।
महितवृषभयानं सीतया शोभमानं
स्मरतु हृदयभानुं ब्रह्मरामाभिरामम् ॥ 84

त्रिदशकुमुदचन्द्रो दानवाम्भोजचन्द्रो
दुरिततिमिरचन्द्रो योगिनां ज्ञानचन्द्रः ।
प्रणतनयनचन्द्रो मैथिलीनेत्रचन्द्रो
दशमुखरिपुचन्द्रः पातु मां रामचन्द्रः ॥ 85

यन्नामैव सहस्रनामसदृशं यन्नाम वेदैस्समं
यन्नामाङ्कितवाक्य-मासुरबलस्त्रीगर्भविच्छेदनम् ।
यन्नाम श्वपचार्यभेदरहितं मुक्तिप्रदानोज्ज्वलं
तन्नामाऽलघुरामरामरमणं श्रीरामनामामृतम् ॥ 86

राजीवनेत्र रघुपुङ्गव रामभद्र
राकेन्दुबिम्बसदृशानन नीलगात्र ।
रामाऽभिराम रघुवंशसमुद्भव त्वं
श्रीरामचन्द्र मम देहि करावलम्बम् ॥ 87

माणिक्यमञ्जीरपदारविन्दं
रामार्कसम्फुल्लमुखारविन्दम् ।
भक्ताभयप्रापिकरारविन्दां
देवीं भजे राघववल्लभां ताम् ॥ 88

जयतु विजयकारी जानकीमोदकारी
तपनकुलविहारी दण्डकारण्यचारी ।
दशवदनकुठारी दैत्यविच्छेदकारी
मणिमकुटकधारी चण्डकोदण्डधारी ॥ 89

रामः पिता रघव एव माता
रामस्सुबन्धुश्च सखा हितश्च ।
रामो गुरुर्मे परमं च दैवं
रामं विना नाऽन्यमहं स्मरामि ॥ 90

श्रीराम मे त्वं हि पिता च माता
श्रीराम मे त्वं हि सुहृच्च बन्धुः ।
श्रीराम मे त्वं हि गुरुश्च गोष्ठी
श्रीराम मे त्वं हि समस्तमेव ॥ 91

रामचन्द्रचरितामृतपानं
सोमपानशतकोटिसमानम् ।
सोमपानशतकोटिभिरीया-
ज्जन्म नैति रघुनायकनाम्ना ॥ 92

राम राम दयासिन्धो रावणारे जगत्पते ।
त्वत्पादकमलासक्ति-र्भवेज्जन्मनि जन्मनि ॥ 93

श्रीरामचन्द्रेति दयापरेति
भक्तप्रियेति भवबन्धनमोचनेति ।
नाथेति नागशयनेति सदा स्तुवन्तं
मां पाहि भीतमनिशं कृपणं कृपालो ॥ 94

अयोध्यानाथ राजेन्द्र सीताकान्त जगत्पते ।
श्रीराम पुण्डरीकाक्ष रामचन्द्र नमोऽस्तु ते ॥ 95

हे राम हे रमण हे जगदेकवीर
हे नाथ हे रघुपते करुणालवाल ।
हे जानकीरमण हे जगदेकबन्धो
मां पाहि दीनमनिशं कृपणं कृतघ्नम् ॥ 96

जानाति राम तव तत्त्वगतिं हनूमान् ।
जानाति राम तव सख्यगतिं कपीशः ।
जानाति राम तव युद्धगतिं दशास्यो ।
जानाति राम धनदानुज एव सत्यम् ॥ 97

सेव्यं श्रीराममन्त्रं श्रवणशुभकरं श्रेष्ठसुज्ञानिमन्त्रं
स्तव्यं श्रीराममन्त्रं नरकदुरितदुर्वारनिर्घातमन्त्रम् ।
भव्यं श्रीराममन्त्रं भजतु भजतु संसारनिस्तारमन्त्रं
दिव्यं श्रीराममन्त्रं दिवि भुवि विलसन्मोक्षरक्षैकमन्त्रम् ॥ 98

निखिलनिलयमन्त्रं नित्यतत्त्वाख्यमन्त्रं
भवकुलहरमन्त्रं भूमिजाप्राणमन्त्रम् ।
पवनजनुतमन्त्रं पार्वतीमोक्षमन्त्रं
पशुपतिनिजमन्त्रं पातु मां राममन्त्रम् ॥ 99

प्रणवनिलयमन्त्रं प्राणनिर्वाणमन्त्रं
प्रकृतिपुरुषमन्त्रं ब्रह्मरुद्रेन्द्रमन्त्रम् ।
प्रकटदुरितरागद्वेषनिर्णाशमन्त्रं
रघुपतिनिजमन्त्रं रामरामेतिमन्त्रम् ॥ 100

दशरथसुतमन्त्रं दैत्यसंहारमन्त्रं
विबुधविनुतमन्त्रं विश्वविख्यातमन्त्रम् ।
मुनिगणनुतमन्त्रं मुक्तिमार्गैकमन्त्रं
रघुपतिनिजमन्त्रं रामरामेतिमन्त्रम् ॥ 101

संसारसागरभयापहविश्वमन्त्रं
साक्षान्मुमुक्षुजनसेवितसिद्धमन्त्रम् ।
सारङ्गहस्तमुखहस्तनिवासमन्त्रं
कैवल्यमन्त्रमनिशं भज राममन्त्रम् ॥ 102

जयतु जयतु मन्त्रं जन्मसाफल्यमन्त्रं
जननमरणभेदक्लेशविच्छेदमन्त्रम् ।
सकलनिगममन्त्रं सर्वशास्त्रैकमन्त्रं
रघुपतिनिजमन्त्रं रामरामेतिमन्त्रम् ॥ 103

जगति विशदमन्त्रं जानकीप्राणमन्त्रं
विबुधविनुतमन्त्रं विश्वविख्यातमन्त्रम् ।
दशरथसुतमन्त्रं दैत्यसंहारमन्त्रं
रघुपतिनिजमन्त्रं रामरामेतिमन्त्रम् ॥ 104

ब्रह्मादियोगिमुनिपूजितसिद्धमन्त्रं
दारिद्र्यदुःखभवरोगविनाशमन्त्रम् ।
संसारसागरसमुत्तरणैकमन्त्रं
वन्दे महाभयहरं रघुराममन्त्रम् ॥ 105

शत्रुच्छेदैकमन्त्रं सरसमुपनिषद्वाक्यसम्पूज्यमन्त्रं
संसारोत्तारमन्त्रं समुचितसमये सङ्गनिर्याणमन्त्रम् ।
सर्वैश्वर्यैकमन्त्रं व्यसनभुजगसन्दष्टसन्त्राणमन्त्रं
जिह्वे श्रीराममन्त्रं जप जप सफलं जन्मसाफल्यमन्त्रम् ॥ 106

नित्यं श्रीराममन्त्रं निरुपममधिकं नीतिसुज्ञानमन्त्रं
सत्यं श्रीराममन्त्रं सदमलहृदये सर्वदारोग्यमन्त्रम् ।
स्तुत्यं श्रीराममन्त्रं सुललितसुमनस्सौख्यसौभाग्यमन्त्रं
पठ्यं श्रीराममन्त्रं पवनजवरदं पातु मां राममन्त्रम् ॥ 107

व्यामोहप्रशमौषधं मुनिमनोवृत्तिप्रवृत्त्यौषधं
दैत्योन्मूलकरौषधं भवभयप्रध्वंसनैकौषधम् ।
भक्तानन्दकरौषधं त्रिभुवने सञ्जीवनैकौषधं
श्रेयः प्राप्तिकरौषधं पिब मनः श्रीरामनामौषधम् ॥ 108

सकलभुवनरत्नं सर्वशास्त्रार्थरत्नं
समरविजयरत्नं सच्चिदानन्दरत्नम् ।
दशमुखहररत्नं दानवारातिरत्नं
रघुकुलनृपरत्नं पातु मां रामरत्नम् ॥ 109

सकलभुवनरत्नं सच्चिदानन्दरत्नं
सकलहृदयरत्नं सूर्यबिम्बान्तरत्नम् ।
विमलसुकृतरत्नं वेदवेदान्तरत्नं
पुरहरजपरत्नं पातु मां रामरत्नम् ॥ 110

निगमशिखररत्नं निर्मलानन्दरत्नं
निरुपमगुणरत्नं नादनादान्तरत्नम् ।
दशरथकुलरत्नं द्वादशान्तस्स्थरत्नं
पशुपतिजपरत्नं पातु मां रामरत्नम् ॥ 111

शतमखसुतरत्नं षोडशान्तस्स्थरत्नं
मुनिजनजपरत्नं मुख्यवैकुण्ठरत्नम् ।
निरुपमगुणरत्नं नीरजान्तस्स्थरत्नं
परमपदविरत्नं पातु मां रामरत्नम् ॥ 112

सकलसुकृतरत्नं सत्यवाक्यार्थरत्नं
शमदमगुणरत्नं शाश्वतानन्दरत्नम् ।
प्रणयनिलयरत्नं प्रस्फुटद्योतिरत्नं
परमपदविरत्नं पातु मां रामरत्नम् ॥ 113

निगमशिखररत्नं नित्यमाशास्यरत्नं
जननुतनृपरत्नं जानकीरूपरत्नम् ।
भुवनवलयरत्नं भूभुजामेकरत्नं
रघुकुलवररत्नं पातु मां रामरत्नम् ॥ 114

विशालनेत्रं परिपूर्णगात्रं
सीताकलत्रं सुरवैरिजैत्रम् ।
कारुण्यपात्रं जगतः पवित्रं
श्रीरामरत्नं प्रणतोऽस्मि नित्यम् ॥ 115

हे गोपालक हे दयाजलनिधे हे सद्गुणाम्भोनिधे
हे दैत्यान्तक हे विभीषणदयापरीण हे भूपते ।
हे वैदेहसुतामनोजविहृते हे कोटिमाराकृते
हे नव्याम्बुजनेत्र पालय परं जानामि न त्वां विना ॥ 116

यस्य किञ्चिदपि नो हरणीयं
कर्म किञ्चिदपि नो चरणीयम् ।
रामनाम च सदा स्मरणीयं
लीलया भवजलं तरणीयम् ॥ 117

दशरथसुतमीशं दण्डकारण्यवासं
शतमखमणिनीलं जानकीप्राणलोलम् ।
सकलभुवनमोहं सन्नुताम्भोददेहं
बहुलनुतसमुद्रं भावये रामभद्रम् ॥ 118

विशालनेत्रं परिपूर्णगात्रं
सीताकलत्रं सुरवैरिजैत्रम् ।
जगत्पवित्रं परमात्मतन्त्रं
श्रीरामचन्द्रं प्रणमामि चित्ते ॥ 119

जय जय रघुराम श्रीमुखाम्भोजभानो
जय जय रघुवीर श्रीमदम्भोजनेत्र ।
जय जय रघुनाथ श्रीकराभ्यर्चिताङ्घ्रि
जय जय रघुवर्य श्रीश कारुण्यसिन्धो ॥ 120

मन्दारमूले मणिपीठसंस्थं
सुधाप्लुतं दिव्यविराट्स्वरूपम् ।
सबिन्दुनादान्तकलान्ततुर्य-
मूर्तिं भजेऽहं रघुवंशरत्नम् ॥ 121

नादं नादविनीलचित्तपवनं नादान्तत्त्वप्रियं
नामाकारविवर्जितं नवघनश्यामाङ्गनादप्रियम् ।
नादाम्भोजमरन्दमत्तविलसद्भृङ्गं मदान्तस्स्थितं
नादान्तधृवमण्डलाब्जरुचिरं रामं भजे तारकम् ॥ 122

नानाभूतहृदब्जपद्मनिलयं नामोज्ज्वलाभूषणम् ।
नामस्तोत्रपवित्रितत्रिभुवनं नारायणाष्टाक्षरम् ।
नादान्तेन्दुगलत्सुधाप्लुततनुं नानात्मचिन्मात्रकम् ।
नानाकोटियुगान्तभानुसदृशं रामं भजे तारकम् ॥ 123

वेद्यं वेदगुरुं विरिञ्चिजनकं वेदान्तमूर्तिं स्फुर-
द्वेदं वेदकलापमूलमहिमाधारान्तकन्दाङ्कुरम् ।
वेदशृङ्गसमानशेषशयनं वेदान्तवेद्यात्मकं
वेदाराधितपादपङ्कजमहं रामं भजे तारकम् ॥ 124

मज्जीवं मदनुग्रहं मदधिपं मद्भावनं मत्सुखं
मत्तातं मम सद्गुरुं मम वरं मोहान्धविच्छेदनम् ।
मत्पुण्यं मदनेकबान्धवजनं मज्जीवनं मन्निधिं
मत्सिद्धिं मम सर्वकर्मसुकृतं रामं भजे तारकम् ॥ 125

नित्यं नीरजलोचनं निरुपमं नीवारशूकोपमं
निर्भेदानुभवं निरन्तरगुणं नीलाङ्गरागोज्ज्वलम् ।
निष्पापं निगमागमार्चितपदं नित्यात्मकं निर्मलं
निष्पुण्यं निखिलं निरञ्जनपदं रामं भजे तारकम् ॥ 126

ध्याये त्वां हृदयाम्बुजे रघुपतिं विज्ञानदीपाङ्कुरं
हंसोहंसपरम्परादिमहिमाधारं जगन्मोहनम् ।
हस्ताम्भोजगदाब्जचक्रमतुलं पीताम्बरं कौस्तुभं
श्रीवत्सं पुरुषोत्तमं मणिनिभं रामं भजे तारकम् ॥ 127

सत्यज्ञानमनन्तमच्युतमजं चाव्याकृतं तत्परं
कूटस्थादिसमस्तसाक्षिमनघं साक्षाद्विराट्तत्त्वदम् ।
वेद्यं विश्वमयं स्वलीनभुवनस्वाराज्यसौख्यप्रदं
पूर्णं पूर्णतरं पुराणपुरुषं रामं भजे तारकम् ॥ 128

रामं राक्षसवंशनाशनकरं राकेन्दुबिम्बाननं
रक्षोरिं रघुवंशवर्धनकरं रक्ताधरं राघवम् ।
राधायात्मनिवासिनं रविनिभं रम्यं रमानायकं
रन्ध्रान्तर्गतशेषशायिनमहं रामं भजे तारकम् ॥ 129

ओतप्रोतसमस्तवस्तुनिचयं ओङ्कारबीजाक्षरं
ओङ्कारप्रकृतिं षडक्षरहितं ओङ्कारकन्दाङ्कुरम् ।
ओङ्कारस्फुटभूर्भुवस्सुपरितं ओघत्रयाराधितम्
ओङ्कारोज्ज्वलसिंहपीठनिलयं रामं भजे तारकम् ॥ 130

साकेते नगरे समस्तसुखदे हर्म्येऽब्जकोटिद्युते
नक्षत्रग्रहपङ्क्तिलग्नशिखरे चान्तर्यपङ्केरुहे ।
वाल्मीकात्रिपराशरादिमुनिभिस्संसेव्यमानं स्थितं
सीतालङ्कृतवामभागमनिशं रामं भजे तारकम् ॥ 131

वैकुण्ठे नगरे सुरद्रुमतले चानन्दवप्रान्तरे
नानारत्नविनिर्मितस्फुटपटुप्राकारसंवेष्टिते ।
सौधेन्दूपलशेषतल्पललिते नीलोत्पलच्छादिते
पर्यङ्के शयनं रमादिसहितं रामं भजे तारकम् ॥ 132

वन्दे राममनादिपूरुषमजं वन्दे रमानायकं
वन्दे हारिकिरीटकुण्डलधरं वन्दे सुनीलद्युतिम् ।
वन्दे चापकलम्बकोज्ज्वलकरं वन्दे जगन्मङ्गलं
वन्दे पङ्क्तिरथात्मजं मम गुरुं वन्दे सदा राघवम् ॥ 133

वन्दे शौनकगौतमाद्यभिनुतं वन्दे घनश्यामलं
वन्दे तारकपीठमध्यनिलयं वन्दे जगन्नायकम् ।
वन्दे भक्तजनौघदेविवटपं वन्दे धनुर्वल्लभं
वन्दे तत्त्वमसीतिवाक्यजनकं वन्दे सदा राघवम् ॥ 134

वन्दे सूर्यशशाङ्कलोचनयुगं वन्दे जगत्पावनं
वन्दे पत्रसहस्रपद्मनिलयं वन्दे पुरारिप्रियम् ।
वन्दे राक्षसवंशनाशनकरं वन्दे सुधाशीतलं
वन्दे देवकपीन्द्रकोटिविनुतं वन्दे सदा राघवम् ॥ 135

वन्दे सागरगर्वभङ्गविशिखं वन्दे जगज्जीवनं
वन्दे कौशिकयागरक्षणकरं वन्दे गुरुणां गुरुम् ।
वन्दे बाणशरासनोज्ज्वलकरं वन्दे जटावल्कलं
वन्दे लक्ष्मणभूमिजान्वितमहं वन्दे सदा राघवम् ॥ 136

वन्दे पाण्डरपुण्डरीकनयनं वन्देऽब्जबिम्बाननं
वन्दे कम्बुगलं कराब्जयुगलं वन्दे ललाटोज्ज्वलम् ।
वन्दे पीतदुकूलमम्बुदनिभं वन्दे जगन्मोहनं
वन्दे कारणमानुषोज्ज्वलतनुं वन्दे सदा राघवम् ॥ 137

वन्दे नीलसरोजकोमलरुचिं वन्दे जगद्वन्दितं
वन्दे सूर्यकुलाब्धिकौस्तुभमणिं वन्दे सुराराधितम् ।
वन्दे पातकपञ्चकप्रहरणं वन्दे जगत्कारणं
वन्दे विंशतिपञ्चतत्त्वरहितं वन्दे सदा राघवम् ॥ 138

वन्दे साधकवर्गकल्पकतरुं वन्दे त्रिमूर्त्यात्मकं
वन्दे नादलयान्तरस्थलगतं वन्दे त्रिवर्गात्मकम् ।
वन्दे रागविहीनचित्तसुलभं वन्दे सभानायकं
वन्दे पूर्णदयामृतार्णवमहं वन्दे सदा राघवम् ॥ 139

वन्दे सात्त्विकतत्त्वमुद्रिततनुं वन्दे सुधादायकं
वन्दे चारुचतुर्भुजं मणिनिभं वन्दे षडब्जस्थितम् ।
वन्दे ब्रह्मपिपीलिकादिनिलयं वन्दे विराट्विग्रहं
वन्दे पन्नगतल्पशायिनमहं वन्दे सदा राघवम् ॥ 140

सिंहासनस्थं मुनिसिद्धसेव्यं
रक्तोत्पलालङ्कृतपादपद्मम् ।
सीतासमेतं शशिसूर्यनेत्रं
रामं भजे राघवरामचन्द्रम् ॥ 141

श्रीरामभद्राश्रितसद्गुरूणां
पादारविन्दं भजतां नराणाम् ।
आरोग्यमैश्वर्यमनन्तकीर्ति-
रन्ते च विष्णोः पदमस्ति सत्यम् ॥ 142

दशरथवरपुत्रं जानकीसत्कलत्रं
दशमुखहरदक्षं पद्मपत्रायताक्षम् ।
करधृतशरचापं चारुमुक्ताकलापं
रघुकुलनृवरेण्यं राममीडे शरण्यम् ॥ 143

दशमुखगजसिंहं दैत्यगर्वातिरंहं
कदनभयदहस्तं तारकब्रह्म शस्तम् ।
मणिखचितकिरीटं मञ्जुलालापवाटं
दशरथकुलचन्द्रं रामचन्द्रं भजेऽहम् ॥ 144

रामं रक्तसरोरुहाक्षममलं लङ्काधिनाथान्तकं
कौसल्यानयनोत्सुकं रघुवरं नागेन्द्रतल्पस्थितम् ।
वैदेहीकुचकुम्भकुङ्कुमरजोलङ्कारहारं हरिं
मायामानुषविग्रहं रघुपतिं सीतासमेतं भजे ॥ 145

रामं राक्षसमर्दनं रघुवरं दैतेयभिध्वंसिनं
सुग्रीवेप्सितराज्यदं सुरपतेर्भीत्यन्तकं शार्‍ङ्गिणम् ।
भक्तानामभयप्रदं भयहरं पापौघविध्वंसिनं
सामीरिस्तुतपादपद्मयुगलं सीतासमेतं भजे ॥ 146

यत्पादाम्बुजरेणुना मुनिसती मुक्तिङ्गता यन्महः
पुण्यं पातकनाशनं त्रिजगतां भाति स्मृतं पावनम् ।
स्मृत्वा राघवमप्रमेयममलं पूर्णेन्दुमन्दस्मितं
तं रामं सरसीरुहाक्षममलं सीतासमेतं भजे ॥ 147

वैदेहीकुचमण्डलाग्र-विलसन्माणिक्यहस्ताम्बुजं
चञ्चत्कङ्कणहारनूपुर-लसत्केयूरहारान्वितम् ।
दिव्यश्रीमणिकुण्डलोज्ज्वल-महाभूषासहस्रान्वितं
वीरश्रीरघुपुङ्गवं गुणनिधिं सीतासमेतं भजे ॥ 148

वैदेहीकुचमण्डलोपरि-लसन्माणिक्यहारावली-
मध्यस्थं नवनीतकोमलरुचिं नीलोत्पलश्यामलम् ।
कन्दर्पायुतकोटिसुन्दरतनुं पूर्णेन्दुबिम्बाननं
कौसल्याकुलभूषणं रघुपतिं सीतासमेतं भजे ॥ 149

दिव्यारण्ययतीन्द्रनामनगरे मध्ये महामण्टपे
स्वर्णस्तम्भसहस्रषोडशयुते मन्दारमूलाश्रिते ।
नानारत्नविचित्रनिर्मलमहासिंहासने संस्थितं
सीतालक्ष्मणसेवितं रघुपतिं सीतासमेतं भजे ॥ 150

कस्तूरीतिलकं कपीन्द्रहरणं कारुण्यवारान्निधिं
क्षीराम्भोधिसुतामुखाब्जमधुपं कल्याणसम्पन्निधिम् ।
कौसल्यानयनोत्सुकं कपिवरत्राणं महापौरुषं
कौमारप्रियमर्ककोटिसदृशं सीतासमेतं भजे ॥ 151

विद्युत्कोटिदिवाकरद्युतिनिभं श्रीकौस्तुभालङ्कृतं
योगीन्द्रैस्सनकादिभिः परिवृतं कैलासनाथप्रियम् ।
मुक्तारत्नकिरीटकुण्डलधरं ग्रैवेयहारान्वितं
वैदेहीकुचसन्निवासमनिशं सीतासमेतं भजे ॥ 152

मेघश्यामलमम्बुजातनयनं विस्तीर्णवक्षस्स्थलं
बाहुद्वन्द्वविराजितं सुवदनं शोणाङ्घ्रिपङ्केरुहम् ।
नानारत्नविचित्रभूषणयुतं कोदण्डबाणाङ्कितं
त्रैलोक्याऽप्रतिमानसुन्दरतनुं सीतासमेतं भजे ॥ 153

वैदेहीयुतवामभागमतुलं वन्दारुमन्दारकं
वन्दे प्रस्तुतकीर्तिवासिततरुच्छायानुकारिप्रभम् ।
वैदेहीकुचकुङ्कुमाङ्कितमहोरस्कं महाभूषणं
वेदान्तैरुपगीयमानमसकृत्सीतासमेतं भजे ॥ 154

देवानां हितकारणेन भुवने धृत्वाऽवतारं ध्रुवं
रामं कौशिकयज्ञविघ्नदलनं तत्ताटकासंहरम् ।
नित्यं गौतमपत्निशापदलनश्रीपादरेणुं शुभं
शम्भोरुत्कटचापखण्डनमहासत्वं भजे राघवम् ॥ 155

श्रीरामं नवरत्नकुण्डलधरं श्रीरामरक्षामणिं
श्रीरामं च सहस्रभानुसदृशं श्रीरामचन्द्रोदयम् ।
श्रीरामं श्रुतकीर्तिमाकरमहं श्रीराममुक्तिप्रदं
श्रीरामं रघुनन्दनं भयहरं श्रीरामचन्द्रं भजे ॥ 156

राममिन्दीवरश्यामं राजीवायतलोचनम् ।
ज्याघोषनिर्जितारातिं जानकीरमणं भजे ॥ 157

दीर्घबाहुमरविन्दलोचनं
दीनवत्सलमनाथरक्षकम् ।
दीक्षितं सकललोकरक्षणे
दैवतं दशरथात्मजं भजे ॥ 158

प्रातस्स्मरामि रघुनाथमुखारविन्दं
मन्दस्मितं मधुरभाषि विशालफालम् ।
कर्णावलम्बिचलकुण्डलगण्डभागं
कर्णान्तदीर्घनयनं नयनाभिरामम् ॥ 159

प्रातर्भजामि रघुनाथकरारविन्दं
रक्षोगणाय भयदं वरदं निजेभ्यः ।
यद्राजसंसदि विभिद्य महेशचापं
सीताकरग्रहणमङ्गलमाप सद्यः ॥ 160

प्रातर्नमामि रघुनाथपदारविन्दं
पद्माङ्कुशादिशुभरेखशुभावहं च ।
योगीन्द्रमानसमधुव्रतसेव्यमानं
शापापहं सपदि गौतमधर्मपत्न्याः ॥ 161

प्रातर्वदामि वचसा रघुनाथनाम
वाग्दोषहारि सकलं कलुषं निहन्तृ ।
यत्पार्वती स्वपतिना सह भोक्तुकामा
प्रीत्या सहस्रहरिनामसमं जजाप ॥ 162

प्रातः श्रये श्रुतिनुतं रघुनाथमूर्तिं
नीलाम्बुदोत्पलसितेतररत्ननीलाम् ।
आमुक्तमौक्तिकविशेषविभूषणाढ्यां
ध्येयां समस्तमुनिभिर्निजभृत्यमुख्यैः ॥ 163

रघुकुलवरनाथो जानकीप्राणनाथः
पितृवचनविधाता कीशराज्यप्रदाता ।
प्रतिनिशिचरनाशः प्राप्तराज्यप्रवेशो
विहितभुवनरक्षः पातु पद्मायताक्षः ॥ 164

कुवलयदलनीलः पीतवासाः स्मितास्यो
विविधरुचिरभूषाभूषितो दिव्यमूर्तिः ।
दशरथकुलनाथो जानकीप्राणनाथो
निवसतु मम चित्ते सर्वदा रामचन्द्रः ॥ 165

जयतु जयतु रामो जानकीवल्लभोऽयं
जयतु जयतु रामश्चन्द्रचूडार्चिताङ्घ्रिः ।
जयतु जयतु वाणीनाथनाथः परात्मा
जयतु जयतु रामोऽनाथनाथः कृपालुः ॥ 166

वदतु वदतु वाणी रामरामेति नित्यं
जयतु जयतु चित्तं रामपादारविन्दम् ।
नमतु नमतु देहं सन्ततं रामचन्द्रं
न भवतु मम पापं जन्मजन्मान्तरेषु ॥ 167

आनन्दरूपं वरदं प्रसन्नं
सिंहेक्षणं सेवकपारिजातम् ।
नीलोत्पलाङ्गं भुवनैकमित्रं
रामं भजे राघवरामचन्द्रम् ॥ 168

लङ्काविरामं रणरङ्गभीमं
राजीवनेत्रं रघुवंशमित्रम् ।
कारुण्यमूर्तिं करुणाप्रपूर्तिं
श्रीरामचन्द्रं शरणं प्रपद्ये ॥ 169

सुग्रीवमित्रं परमं पवित्रं
सीताकलत्रं नवहेमसूत्रम् ।
कारुण्यपात्रं शतपत्रनेत्रं
श्रीरामचन्द्रं शिरसा नमामि ॥ 170

श्रीराघवेति रमणेति रघूद्वहेति
रामेति रावणहरेति रमाधवेति ।
साकेतनाथसुमुखेति च सुव्रतेति
वाणी सदा वदतु राम हरे हरेति ॥ 171

श्रीरामनामामृतमन्त्रबीजं
सञ्जीवनं चेन्मनसि प्रतिष्ठम् ।
हालाहलं वा प्रलयानलं वा
मृत्योर्मुखं वा वितथीकरोति ॥ 172

किं योगशास्त्रैः किमशेषविद्या
किं यागगङ्गादिविशेषतीर्थैः ।
किं ब्रह्मचर्याश्रमसञ्चरेण
भक्तिर्नचेत्ते रघुवंशकीर्त्याम् ॥ 173

इदं शरीरं श्लथसन्धिजर्झरं
पतत्यवश्यं परिणामपेशलम् ।
किमौषथं पृच्छसि मूढ दुर्मते
निरामयं रामकथामृतं पिब ॥ 174

हे रामभद्राश्रय हे कृपालो
हे भक्तलोकैकशरण्यमूर्ते ।
पुनीहि मां त्वच्चरणारविन्दं
जगत्पवित्रं शरणं ममाऽस्तु ॥ 175

नीलाभ्रदेह निखिलेश जगन्निवास
राजीवनेत्र रमणीयगुणाभिराम ।
श्रीदाम दैत्यकुलमर्दन रामचन्द्र
त्वत्पादपद्ममनिशं कलयामि चित्ते ॥ 176

श्रीरामचन्द्र करुणाकर दीनबन्धो
सीतासमेत भरताग्रज राघवेश ।
पापार्तिभञ्जन भयातुरदीनबन्धो
पापाम्बुधौ पतितमुद्धर मामनाथम् ॥ 177

इन्दीवरदलश्याम-मिन्दुकोटिनिभाननम् ।
कन्दर्पकोटिलावण्यं वन्देऽहं रघुनन्दनम् ॥ 175

इति श्रीबोधेन्द्रसरस्वती कृत श्रीरामकर्णामृतम् ॥

sri rama karnamrutam in devanagari

Copy
Give Feedback